निजाभिजनमावेद्य वृत्तान्तं वत्सभूभुजे ।
तं ययाचे ततः पुत्रं पुत्रीपरिणयश्रिये ॥ ८५ ॥
दत्तानुज्ञं स गुरुणा वयस्यैः सहितस्ततः ।
यौगन्धरायणोपेतं. निनाय नरवाहनम् ॥ ८६ ॥
अथ् विद्याधरपुरे महोत्सवविभूषिते ।
भेजे विवाहवसुधां प्रहृष्टो नरवाहनः ॥ ८७ ॥
ततो रत्नप्रभा देवी विवेश विशदद्युतिः ।
क्षीरोदनिर्गतेव श्रीः सितचीनांशुकोज्ज्वला ॥८८॥
निःश्वाससौरभाहूतैर्भ्रमरैराकुलीकृता ।
रतिदीक्षां गृहांणेति स्मरस्याज्ञाक्षरैरिव ॥ ८९ ॥
तारहारांशुपटलस्तरङ्गितकुचस्थली ।
वल्लभालोकनानन्दे मूर्तैरिव पुरस्थितैः ॥ ९० ॥
चह्निप्रदक्षिणे तस्या मुखं धूमलताकुलम् ।
क्षणं बभार लोलालिमालाङ्ककमलश्रियम् ॥ ९१ ॥
प्रियपाणिग्रहे तस्या बभुर्दीर्घनखांशवः ।
वरपल्योः करें लग्नाः पुष्पचापशरा इव ॥ ९२ ।।
अरुन्धती तनौ तस्या निर्गतं श्रवणोत्पलम् ।
पत्युः कटाक्षमालायाः प्राप प्रथमदूतताम् ।। ९३ ।।
निर्वर्तितविवाहोऽथ रत्नपर्यङ्कमास्थितः ।
प्रियाविन्यस्तनयनो जहर्ष नरवाहनः ॥ ९४ ॥
कपोलफलके तस्याः स. मुहुविम्बितो बभौ ।
त्यज लज्जामिति खैरं शशी वक्तुमिवागतः ॥ ९५ ॥
मुक्तावलीरत्न मध्ये विम्बितां स दधद्वधूम् ।
बभार विभ्रमं शौरेलक्ष्मीर्ललितवक्षसः ॥ ९६ ॥
सजी हेमप्रभादिष्टं प्रविश्य मणिमन्दिरम् ।
कान्ताविलासरसिको बभूव नस्वाहनः ॥ १७ ॥
पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/४७६
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७६
काव्यमाला ।