पुटमेतत् सुपुष्टितम्
१०८
निर्गुणमानसपूजा।
गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः ।
प्रदक्षिणमनन्तस्य प्रमाणोऽद्वयवस्तुनः ॥७॥
वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते ।
अन्तर्बहि संस्थितस्योद्वासनविधिः कुतः ॥८॥
श्रीगुरुरुवाच-
आराधयामि मणिसंनिभमात्मलिङ्गम्
मायापुरीहृदयपङ्कजसंनिविष्टम् ।
श्रद्धानदीविमलचित्तजलाभिषेकै-
र्नित्यं समाधिकुसुमैरपुनर्भवाय ॥९॥
अयमेकोऽवशिष्टोऽस्मीत्येवमावाहयेच्छिवम् ।
आसनं कल्पयेत्पश्चात्स्वप्रतिष्ठात्मचिन्तनम् ॥१०॥
पुण्यपापरजः सङ्गो मम नास्तीति वेदनम् ।
पाद्यं समर्पयेद्विद्वान्सर्वकल्मषनाशनम् ॥११॥
अनादिकल्पविधृतमूलाज्ञानजलाञ्जलिम् ।
विसृजेदात्मलिङ्गस्य तदेवार्ध्यसमर्पणम् ॥१२।।
ब्रह्मानन्दाब्धिकल्लोलकणकोट्यंशलेशकम् ।
पिबन्तीन्द्रादय इति ध्यानमाचमनं मतम् ॥१३॥