सामग्री पर जाएँ

पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८२ काव्यमाला।


वृत्त एव स घटोऽन्धकूपक त्वां प्रसादमपि नेतुमक्षमः ।
मुद्रित त्वघमचेष्टितं त्वया तन्मुखाम्बुकणिकाः परीप्सता ॥ ७१ ॥

शतपदी सति पादशते क्षमा भुवि न गोष्पदमप्यतिवर्तितुम् ।
किमियता द्विपदस्य हनूमतो जलनिधिक्रमणे विवदामहे ॥ ७२ ॥

न गुरुवंशपरिग्रहशौण्डता न च महागुणसंग्रहणादरः ।
फलविधानकथापि न मार्गणे किमपि लुब्धकबालगृहेऽधुना ॥ ७३ ॥

तृणमणेर्मनुजस्य च तद्वतः किमुभयोर्विपुलाशयतोच्यते ।
तनुतृणाग्रलवावयवैर्ययोरवसिते ग्रहणप्रतिपादने ॥ ७४ ॥

तनुतृणाग्रधृतेन हृतश्चिरं क इव तेन न मौक्तिकशङ्कया ।
स जलबिन्दुरहो विपरीतदृग्जगदिदं वयमत्र सचेतनाः ॥ ७५ ॥

बुध्यामहे न बहुधापि विकल्पयन्तः
कैर्नामभिर्व्यपदिशेम महामतींस्तान् ।
येषामशेषभुवनाभरणस्य हेम्न-
स्तत्त्वं विवेक्तुमुपलाः परमं प्रमाणम् ॥ ७६ ॥

संरक्षितुं कृषिमकारि कृषीवलेन
पश्यात्मनः प्रतिकृतिस्तृणपूरुषोऽयम् ।
स्तब्धस्य निष्क्रियतयास्तभियोऽस्य नून-
मश्नन्ति गोमृगगणाः पुनरेव सस्यम् ॥ ७७ ॥

कस्यानिमेषवितते नयने दिवौको-
लोकादृते जगति ते अपि वै गृहीत्वा ।

१. 'अन्धकूप यस्त्वत्प्रसादमपनेतुं' इति सुभा०. २. 'प्रतीच्छता' इति

सुभा०. ३. 'जलधिविक्रमणे' इति सुभा०. ४. 'किमिह' इति सुभा०. ५. 'इह येन' इति सुभा०, ६. "विकल्पमानाः' इति सुभा०. ७. 'व्यपदिशाम' इति सुभा०.८, 'अत्स्यन्ति' इति सुभा०।