आत्मन्यध्यात्मयोगो मुनिभिरभिहितः खानुभूतश्चिरेण
ख्यातः केनाधुनायं बहिरपि न भवेद्यत्प्रपञ्चः समस्तः ।
साक्षात्कारो ह्यमुष्य प्रथयति सकलं विश्वजातं हि मिथ्या
चक्षुश्चेदन्तरात्मन्यवहितमनिशं क्षोदमात्रायेण ।। ९० ।।
देशे सक्तो विविक्ते भयविकृतरुषां हेतुरिक्तेति रिक्ते
{{gap|3em}नात्यन्तं शीतभाजि प्रतपनरहिते चोच्चशब्दादिवर्जे ।
अस्मिन्नास्तीर्यवर्य पृषदजिनमलं कोमलं वा विकाद्यं(१)
कौशेयं बान्वगाहि प्रचुरशुचिगुणं चासनं कल्पनीयम् ।। ९१ ।।
कृत्वा पद्मासनाख्यं दृढमधिकलयं नातिदीर्घोर्ध्ववकायः
कम्पं निर्जित्य तन्वा स्थिस्तरनयनो नासिकाग्रे निमीलन् ।
पाणावृत्तानसंस्थे करतलमपरं धार्यमुत्तानमेव
ज्ञेयं योगाङ्गमाद्यं प्रभवति न यतो व्याधिरालस्वमसात् ।। ९२ ॥
सिद्धानामासनानि श्रममदमदनव्याधिबाधौद्धुराणि
यानि ख्यातानि तेषामपि च परिचयः सेवनीयः प्रयत्नात् ।
तस्माचेतःस्थिरत्वं भवति च मरुतः साध्यमार्गप्रवेशो
नालस्यस्योदय: स्यादिति हठयतिनामेकतो बल्लभः स्यात् ।। ९३ ।।
अभ्यासेनासनानां प्रतिदिवसमथालस्यमौत्सुक्वमन्त-
र्जित्वा निद्रां च योगी गुरुचरमरश्चिन्तयन्वस्थचित्तः ।
प्राणायामं विदध्यात्वहिरमिसुरते मारुतानेकनासा-
रन्ध्रेणापीय तृष्णीं धमनिमुपचितां पूरयेन्निस्तरङ्गः ।। १४ ॥
कर्मैतत्पूरकाख्यं तदनु वितनुते कुम्भकं नीतमन्त-
र्वायु नाड्यां निरुद्धं समयगणनया तुल्यया पूरकेण ।
नासारन्ध्रेण भूयस्त्यजति च मरुतः कुम्भितानल्पवेगा-
न्मात्रास्मिन्पूरकस्य प्रभवति नियतं रेचकं कर्म चैतत् ।। ९५ ।।
मात्रैकोङ्कारपाठैर्द्विधिकदशभिस्तादृशो द्वादश स्यु-
र्मात्राश्चेत्सिद्धमेतत्प्रणवजपविधिस्तत्परं निर्जयोऽपि ।
पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/८४
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
काव्यमाला।