अर्थशक्तेरलङ्कारो यत्राप्यन्यः प्रतीयते । |
भासते सोऽर्थशक्त्युद्भवो नामानुस्वानरूपव्यङ्ग्योऽन्यो ध्वनिः ।
तस्य प्रविरलविषयत्वमाशङ्कथेदमुच्यते--
लोचनम्
दिति हि वचनेनोक्तमुत्तमसौभाग्यम् । रचितानि विविधभङ्गीभिः प्रसाधनानीति तासां सम्भोगव्यग्रिमाभावात्तद्विरचनशिल्पकौशलमेव परमिति दौर्भाग्यातिशय इदानीमिति प्रकाशितम् । गर्वश्च बाल्याविवेकादिनापि भवतीति नात्र स्वोक्तिसद्भावः शङ्कयः । एष चार्थो यथा यथा वर्ण्यते आस्तां वा वर्णना, बहिरपि यदि प्रत्यक्षादिनावलोक्यते तथा तथा सौभाग्यातिशयं व्याधवध्वा द्योतयति ॥ २४ ॥
एवमर्थशक्त्युद्भवो द्विभेदो वस्तुमात्रस्य व्यञ्जनीयत्वे वस्तुध्वनिरूपतया निरूपितः। इदानीं तस्यैवालङ्काररूपे व्यञ्जनीयेऽलङ्कारध्वनित्वमपि भवतीत्याह-अर्थत्यादि । न केवलं शब्दशक्तेरलङ्कारः प्रतीयते पूर्वोक्तनीत्या यावदर्थशक्त्तेरपि । यदि वा न केवलं यत्र वस्तुमानं प्रतीयते यावदलङ्कारोऽपीत्यपिशब्दार्थः । अन्यशब्द व्यावष्टे- वाच्येति ॥ २५ ॥
आशङ्कयेति । शब्दशक्त्या श्लेषाद्यलङ्कारो भासत इति सम्भाव्यमेतत् । अर्थ-
बालप्रिया
भावः । तदासक्तस्येति । जायायामत्यासक्तस्य व्याधस्येत्यर्थः । कृत्यमिति । तद्विरदासहनादिति भावः । अन्यास्विति । सपत्नीवित्यर्थः । हस्तिनोडपीति । दूरस्थानपीति भावः । इति हि वचनेनेति । उक्तवाक्यार्थेनेत्यर्थः । उक्तं व्यजितम् । उत्तमसौभाग्यमिति । जायाया इति शेषः। मुक्ताफलेत्या- दिव्यङ्ग्यं दर्शयति-रचितानीत्यादि । इदानीमिति । नवपरिणयनोत्तरकाल इत्यर्थः । ननु व्यङ्गयो जायायाः सौभाग्यातिशयो हि गर्वहेतुरित्यतस्सोऽर्थो गर्विणीत्यनेनाविष्कृत इत्यत आह--गर्वश्चेति । बाल्यनिमित्तकः अविवेकः बाल्या- विवेकः । आदिपदेन सम्भवतो हेत्वन्तरस्य परिग्रहः । स्वतःसस्भवी य औचित्येन बहिरपि सम्भाव्यमानेत्यायुक्तं योजयति- -एष चार्थ इत्यादि ॥ २४ ॥
'अर्थ'त्यादिकारिकामवतारयति-एवमित्यादि । तस्यैव अर्थशक्त्युद्भवस्यैव । अलङ्कारध्वनित्वमित्यनेनास्य सम्बन्धः । व्यञ्जनीये अर्थेन व्यङ्गये सति । यत्रापीत्य. पिशब्दस्य अर्थशक्तेरपीति अलङ्कारोऽपीति योजनां विकल्पेन दर्शयन्नाह-न केव- लमित्यादि ॥ २५ ॥
शङ्काबीजं दर्शयति-शब्दशक्त्येत्यादि । पदेनेति । कारिकास्थपदेनेत्यर्थः ।
३३ ध्व०