यथा-
प्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थखेदं विदध्या- |
सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयात. |
यथा वा ममैव-
लावण्यकान्तिपरिपूरितदिङ्मुखेऽस्मि. |
क्षोभं यदेति न मनागपि तेन मन्ये |
लोचनम्
लङ्कारस्याभाव एव वेति त्रिधा विकल्पः । एतच्च यथायोगमुदाहरणेषु योज्यम् । उदा. हरति-प्राप्तति । कस्मिश्चिदनन्तबलसमुदायवति नरपतौ समुद्रपरिसरवर्तिनि पूर्ण- चन्द्रोदयतदीयवलावगाहनादिना निमित्तेन पयोधेस्तावत्कम्पो जातः । सोऽनेन सन्दे- हेनोत्प्रेक्ष्यत इति ससन्देहोत्प्रेक्षयोः सकरात्सङ्करालङ्कारो वाच्यः । तेन च वासुदेवरू-
बालप्रिया
स्योत्तरवाक्ययोरपि सम्बन्धः । एषामुदाहरणानि स्फुटीभविष्यन्ति । प्राप्तश्रीरिति । एषः राजा, प्राप्ता श्रीः सम्पद्रमा च येन सः। अतः पुनरपि मयि तमनुभूतम् । मन्थखेदं मथनहेतुकं दुःखम् कस्मात् किमिति विदध्यात् कुर्यात् । अत्रादौ पुनरपीत्यादि सन्देहः, पश्चान्मथनफलभूतलक्ष्मीप्राप्तिबुद्ध्या कस्मादिति फलान्तर- जिज्ञासा । एवमुपर्यपि बोध्यम् । अनलसमालस्यरहितं मनो यस्य तस्येति हेतुग. र्भम् । अस्य राज्ञः पूर्वी निद्रामप्यहं नैव सम्भावयामि नैव संशये । सेतुमिति । एष मयोत्यनुषङ्गः । एषः यतः सकलद्वीपनाथैरनुयातः, अतः किमिति मयि भूयः सेतुं बध्नाति । त्वयि आयाते स्वसन्निधिमागते सति इति वितर्कान् पूर्वोक्तवाक्यैर्गम्यान् किं मथ्नीयादित्यादिसन्देहान् । दधत इव तद्धारणादिव पयोधेः कम्पः जलचाञ्चल्यमय च वेपथुः आभातीत्यन्वयः । अत्र वाच्यं तद्यङ्गयं चालङ्कारं विवृणोति-कस्मिंश्चिदि- त्यादि। स इति । कम्प इत्यर्थः । अत्र जलचाञ्चल्यस्य वेपथोश्चाभेदाध्यवसायो बोध्यः । अनेन सन्देहेनेति । वितर्कान् दधत इति वाक्यप्रतिपादितेन एषः किं मथ्नीयादिति सन्देहेन हेतुनेत्यर्थः । उत्प्रेक्ष्यत इति । कम्पेन कार्येण निमित्तेन उक्त- सन्देहरूपो हेतुः पयोधावुत्प्रेक्ष्यते । यद्वा-जलचाञ्चल्यरूपः कम्पः उक्तसन्देहहेतुक- वेपथुत्वेनोत्प्रेक्ष्यत इति भावः । सङ्करादिति । एकवाक्यानुप्रवेशसङ्करादित्यर्थः ।