पुटमेतत् सुपुष्टितम्
१७९
त्रिपुरसुन्दरीवेदपादस्तोत्रम् ।
हेरम्बाम्ब त्वां हृदा लम्बते य-
स्तस्मै विशः स्वयमेवानमन्ते ।। ७८ ॥
तव तत्त्वं विमृशतां प्रत्यगद्वैतलक्षणम् ।
चिदानन्दघनादन्यन्नेह नानास्ति किंचन ॥ ७९ ॥
कण्ठात्कुण्डलिनींं नीत्वा सहस्रारं शिवे तव ।
न पुनर्जायते गर्भे सुमेधा अमृतोक्षितः ।। ८० ॥
त्वत्पादुकानुसंधानप्राप्तसर्वात्मतादृशि ।
पूर्णाहंकृतिमत्यस्मिन्न कर्म लिप्यते नरे ॥ ८१ ।।
तवानुग्रहनिर्भिन्नहृदयग्रन्थिरद्रिजे ।
स्वात्मत्वेन जगन्मत्वा ततो न विजुगुप्सते ॥ ८२ ।।
कदा वसुदलोपेते त्रिकोणनवकान्विते ।
आवाहयामि चक्रे त्वां सूर्याभां श्रियमैश्वरीम् ।। ८३ ॥
ह्लमित्येकं तावकं वाचकार्णं
यज्जिह्वाग्रे देवि जागर्ति किंचित् ।
को वायं स्यात्कामकामस्त्रिलोक्यां
सर्वेऽस्मै देवा बलिमावहन्ति ॥ ८४ ॥