न्यक्कुर्वन्नुर्वराभृन्निभघनसमयोद्धुष्टमेधौघघोषं
स्फूर्जद्वार्ध्युत्थितोरुध्वनितमपि परब्रह्मभूतो गभीरः ।
सुव्यक्तोऽव्यक्तमूर्तेः प्रकटितकरणः प्राणनाथस्य सत्याः
प्रीत्या वः संविदध्यात्फलविकलमलं जन्म नादः स नादः ।। ११ ॥
भासा यस्य त्रिलोकी लसति परिलसत्फेनबिन्द्वर्णवान्त-
र्व्यामग्नेवातिगौरस्तुलितसुरसरिद्वारिपूरप्रसारः ।
पीनात्मा दन्तभाभिर्भृशमहहहकारातिभीमः सदेष्टां
पुष्टां तुष्टि कृषीष्ट स्फुटमिह भवतामट्टहासोऽष्टमूर्तेः ॥ १२ ॥
सद्योजाताख्यमाप्यं यदुविमलमुदग्वर्ति यद्वामदेवं
नाम्ना हेम्ना सदृक्षं जलदनिभमघोराह्वयं दक्षिणं यत् ।
यद्बालार्कप्रभं तत्पुरुषनिगदितं पूर्वमीशानसंज्ञं
यद्दिव्यं तानि शंभोर्भवदभिलषितं पञ्च दद्युर्मुखानि ॥ १३ ॥
आत्मप्रेम्णो भवान्या स्वयमिव रचिताः सादरं सांवनन्या
मष्या तिस्रः सुनीलाञ्जननिभगररेखा: समाभान्ति यस्याम् ।
आकल्पानल्पभासा भृशरुचिरतरा कम्बुकल्पाम्बिकायाः
पत्यु: सात्यन्तमन्तर्विलसतु सततं मन्थरा कंधरा वः ॥ १४ ॥