पुटमेतत् सुपुष्टितम्
२००
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।
व्यालम्बमानवरमौक्तिकगुच्छशोभि
विभ्राजिहाटकपुटद्वयरोचमानम् ।
हेम्ना विनिर्मितमनेकमाणिप्रबन्धं
नीवीनिबन्धनगुणं विनिवेदयामि ॥ ५६ ।।
विनिहतनवलाक्षापङ्कबालातपौधे
मरकतमणिराजीमञ्जुमञ्जीरघोषे ।
अरुणमणिसमुद्यत्कान्तिधाराविचित्र-
स्तव चरणसरोजे हंसकः प्रीतिमेतु ।। ५७ ॥
निबद्धशितिपट्टकप्रवरगुच्छसंशोभितां
कलक्कणितमञ्जुलां गिरिशचित्तसंमोहनीम् ।
अमन्दमणिमण्डलीविमलकान्तिकिम्मीरितां
निधेहि पदपङ्कजे कनकघुङ्घुरुमम्बिके ।। ५८ ।।
विस्फुरत्सहजरागरञ्जिते
शिञ्जितेन कलितां सखीजनैः ।
पद्मरागमणिनूपुरद्वयी-
मर्पयामि तव पादपङ्कजे ॥ ५९॥