सामग्री पर जाएँ

कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः ०२

विकिस्रोतः तः
← प्रश्नः ०१ कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्
प्रश्नः ०२
हिरण्यकेशिः/सत्याषाढः
प्रश्नः ०३ →

अथ द्वितीयप्रश्ने प्रथमः पटलः ।
अग्नये समिध्यमानायानुब्रूहीति संप्रेष्यति समिध्यमानायानुब्रूहीति चाऽग्नये देवे- भ्यः समिध्यमानाय होतरनुब्रूहीति वा ।
आसीनः प्रणवे प्रणवे समिधमादधाति ।
समिद्धो अग्न आहुतेत्यस्यामुत्तमायां वाऽनूयाजसमिधमवशिष्य सर्वमिध्ममादधाति ।प्रतिसामिधेनीर्वा ।
वेदेनाऽऽहवनीयं त्रिरुपवाजयति ।
स्रुवेण ध्रुवाया आज्यमादाय वेदेनोपयम्योत्तरं परिधिसंधिमन्ववहृत्य स्रुवं प्रजापतये मनवे स्वाहेति मनसा ध्वायन्दक्षिणाप्राञ्चमृजुं दीर्घꣳ संततं ज्योतिष्मत्याघारयति तिर्यञ्चं वा सर्वाणीध्मकाष्ठानि सꣳस्पर्शयति ।
स्रुवेणाऽऽज्यस्थाल्या आज्यमादायाऽऽप्या- यतां ध्रुवा घृतेनेति ध्रुवामाप्याययति ।
सर्वत्रैवम् ।
अग्नीत्परिधीꣳ श्चाग्निं च त्रिस्त्रिः समृड्ढीति संप्रेष्यति ।
इध्मसंनहनानि स्फ्य उपसंगृह्याऽऽग्नीध्रः प्रदक्षिणमनुपरिक्रामन्परिधीन्संमार्ष्टि मध्यममुदञ्चं प्राञ्चावितरौ ।
अग्ने वाजजिद्वाजं त्वा सरिष्यन्तं वाजं जेष्यन्तं वाजजितं वाजजित्यायै संमार्ज्म्यग्निमन्नादमन्नाद्यायेति त्रिरग्निम् ।
सर्वास्वाहुतिषूपभृता जुहूमुपदधाति मुखतोऽभिहृत्योपभृति जुहूमवदधाति होष्यꣳस्तेनैव
प्रत्यवहरति न सꣳशिञ्जयति नाभिं प्रति स्रुचौ धारयते ।। १ ।। समं प्राणैरित्येकेषाम् ।
अपरेणाऽऽहवनीयं दक्षिणेन दक्षिणाऽतिक्रामति सव्येनो दङ्ङपि वा सव्येन दक्षिणाऽतिक्रामति दक्षिणेनोदङ् ।
आघारमाघारयिष्यन्भुवनमसीत्यग्रेण जुहूपभृतौ देवेभ्यः प्राचीनमञ्जलिं करोति सप्रथा नमो देवेभ्य इति वा ।
स्वधा पितृभ्य इति दक्षिणा ।
जुह्वेहीति जुहूमादत्त उपभृदेहीत्युपभृतम् ।
सुयमे मेऽद्य घृताची भूयास्तꣳ स्वावृतौ सूपावृतावित्युपभृति जुहूमवदधाति ।
अग्नाविष्णू इत्यनवक्लिन्दन्प्रस्तरं दक्षिणाऽतिक्रामति ।
विष्णोः स्थानमसीत्यवतिष्ठते ।
यत्रेन्द्रस्तिष्ठन्वीर्यमकरोत्तत्तिष्ठन्वीर्यं क्रियासमिति वा ।
अन्तर्वेदि दक्षिणं पादमवघ्रन्सव्यं कृत्वा ।
दक्षिणं परिधिसंधिमन्ववहृत्य स्रुचम् ।
समारभ्येत्याघारयति ।
उच्छुष्मो अग्न इति वा ।
प्राञ्चमुदञ्चमृजुं दीर्घꣳ संततं ज्योतिष्मत्याघारयति ।
तिर्यञ्चं वा ।
सर्वाणीध्मकाष्ठानि सꣳस्पर्शयति ।
हुत्वाऽनुप्राणिति ।
ऊर्ध्वमाघारयेत्स्वर्गकामस्य न्यञ्च वृष्टिकामस्य ।
द्वेष्यस्य न्यञ्चं विच्छिनत्ति वा ।
यं कामयेत प्रमायुकः स्यादिति जिह्मं तस्याऽऽघारयेत् ।
बृहद्भा इति स्रुचमुद्गृह्णाति ।
पाहि माऽग्न इत्यसꣳस्पर्शयन्स्रुचावत्याक्रामति ।
समक्तमग्निना घृतꣳ समक्तꣳ हविषा हविः । समन्तरिक्षमर्चिषेति जुह्वा ध्रुवां त्रिः समनक्ति ।
मखस्य शिरोऽसीति वा ।
उन्नीतꣳ राय इति स्रुवेण ध्रुवाया आज्यमादाय सुवीराय स्वाहेति जुदहूं प्रत्यभिघारयति ।
यज्ञेन यज्ञः संतत इति जुह्वा ध्रुवाम् ।
सादयित्वा स्रुचौ ।
प्रवरं प्रवृणीते ।
इध्मसंनहनानि स्फ्य उपसंगृह्य वेदेश्च तृणमव्यन्तमध्वर्युः प्रवरायावतिष्ठते ।। २ ।।
क इदमध्वर्युर्भविष्यति स इदमध्वर्युर्भविष्यति यज्ञो यज्ञस्य विष्णोः स्थाने तिष्ठामि वागार्त्विज्यं करोतु मन आर्त्विज्यं करोतु वाचं प्रपद्ये भूर्भुवः सुवरित्यध्वर्युर्जपति ।
तान्याग्नीध्रोऽन्वारभ्प पश्चादवतिष्ठते ।
क इदमग्नीद्भविष्यति स इदमग्नीद्भविष्यतीति मन्त्रꣳ संनमति ।
ब्रह्मन्प्रवरायाऽऽश्रावयिष्यामीत्यामन्त्रयते ।
आश्रावयोश्रावयेति वाऽऽश्रावयति ।
अस्तु श्रौषडित्याग्नीध्रः प्रत्याश्रावयति ।
एवमाश्रुतप्रत्याश्रुते भवतः ।
उत्करे दक्षिणामुखस्तिष्ठन्नाग्नीध्रः स्फ्यं धारयन्प्रत्याश्रावयत्यन्येष्वाश्रावणेषु प्रवरात् ।
प्रत्याश्राविते प्रवरं प्रवृणीते ।
अग्निर्देवो होता देवान्यक्षद्विद्वाꣳश्चिकित्वन्मनुष्वद्भरतवदमुवदमु वदिति यथा यजमानस्याऽऽर्षेयꣳ सह परेण त्रीननन्तरान् ।
इत ऊर्ध्वान्मन्त्रकृतोऽध्वर्युर्वृणीते यथर्षि मन्त्रकृतो वृणीत इति विज्ञायते ।
अमुतोऽर्वाञ्चो होतेति विज्ञायते ।
पुरोहितस्य प्रवरेण राजा प्रवृणीते ।
पुरोहितस्याऽऽर्षेयेणाऽऽवेदयेदिति राज्ञो विज्ञायते निषादरथकाराश्च यमृषिमनुब्रुवते तेन तेषां प्रवरं प्रवृणीते ।
तथा ब्राह्मणानां राजार्पितानां राज्ञां वा ब्राह्मणार्पितानाम् ।
द्विगोग्रस्य त्रीꣳस्त्रीनेकैकस्माद्गोत्रावुपलक्षयेत् १
तथाऽसंप्रज्ञातबन्धोः पुरोहितप्रवरेणाऽऽचार्यप्रवरेण वा ।
कृत्स्नमेकेषां प्रवरं प्रतिषिध्य मनुवदित्येव विदधाति ।
ब्रह्मण्वदा च वक्षद्ब्राह्मणा अस्य यज्ञस्य प्रावितार इति प्रवरशेषः ।
असाविति होतुरुपाꣳशु नाम गृह्णाति ।
मानुष इत्युच्चैः ।
सीदति होता ।
वेद्यां तृणमपिसृजति ।। ३ ।।

2.2 अथ द्वितीयः पटलः ।
आज्यभागयोरावापे स्विष्टकृति पत्नीसयााजेषु च याज्यापुरोनुवाक्ये याज्यैव प्रयाजानूयाजेषु ।
उभयीष्वाश्रुतप्रत्याश्रुते याज्यासंप्रैषश्च ।
अनपव्याहरन्तः प्रचरन्ति ।
सोऽध्वर्युर्नापव्याहरेत्पुराऽऽश्रावणादाश्रावितेऽग्नीन्नापव्याहरेत्पुरा प्रत्याश्रावणात्प्रत्याश्रावितेऽध्वर्युर्नापव्याहरेत्पुरा यजेति वचनाद्यजेत्युक्ते होता नापव्याहरेत्पुरा वषट्कारात् ।
उत्तरतः पुरोनुवाक्यामवदास्यन्नवद्यन्नवत्ते वा संप्रेष्यति ।
अमुष्मा अनुब्रूहीति यथादेवतम् ।
दक्षिणतो याज्यामत्याक्रम्याऽऽआव्य प्रत्या- श्रावितेऽमुं यजेति यथादेवतꣳ संप्रेष्यति ।
वषट्कारे वषट्कृते वा जुहोति याज्या पुरोनुवाक्यावतीषु चतुरवत्तं पञ्चावत्तं वा ।
पञ्चावत्तं जमदग्नीनां चतुरवत्तमितरेषां गोत्राणाम् ।
अप्यजामदग्न्यो जामदग्न्यमामन्त्र्य पञ्चावत्तं कुर्वीत ।
अङ्गुष्ठपर्वमात्राणि दैवतान्यवदानानि भवन्ति ।
उत्तराण्युत्तराणि स्थवीयाꣳसि ।
दैवतेभ्यः सौविष्टकृतानि सौविष्टकृतेभ्य ऐडानि तथा चातुर्धाकरणिकानि ।
माꣳससꣳहिताभ्यामङ्गुलीभ्यामङ्गुष्ठेन च पुरोडाशस्यावद्यति स्रुवेणाऽऽज्यसांनाय्ययोर्मेक्षणेन चरूणाम् ।
मध्यात्पुरोडाशस्यावदाय पूर्वार्धादवद्यति पश्चार्धात्तृतीयं पञ्चावत्तिनः ।
आनुजावरस्य जघन्यमवदानं प्रथमम् ।
अवदाय पूर्वार्धे स्रुचो निदध्यात्प्रथमं जघन्यं पश्चार्धे ।
पूर्वपूर्वाण्यवद्येज्ज्येष्ठस्य ज्यैष्ठिनेयस्य ।। ४ ।। पुरोधाकामस्य वा ।
अपरपूर्वाणि कनिष्ठस्य कानिष्ठिनेयस्याऽऽनुजावरस्य वा ।
पुरोडाशसांनाय्ययोरुपस्तरणाभिधारणे आज्येनोपस्तीर्य हविषोऽवदायाऽऽज्येनाभिघारयेत् ।
स्रुच्युपस्तीर्य मा भेर्मा संविक्था मा त्वा हिꣳसिषं मा ते तेजोऽपक्रमीत् । भरतमुद्धरे मनुषिञ्चावदानानि ते प्रत्यवदास्यामि नमस्ते अस्तु मा मा हिꣳसीरित्यवदास्यन्हविरभिमृशति ।
अवदायाभिघार्य यदवदानानि तेऽवद्यन्विलोमाकार्षमात्मनः । आज्येन प्रत्यनज्म्येनत्तत्त आप्पायतां पुनरिति हविः प्रत्यभिघारयति ।
अवदायावदाय प्रस्तरबर्हिः समनक्तीति विज्ञायते ।
अपिदधदिवाप्रक्ष्णन्पुरोडाशाहुतिं जुहोत्याज्यꣳ हुत्वाऽवदानं जुहोत्याज्येनान्ततोऽन्ववस्रावयति ।
मुखेनेतराः स्रावयति ।
पूर्वां पूर्वाꣳ सꣳहितामावापाहुतिं जुहोति ।
स्रुच्यमाघारमनुजुहोति ।
प्रवरं प्रवृत्य घृतवतीमध्वर्यो स्रुचमास्यस्वेत्यु- च्यमाने जुहूपभृतावादाय सकृदतिक्रान्तः पञ्च प्रयाजान्यजत्यभिक्रामं समानत्र वा तिष्ठन् ।
द्वेष्यस्यावक्रामन् (म्) ।
समिधो यजेति प्रथमं प्रयाजꣳ संप्रेष्यति यज यजेत्युत्तरान् ।
समिधः पुरस्ताद्यजति तनूनपातं दक्षिणत इडः पश्चादर्धमौपभृतस्य जुह्वामानीय बर्हिरुत्तरतो यजति स्वाहाकारं मध्येऽपरेण वाऽऽघारसंभेदं पूर्वं पूर्वꣳसꣳहितꣳ समानत्र वा सर्वान् ।
प्रत्याक्रम्य प्रयाजशेषेण हवीꣳष्यभिघारयति ।
यदनुपूर्वाणि प्रदीयन्ते ।
ध्रुवामभिघार्याऽऽग्नेयमभिघारयत्युपभृतमन्ततः ।
आज्यभागाभ्यामाज्यहविर्भ्यां प्रचरति ।
तौ प्रबाहुग्ज्योतिष्मत्युऽत्तरार्धेऽग्नये जुहोति दक्षिणार्धे सोमाय ।
तावन्तरेणेतरा जुहोति ।। ५ ।।
आज्यभागौ प्रति स्रुचावादत्ते न निदधात्या स्विष्टकृतः ।
प्रचर्याऽऽग्नेयेन पुरोडाशेनाऽऽज्यहविषोपाꣳशुयाजेन प्रचरति ।
तस्योच्चैराश्रुतप्रत्याश्रुते याज्यापुरोनुवाक्यासंप्रैषो वषट्कारश्च ।
उपांशु देवतादेशनम् ।
यथादेवतमुत्तरेण पुरोडाशेन प्रचरति ।
समवदाय सांनाय्याभ्यां प्रचरति द्विः
शृतस्यावद्यति द्विर्दध्नास्त्रिः पञ्चावत्तिनः ।
समवदाय स्विष्टकृता प्रचरति ।
यदनुपूर्वाणि प्रदीयन्ते सर्वेभ्प उत्तरार्धेभ्यः सकृत्सकृदवद्यति ।
द्विः पञ्चावत्तिनः ।
द्विरभिघारयति न हविःशेषान्प्रत्यभिघारयति ।
उत्तरार्धपूर्वार्धेऽसꣳसक्तामितराभिराहुतिभिर्जुहोति ।
प्रत्याक्रम्य स्रुचमद्भिः पूरयित्वा वैश्वानरे हविरिदं जुहोमि साहस्रमुत्सꣳ शतधारमेतम् । तस्मिन्नेष पितरं पितामहं प्रपितामहꣳ स्वर्गे लोकेविभरत्पिन्वमान इति मध्यमं परिधिं प्रदक्षिणमनु परिषिञ्चति ।।६।।

2.3 अथ द्वितीयप्रश्ने तृतीयः पटलः ।
सादयित्वा स्रुचावाग्नेयं प्राञ्चं विरुज्याङ्गुष्ठेनोपमध्यमया चाङ्गुल्याऽज्यायो यवमात्रादाव्याधात्कृत्यतामिदम् । मा रूरुपाम यज्ञस्य शुद्धꣳ स्विष्टमिदꣳ हविरि त्यनुमृश्य यवमात्रं पिप्पलमात्रं वा प्राशित्रमवद्यति ।
अविरुज्योत्तरस्मात् ।
प्राशित्रहरणमुपस्तीर्यावदायाभिघारयति ।
 उपस्तृणीयादभि च घारयेदित्येकेषाम् ।
आग्नेयात्प्राशित्रमवद्यतीत्येकेषाम् ।
तन्निधाय ।
इडापात्रमुपस्तीर्येडाꣳ समवद्यति चतुरवत्तां पञ्चावत्तां वा स्विष्टकृताऽऽनुपूर्व्यं व्याख्यातम् ।
मनुना दृष्टां घृतपदीं मित्रावरुणसमीरिताम् । दक्षि णार्धादसंभिन्दन्नवद्याम्येकतोमुखामिति दक्षिणार्धात्पुरोडाशस्य पूर्वमिडावदानमवद्यति ।
पूर्वार्धादणुमिव दीर्घं उत्तरम् ।
तमाज्येन संतर्प्य ध्रुवाया उपोह्य ।
संभेदमवद्यति ।
पश्चार्धातृतीयं पञ्चावत्तायाः ।
अभिघार्य होत्र इडामादधाति ।
प्राचीं वा प्रोहति ।
अनुत्सृजन्नेव होतेडयाऽध्वर्युं परिगृह्णाति यदि होत्रे प्रत्ता भवति ।
अग्रेण होतारं दक्षिणाऽतिक्रम्य पश्चात्प्राङा सीनो होतुरङ्गुलिपर्वणी अनक्ति ।
पूर्वमग्रेऽथापरम् ।
तत्सोऽवघ्रायाप उपस्पृशति ।
यथेतं प्रत्येत्य पुरस्तात्प्रत्यङ्ङासीनो दक्षिणे होतुः पाणाविडाया अवान्तरेडामवद्यति ।
लेपादुपस्तृणाति ।
स्वयꣳ होता मध्यतो द्विरादत्तेऽध्वर्युर्वाऽन्यतरत् ।
लेपेनाभिघारयति १
उपह्वयते होता ।
इडामुपहूयमानामध्वर्युराग्नीध्रः ।। ७ ।। यजमानश्चान्वारभन्ते ।
दैव्या अध्वर्यव उपहूता इत्युच्यमान उपहूतः पशुमानसानीति जपति ।
उपहूतायामग्रेणाऽऽहवनीयं ब्रह्मणे प्राशित्रं परिहरति ।
तस्मिन्प्राशिते ।
इढाऽसि स्योनाऽसि स्योनकृत्सा नो रायस्पोषे सुप्र- जास्त्वेधाः। मुखस्य त्वा द्युम्नाय सुरभ्यास्यत्वाय त्वाऽ- श्नामीत्युपहूतामृत्विजः प्राश्नन्ति यजमानपञ्चमाः ।
वाग्यता भवन्त्यामार्जनात्
मनो ज्योतिर्ज्रुषतामित्यन्तर्वेदि पवित्रवति मार्जयन्ते ।
आग्नेयं चतुर्धा विरुज्य बर्हिषदं करोति ।
तस्मिन्नादिश्यमान इदं यजमानस्येति यजमानभागमादिशति ।
आदिष्टस्य स्थविष्ठमग्रीधे षडवत्तꣳ संपादयति ।
उपस्तीर्यावदायाभिघारयत्येवं पुनरवद्यति ।
दिवो भागोऽस्यग्नेराग्नीध्रमस्यग्नेः शामित्रमस्यग्नेस्त्वाऽऽस्येन प्राश्नामि नमस्ते अस्तु मा मा हिꣳसीरित्याग्नीध्रः प्राश्नाति ।
वेदेन व्रह्मयजमानभागौ परिहरति ।
अन्येन पात्रेण होत्रेऽन्येनाध्वर्यवे ।
पृथिव्यै भागोऽसीति होता प्राश्नात्यन्तरिक्षस्य भागोऽसीत्यध्वर्युर्दिंवो भागोऽसीति ब्रह्मा ।
महानपरिमितोऽन्वाहार्यो दक्षिणाग्नावोदनः पक्वस्तमभिघार्यानभिघार्य वाऽन्तर्वेद्यासादयति ।
दक्षिणसद्भ्य उपहर्तवा इति संप्रेष्यति ।
दक्षिणत एतेति यजमानेनोच्यमाने यथासंप्रैषं कुर्वन्ति ।
अन्वाहार्यं प्रतिगृह्य प्रत्यायन्ति ।
हविःशेषानुद्वास्य ।
अनूयाजार्थे उल्मुके अपिसृज्य ।
व्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीत्परिधीꣳश्चाग्निं च सकृत्सकृत्संमृड्ढीति संप्रेष्यति ।
एषा ते अग्ने समित्तया वर्धस्व चाऽऽ च प्यायस्व । वर्धतां च ते यज्ञपतिरा च
प्यायताꣳ स्वाहेत्याग्नीध्रः समिधमाधायास्फ्यैरिध्मसंनहनैरपरिक्रामन्परिधीन्सं- मार्ष्टि मध्यममुदञ्चं प्राञ्चावितरौ ।
अग्ने वाजजिद्वाजं त्वा ससृवाꣳसमिति मन्त्रꣳ संनमति ।
यो भूतानामधिपती रुद्रस्तन्तिचरो युवा । पशूनस्माकं मा हिꣳसीरे- तदस्तु हुतं तव स्वाहेति संमार्गानभ्युक्ष्याऽऽहवनीये प्रहरति ।
उत्करे शालायां बलजायां वोदस्येत् ।
परोगोष्ठं वा हरेत्परोगव्यूतिं वा । । ८ । ।
इति हिरण्यकेशिसूत्रे द्वितीयप्रश्रे तृतीयः पटलः । । ३ । ।

२.४ अथ द्वितीयप्रश्रे चतुर्थः पटलः ।
यदुपभृत्याज्यं तज्जुह्वामानीय तेन सकृदतिक्रान्तस्त्रीननूयाजान्यजति ।
देवान्यजेति प्रथममनूयाजꣳ संप्रेष्यति यज यजेत्युत्तरौ ।
अग्रेणाऽऽघारसंभेदं पश्चात्पश्चात्समिधि जुहोति ।
प्राञ्चमुत्तमं दीर्घꣳ संततं तेनेतराननुसंभिनत्ति ।
प्रत्याक्रम्य यथायतनꣳ सुचौ सादयित्वा ।
वाजवतीभ्यां व्यूहति ।
वाजस्य मा प्रसवेनेति दक्षिणेनोत्तानेन सप्रस्तरां जुहूमुद्गृह्णात्यथा सपत्नाꣳ इन्द्रो म इति नीचा सव्ये- नोपभृतं निगृह्णात्युद्ग्राभं चेति जुहूमुद्गृह्णाति निग्राभं चेत्युपभृतं निगृह्णाति ब्रह्म देवा अवीवृधन्निति दक्षिणेनो- त्तानेन प्राचीं जुहूं प्रोहत्यथा सपत्नानिन्द्राग्नी म इति नीचा सव्येनोपभृतं प्रतीचीं बहिर्वेदि निरस्यति ।
देवस्तꣳ सविता प्रतिनुदतु योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति वा ।
अभ्युक्ष्योपभृतमाहृत्य जुह्वा परिधीननक्ति ।
वसुभ्यस्त्वेति मध्यमꣳ रुद्रेभ्यस्त्वेति दक्षिणार्ध्यमादित्येभ्यस्त्वेत्युत्तरार्ध्यं वसुवनिरसि वसुधेयोऽसीति वा ।
अन्यत्र प्रस्तराज्जुहूꣳ सादयित्वा संजानाथां द्यावा पृथिवी मित्रावरुणौ त्वा वृष्ट्याऽवतामिति विधृतीभ्यां प्रस्तरꣳ समुल्लिप्य बर्हिषि विधृती अपिसृज्य ।
स्रुक्षु प्रस्तरमनक्त्यक्तꣳ रिहाणा इति जुह्वामग्राणि वियन्तु वय इत्युपभृति मध्यानि प्रजां योनिमिति ध्रुवायां मूलानि ।
एवं पुनरनक्ति ।
तृतीये ध्रुवायामादितो मूलान्युपभृति मध्यानि जुह्वामन्ततोऽग्राणि ।
दिव्यङ्क्ष्वान्तरिक्षेऽङ्क्ष्व पृथिव्यामङ्क्ष्वेति वा ।
आयुषे त्वेत्यक्तस्य तृणमपादाय प्रज्ञातं निधाय ।
प्रस्तरꣳ शाखां चाऽऽदाय ।
उत्तरं परिधिसंधिमन्ववहृत्य ।
आश्राव्य प्रत्याश्राविते ।। ९।।
इषिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहीति संप्रेष्यति सूक्तवाकꣳ होता प्रतिपद्यते ।
आप्यायन्तामाप ओषधय इत्यध्वर्युः प्रस्तरꣳ शाखां चानु प्रहरति ।
अक्तं देवानाꣳ रिहन्तु रिहाव्यन्तु वयाꣳसि वशा पृश्निर्भूत्वा दिवं गच्छेति वा ।
नात्यग्रमनुदग्रमप्रतिशृणन्नग्रमजिह्ममिव हस्तं धारयन् ।
कर्षन्निव न्यञ्चमन्ततः पर्यावर्तयति ।
आशास्तेऽयं यजमानोऽसावित्युच्यमानेऽपिसृज्य प्रस्तरमग्नीद्गमयेति संप्रेष्यति।
त्रिरञ्जलिनाऽऽग्नीध्रः प्रस्तरमूर्ध्वꣳ समुद्यौति ।
अनुप्रहरेति संप्रेष्यति स्वगातनुभ्यः स्वाहेति प्रस्तरस्य तृणमपात्तमाग्नीध्रोऽनुप्रहरति ।
एतदेतदिति त्रिरङ्गुल्याऽन्ववदिशति।
आयुष्पा अग्नेऽस्यायुर्मे पाहीति यथा रूपं प्राणायतनानि संमृशति ।
ध्रुवाऽसीतीमामभिमृशति ।
संवदस्वेत्याग्नीध्रः संप्रेष्यति ।
अगा३नग्नीदित्यध्वर्युराह ।
अगन्नित्याग्नीध्रः ।
श्रावयेत्यध्वर्युः श्रौषडित्याग्नीध्रः ।
मध्यमं परिधिमन्वारभ्य स्वगादैव्या होतृभ्यः स्वस्तिर्मानुषेभ्यः शंयोर्ब्रूहीति संप्रेष्यति ।
शंयुवाक्ꣳ होता प्रतिपद्यते ।
अध्वर्युः परिधीननुप्रहरति ।
यं परिधिमिति मध्यमम् ।
यज्ञस्य पाथ उपसमितमितीतरौ ।
अवाञ्चमुत्तरस्याग्रमङ्गारेषूपोहति ।
यजमानं प्रथतेति सर्वाननुमन्त्रयते ।
जुह्वा बिल उपभृतोऽग्रमबधाय सꣳस्रावभागाः स्थेति स्रुचौ प्रस्रावयति ।
उक्ते शंयुवाके हविःशेषान्प्राश्नन्ति ।
आज्यलेपान्प्रक्षाल्य ।। १० ।।

2.5 अथ द्वितीयप्रश्ने पञ्चमः पटलः ।
जुहूपभृतावध्वर्युरादत्ते वेदꣳ होता सस्रुवामाज्यस्थालीमाग्नीध्रः प्रत्यञ्चो यन्ति पत्नीः संयाजयिष्यन्तः ।
दक्षिणेन गार्हपत्यपत्यमध्वर्युरतिक्रामत्युत्तरेणेतरौ ।
अग्नेर्वामपन्नगृहस्य सदसि सादया- मीति कस्तम्भ्याꣳ स्रुचौ सादयति ।
धुरि धुर्यौ पातमिति धुरोः प्रोहति प्रोहणमेके पूर्वꣳ समामनन्ति ।
स्फ्ये वा निर्वपति स्फ्ये विमुच्य ।
विमुक्ताभ्यामपरेण गार्हपत्यमुपविश्य ध्वानेनैव स्रुग्भ्यां पत्नीः संयाजयन्ति ।
वेदं चोपभृत्य पत्न्यामन्वारब्धायामुत्तरार्धे सोमं यजति दक्षिणार्धे त्वष्टारं तावन्तरेणेतरा यजति ।
परिश्रितेऽपरिश्रिते वा देवानां पत्नीर्यजति ।
अपरिश्रिते राकां पुत्रकामो यजेत सिनी वालीं पशुकामः कुहूं पुष्टिकामः ।
पुरस्ताद्देवानां पत्नीभ्यो राका- सिनीवाल्यावेके समामनन्ति ।
अग्निं गृहपतिमिष्ट्वा संपत्नी पत्या सुकृतेन गच्छतां यज्ञस्य युक्तौ धुर्यावभूताम् । संजानानौ विजहताम- रातीर्दिवि ज्योतिरजरमारभेतामिति स्रुवेण गार्ह- पत्ये संपत्नीयं जुहोति पत्न्यां समन्वारब्धायाम् ।
होतुरङ्गुलिपर्वणी अनक्त्यपरमङ्क्त्वाऽथ पूर्वमितरथा वा ।
तत्सोऽवघ्राय । अप उपस्पृशति ।
दक्षिणे होतुः पाणौ चतुर आज्यबिन्दूनिडामवद्यति ।
षडग्नीधः ।
उपह्वयते होता ।
इडामुपहूयमानामध्वर्युराग्नीध्रः ।। ११ ।। पत्नी चान्वारभन्ते ।
उपहूतेयं यजमानेत्युच्यमान उपहूता पशुमत्यसानीति जपति ।
उपहूतां प्राश्नाति होता ।
उपहूतो द्यौः पितोप मां द्यौः पिता ह्वयतामग्निराग्नीध्रादायुषे वर्चसे जीवात्वै पुण्यायेत्याग्नीध्रः प्राश्नात्युप हूता पृथिवी मातोप मां माता पृथिवी ह्वयतामग्नि- राग्नीध्रादायुषे वर्चसे जीवात्वै पुण्यायेति वा ।
प्राश्य तूष्णीं मार्जयते ।
इडान्तꣳ शंय्वन्तं वा ।
शंय्वन्ते वेदात्तृणमपादाय तस्य जुह्वामग्रम- ञ्ज्यात्स्रुवे मध्यमुपभृत्याज्यस्थाल्यां मूलम् ।
तस्य कल्पो यः प्रस्तरस्य ।
दक्षिणाग्नाविध्मप्रव्रश्चनान्यभ्याधाय पिष्टलेपफलीकरणहोमौ जुहोति ।
चतुर्गृहीताज्ये फलीकरणानोप्याग्नेऽदब्धायो इति जुहोति ।
अपरं चतुर्गृहीतं गृहीत्वा पिष्टलेपमोप्योलूखले मुसले यच्च शूर्प आशिश्लेष दृषदि यत्कपाले ।
अवप्रुषो विप्रुषः संयजामि विश्वे देवा हविरिदं जुषन्तां यज्ञे या विप्रुषः सन्ति बह्वीरग्नौ ताः सर्वाः स्विष्टाः सुहुता जुहोमीति पिष्टलेपं जुहोति ।
पिष्टलेपं पूर्वमेके समामनन्ति वेदोऽसि वित्तिरसीति वेदꣳ होता पत्न्यै प्रयच्छति ।
वेदोऽसि वेदसे त्वा वेदो मे विन्देति वा ।
घृतवन्तं कुलायिनमिति तꣳ सोपस्थे कृत्वा ।
अस्यते ।
होताऽस्यति ।
त्रिरवस्यतीत्येकेषाम् ।
निर्द्विषन्तं निररातिं नुदेति वेदं पत्नी निरस्यते ।
इमं विष्यामीति योक्त्रपाशं विष्यते ।
तस्याः सयोक्त्रेऽञ्जलौ पूर्णपात्रमानयति ।
समायुषेत्यानीयमाने जपति ।
तत्सा निनीय मुखं विमृज्य यथार्थं गच्छति ।
घृतवन्तं कुलायिनमिति वेदꣳ होता स्तृणन्नेति गार्हपत्यात्संततमाहवनीयात् ।। १२ ।।
यथेतमध्वर्युरेत्य ।
या सरस्वती यशोभगीना तस्यै ते स्वाहा या सरस्वती वेशभगीना तस्यै ते स्वाहेति सारस्वतौ होमौ हुत्वा ।
इन्द्रोऽपानस्य केह मनसो वेशान्कुरु सुमनसः सजातान्स्वाहा ।
ऋषभं वाजिनं वयं पूर्णमासं यजामहे । स नो दोहताꣳ सुवीर्यꣳ रायस्पोषꣳ सहस्रिणं प्राणाय सुराधसे पूर्ण- मासाय स्वाहेति पौर्णमास्याम् । अमावास्या सुभगा सुशेवा धेनुरिव भूय आप्यायमाना । सा नो दोहताꣳ सुवीर्यꣳ रायस्पोषꣳ सहस्रिणमपानाय सुराधसेऽमावास्यायै स्वाहेत्यमावास्यायाꣳ स्रुवेण पार्वणौ होमौ जुहोति ।
पुरस्तात्स्विष्टकृत एके समामनन्ति ।
दश ते तनुवो यज्ञ यज्ञियास्ताः प्रीणातु यजमानो घृतेन । नारिष्ठयोः प्रशिषमीडमानो देवानां दैँव्येऽपि यजमानोऽ- मृतोऽभूत् । यं वां देवा अकल्पयन्नूर्जो भागꣳ शतक्रतू । एतद्वां तेन प्रीणानि तेन तृप्यतमꣳ इहौ । अहं देवानाꣳ सुकृतामस्मि लोके ममेदमिष्टं न मिथुर्भवाति । अहं नारि- ष्ठावनुयजामि विद्वान्यदाभ्यामिन्द्रो अदधाद्भागधेयम् । अदारसृद्भवत देव सोमास्यिन्यज्ञे मरुतो मृडता नः । मा नो विददभिभामो अशस्तिर्मा नो विदद्वृजना द्वेष्या या । ब्रह्म प्रतिष्ठा मनसो ब्रह्म वाचो ब्रह्म यज्ञानाꣳ हविषामाज्यस्य । अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन्स्वाहाकृताहुतिरेतु देवान् । सं ते मनसा मनः सं प्राणे प्राणं दधामि ते सं व्याने समपानं दधामि ते । परिगृह्य यजमानोऽमृतोऽभूच्छं न एधि द्विपदे शं चतुष्पदे स्वाहेति नारिष्ठाञ्जुहोति ।। १ ३।।

२.६ अथ द्वितीयप्रश्ने षष्ठः पटलः ।
इष्टेभ्यः स्वाहा वषडनिष्टेभ्यः स्वाहा भेषजं दुरिष्ट्यै स्वाहा निष्कृत्यै स्वाहा निर्ऋत्यै स्वाहा दौरार्ध्यै स्वाहा दैवी- भ्यस्तनूभ्यः स्वाहर्ध्यै स्वाहा समृद्ध्यै स्वाहा ।
अयाश्चाग्नेऽस्यनभिशस्तीश्च सत्यमित्त्वमया असि । अयसा मनसा धृतोऽयसा हव्यमूहिषेऽया नो धेहि भेषजꣳ स्वाहेमं मे वरुण तत्त्वा यापि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयाऽसि प्रजापते भूर्भुवः मुवरिति व्याहृतिभिर्जुहोत्येकैकशः समस्ताभिश्च ।
आश्रावितमत्याश्रावितं वषट्कृतमत्यनूक्तं च यज्ञे । अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन्स्वाहाकृताहुतिरेतु देवान् ।
अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मिथु । अग्ने तदस्य कल्पय त्वꣳ हि वेत्थ यथातथꣳ स्वाहाकृताहुतिरेतु देवान् ।
अतिरिक्तं न्यूने जुहोमि न्यूनमतिरिक्ते जुहोमि । समꣳ समे जुहोमि स्वाहाकृताहुतिरेतु देवान्।
यदकर्म यन्नाकर्म यदत्यगाम यन्नात्यगाम यदत्यरी- रिचाम यन्नात्यरीरिचाम । तत्त्वं विष्णो यज्ञे यज्ञं प्रतिष्ठापय स्वाहाकृताहुतिरेतु देवान् ।
यत्प्रमत्तान्तरगाम किंचिदस्मिन्यज्ञे मन्त्रतः कर्मतो बा । अनयाऽऽहुत्या तच्छमयामि सर्वं तृप्यन्तु देवा हविषो घृतस्य स्वाहाकृताहुतिरेतु देवान् ।
ब्रह्म प्रतिष्ठा मनस इत्येषा ।
ततं म आपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते । अयꣳ समुद्र उत विश्वभेषजः स्वाहा कृतस्य समु तृप्णुतर्भुवः ।
उद्वयं तमसस्पर्युदु त्यं चित्रम् ।
यद्वो देवा अतिपादयानि वाचा चित्प्रयतं देवहेडनम् । अरायो अस्माꣳ अभि- दुच्छुनायतेऽन्यत्रास्मन्मरुतस्तं निधेतन ।
यत इन्द्र भयामहे ततो नो अभयं कृधि । मघव- ञ्छग्धि तव तन्न ऊतये विद्विषो विमृधो जहि ।
स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी । वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयंकरः ।
आभिर्गीर्भिर्यदतो न ऊनमाप्यायय हरिवो वर्धमानः । यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम ।
अव ते हेड उदुत्तमम् ।
पुरुषसंमितो यज्ञो यज्ञः पुरुषसंमितः । अग्ने तदस्य कल्पय त्वꣳ हि वेत्थ यथातथꣳ स्वाहाकृताहुतिरेतु देवान्।
यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्तासः । अग्निष्ट- द्धोता क्रतुविद्विजानन्यजिष्ठो देवाꣳ ऋतुशो यजाति ।
स्वाहेति जुह्वाऽऽहवनीयेऽध्वर्युः ।। १४ ।।
सर्वप्रायश्चित्तानि जुहोति ।
ध्रुवामाप्याय्य ।
देवा गातुविद इत्यन्तर्वेद्यूर्ध्वस्तिष्ठन्ध्रुवयाऽऽहवनीये त्रीणि समिष्टयजूꣳषि जुहोति ।
एकं द्वे त्रीणि वा संततम् ।
विग्राहं वा ।
द्वेष्यस्य न्यञ्चं विच्छिनत्ति वा ।
यं कामयेत प्रमायुकः स्यादिति जिह्मस्तिष्ठञ्जुहुयात् ।
मध्यमे स्वाहाकारे बर्हिरनुप्रहरति ।
बर्हिर्मुष्टिं वा ।
हुते वाऽनुप्रहरति ।
प्रहृत्य वाऽभिजुहुयात् ।
यदि यजमानः प्रवसेत्प्रजापतेर्विभान्नाम लोक इति ध्रुवायां यजमानभागमवधाय सह समिष्टयजुषा जुहुयात् ।
अभिस्तृणीहि परिधेहि वेदिं जामिं मा हिꣳसीरमुया शयाना । होतृषदना हरिताः सुवर्णा निष्का इमे यजमानस्य ब्रध्न इति होतृषदनैर्वेदिमभिस्तृणाति ।
पोषाय व इत्यग्रेणाऽऽहवनीयं प्रणीताः पर्याहृत्य यो वऽयौक्षीत्स वो विमुञ्चत्वित्यन्तर्वेदि विमुञ्चति ।
यं देवा मनुष्येषूपवेषमधारयन् । ये अस्मदपचेतसस्तानस्म भ्यमिहा कुरु । उपवेषोप विड्ढि नः प्रजां पुष्टिमथो धनम् । द्विपदो नश्चतुष्पदो ध्रुवाननपगान्कुर्वित्युपवेषमादाय ।
योपवेषे शुक्साऽमुमृच्छतु यं द्विष्म इत्युत्करे निखनेन्निरस्येद्वा ।
निरमुं नुद ओकसः सपत्नो यः पृतन्यति । निर्बाध्येन हविषेन्द्र एणं पराशरीत् । इहि तिस्रः परावत इहि पञ्चजनाꣳ अति । इहि तिस्रोऽतिरोचना यावत्सूर्यो असद्दिवि । परमां त्वा परावतमिन्द्रो नयतु वृत्रहा । यतो न पुनरायसि शश्वतीभ्यः समाभ्यः । हतोऽसा- ववधिष्मामुमिति यं द्वेष्टि तस्य वधं मनसा ध्यायत्यव- सृष्टः परापत शरो ब्रह्मसꣳशित इति वाऽप उपस्पृश्य ।
कस्त्वा युनक्ति स त्वा विमुञ्चत्विति यज्ञं विमुञ्चति ।
सर्वमनुवीक्षते ।
यानि घर्मे कपालानीति कपालानि ।
सꣳस्थितायां पौर्णमास्याम् ।। १५ ।।
वैमृधस्य तन्त्रं प्रक्रमयति ।
तस्यैन्द्राग्नेन कल्पो व्याख्यातः ।
पञ्चदश सामिधेन्यः सप्तदश वा ।
निर्वपणकाल इन्द्राय वैमृधाय प्रभूतान्व्रीहीन्निर्वपति ।
दक्षिणाकाले यथाशक्ति दक्षिणां ददाति ।
तत्र याथाकामी प्रक्रमे ।
प्रक्रमात्तु नियम्यते ।
दर्शपूर्णमासयोः काम्यान्कल्पान्व्याख्यास्यामः ।
अनेन दर्शपूर्णमासाभ्यामृद्धिकामो यजेत ।
द्वे पौर्णमास्यौ यजेत द्वे अमावास्ये ।
यः कामयेतर्ध्नुयामित्येकेषां पौर्णमासीमेव यजेत ।
भ्रातृव्यवान्नामावास्यां द्व्यवरार्ध्यं त्र्यवरार्ध्यं वा यजेत संक्रामे संक्रामे वज्रं भ्रातृव्याय प्रहरति ।
अग्नीषोमीयाणि प्रधानानि स्युर्भ्रातृव्यवतोऽभिचरतस्तितीरिषतो वा ।
साकंप्रस्थायीयेन पशुकामो यजेत ।
बहवः सायं दोहा भवन्ति बहवः प्रातर्दोहास्तैरनन्तरं दोहाद्यजते ।
अपि वा यथाऽमावास्यायाꣳ हविर्दुहन्त्येवं दुग्ध्वाऽऽतंच्य निदध्याद्यत्प्रातः स्यात्तच्छृतं कुर्यात्पात्रसꣳ सादनकाले यथार्थं पात्राणि प्रयुनक्ति जुहुꣳश्चौदु- म्बरान्महतश्चमसाꣳस्तेषां जुह्वा कल्पो व्याख्यातः ।
प्रचर्याऽऽग्नेयेन पुरोडाशेनाऽऽग्नीध्रे स्रुचौ निधाय सह कुम्भीभिरतिक्रामन्माहेन्द्रायानुब्रूयाश्रावयेन्द्रं यजेति यावत्यः कुम्भ्यः स्युस्तावन्तो ब्राह्मणा दक्षिणत उपवीतिन उपोत्तिष्ठेयुर्दारुपात्राण्यादाय तेषु कुम्भीरानीय सर्वे युगपज्जुह्वत्यध्वर्योराहुतिमनुजुह्वति ।
दाक्षायणयज्ञेन सुवर्गकामो यजेत ।
द्वे पौर्णमास्यौ भवतो द्वे अमावास्ये ।
आग्नेयोऽष्टाकपालोऽग्नीषोमीय एकादशकपालः पूर्वस्यां पौर्णमास्यामाग्नेयोऽष्टाकपाल ऐन्द्रं दध्युत्तरस्यामाग्नेयोऽ- ष्टाकपाल ऐन्द्राग्न एकादशकपालः पूर्वस्यायममावास्या- यामाग्नेयोऽष्टाकपालो मैत्रावरुण्यामिक्षोत्तरस्याम् ।
तस्यैतद्व्रतं नानृतं वदेन्न माँसमश्नीयान्न स्त्रियमुपेयान्नास्य पल्पूलनेन वासः पल्पू- लयेयुर्नाञ्जीत नाभ्यञ्जीतर्तौ जायामुपेयात् ।
सोऽयं दर्शपूर्णमासयोरादितो विकल्पोऽनेन दर्शपूर्णमासाभ्यां वा यजेत ।
.तेन पञ्चदश वर्षाणीष्ट्वोत्सृजति दर्शपूर्णमासौ ।। १६ ।। इति हिरण्यकेशिसूत्रस्य द्वितीयप्रश्ने षष्ठः पटलः ।। ६ ।।

2.7 अथ द्वितीयप्रश्ने सप्तमः पटलः ।
अमावास्यायामपराह्णे पिण्डपितृयज्ञेन यजते ।
अधिवृक्षसूर्ये वा ।
यदहः पुरस्ताच्चन्द्रमसं न पश्यन्ति ।
दृश्यमाने तूपोष्य श्वोभूते यजते ।
अपां मेध्यं यज्ञियꣳ सदेवꣳ शिवमस्तु मे । आच्छेत्ता वो मा रिषं जीवानि शरदः शतमिति सकृदाच्छिन्नꣳ समूलं बर्हिराच्छिनत्ति ।
दक्षिणाप्रागग्रैर्दर्भैर्दक्षिणाग्निं परिस्तीर्य ।
उत्तरेणाग्निं दर्भान्सꣳस्तीर्य ।
एकैकशः पिण्डपितृयज्ञपात्राणि प्रयुनक्ति ।
स्फ्यꣳ स्थालीं मेक्षणं शूर्पं कृष्णाजिनमुलूखलं मुसलम् ।
अपरेणाग्निं व्रीहिमच्छकटमवस्थाप्यैकपवित्रान्तर्हिताꣳ स्थालीं व्रीहिभिः पूरयित्वा निमृज्य पितृभ्यस्त्वा जुष्टं निर्वपामीति सकृदेव शूर्पे निर्वपति ।
दक्षिणेन दक्षिणाग्निं दक्षिणापूर्वेण दक्षिणापरेण वा प्रत्यगुदग्ग्रीवं कृष्णाजिनमास्तीर्योलूखलमधिवर्त्य ।
दक्षिणाप्राची पत्नी तिष्ठन्त्यवहन्ति ।
परापावमविवेकꣳ सकृत्फलीकरोति दक्षिणाग्नौ जीवतण्डुलमिव चरुꣳ श्रपयित्वोत्पूतेन नवनीतेनानुत्पूतेनाऽऽज्येन वाऽऽभिघार्योद्वास्य ।
अध्वर्युरुपवीती दक्षिणं जान्वाच्य
मेक्षणेन स्थालीपाकस्योपहत्य ।
सोमाय पितृपीताय स्वघा नम इति प्रथमामाहुतिं जुहोति यमायाङ्गिरस्वते पितृमते स्वधा नम इति द्वितीयामग्नये कव्यवाहनाय स्विष्टकृते स्वधा नम इति ये मेक्षणे तण्डुलास्ताञ्जुहोति ।। १७ ।।
तूष्णीं मेक्षणमादधाति ।
ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टानस्मात्प्रणुनोक्तु लोकादिति दक्षिणाग्नेरेकोल्मुकं धूपायत्परा- चीनꣳ हृत्वा दक्षिणेनैकस्फ्यादेशे निदधाति ।
अपहता असुरा रक्षांसि वेदिषद इत्यवहननदेशे दक्षिणां दक्षिणाप्राचीं वा स्फ्येनैकस्फ्यां वेदिमुल्लिख्य ।
उदीरतामवर इत्यद्भिरवोक्षति ।
सकृदाच्छिन्नं बर्हिरुर्णा मृदु स्योनं पितृभ्यस्त्वा भराम्यहम् । अस्मिन्सीदन्तु मे पितरः सोम्याः पितामहाः प्रपितामहाश्चानुगैः सहेति सकृदाच्छिन्नेन बर्हिषैकस्फ्यास्तृणाति ।
तस्याꣳ स्थालीपाकं निदधाति ।
दक्षिणत आञ्जनमभ्यञ्जनं कशीपूपबर्हणमुदकुम्भं च प्रतिष्ठापयति ।
यजमानः प्राचीनावीती सव्यं जान्वाच्य सकृदाच्छिन्नेऽ- वाचीनपाणिर्दक्षिणापवर्गाꣳस्त्रीनुदकाञ्जलीन्निनयति ।
मार्जयन्तां पितरः सोम्यासो मार्जयन्तां पिता महाः सोम्यासो मार्जयन्तां प्रपितामहाः सो- म्यास इत्यसाववनेनिङ्क्ष्वासाववनेनिङ्क्ष्वेति वा ।
तेष्ववाचीनपाणिर्दक्षिणापवर्गाꣳस्त्रीन्पिंडान्ददाति ।
एतत्ते ततासाविति पित्रे पिण्डं ददाति ।
एतत्ते पितामहासाविति पितामहायै- तत्तै प्रपितामहासाविति प्रपितामहाय।
तूष्णीं चतुर्थम् ।
स कृताकृतः ।
अथ यदि नामधेयानि न विन्द्यात्स्वधा पितृभ्यः पृथिविषद्भ्य इति पित्रे पिण्डं दद्यात्स्वधा पितृ- भ्योऽन्तरिक्षसद्भ्य इति पितामहाय स्वधा पितृभ्यो दिविषद्भ्य इति प्रपितामहाय ।
यदि द्विपितैकैकस्मिन्पिण्डे द्वौ द्वावुपलक्षयेत् ।
जीवपिता पितामहाय प्रपितामहायेति दद्यात् ।
न जीवन्तमति ददातीत्येकेषाम् ।
होमान्तमेव कुर्यात् ।
जीवपितुः पिण्डदानप्रभृत्युत्तरं लुप्यते ।
निधाय पिण्डान्
आपो देवीः स्वधया वन्दमानास्ता वो गच्छन्तु पितरः स्योनाः । ऊर्जं वहन्ती सतमक्षितोदकाः क्षीरमुदकं घृतं मधु पयः कीलालं परिस्रुतꣳ स्वधा स्थ तर्पयत मे पितॄनिति त्रीनुदपातान्निनयति ।
अत्र पितरो यथाभागं मन्दध्वमनुस्वधमावृषायध्वमित्युक्त्वा वा पराङावर्तते ।
ओष्मणो व्यावृत्त उपास्ते स्वाहोष्मणो व्यथिष्या इत्यूष्माणमुद्यन्तमनुमन्त्रयते ।
व्यावृत्त ऊष्मण्यव्यावृत्ते वाऽमीमदन्त पितरोऽनुस्वधमावृषायीषतेत्युक्त्वोपपर्यावर्तते ।
यः स्थाल्याꣳ शेषस्तमवघ्रेण भक्षयति ।
उपस्पृशति वा ।
आमयाव्यन्नाद्यकामो वा प्राश्नीयाद्यो वाऽलमन्नाद्याय सन्नान्नमद्यात्तेन प्राश्य ।
अत्राऽऽञ्जनाभ्यञ्जने वासश्चानुपिण्डं ददाति ।
आङ्क्ष्वासावाङ्क्ष्वासाविति त्रिराञ्जनमभ्यङ्क्ष्वासावभ्यङ्क्ष्वासाविति त्रिरभ्यञ्जनम् ।
एतानि वः पितरो वासाꣳस्यतो नोऽन्यत्पितरो मा यूढ्व- मिति दशामूर्णास्तुकां वा छित्त्वा न्यस्यति पूर्वे वयसि ।
स्वं लोम च्छित्त्वोत्तरे ।
नमो वः पितरो रसायेति नमस्कारैरुपतिष्ठते ।
ऊर्जस्वतीः स्वधया वन्दमानास्ता वो गच्छन्तु पितरः स्योनाः । ऊर्जं वहन्तीः सतमक्षितोदकाः क्षीरमुदकं घृतं मधु पयः कीलालं परिस्रुतꣳ स्वधा स्थ तर्पयत मे पितॄनिति त्रीनुदपातान्निनयति यथा पुरस्तात् ।। १९ ।।
उत्तिष्ठत पितरः प्रेतपूर्वे यमस्य पन्थामनुयाता पुराणम् । धत्तादस्मासु द्रविणं यच्च भद्रं प्र णो ब्रूताद्भागधान्देवतास्विति पितॄनुत्थापयति ।
परेत पितर इति प्रवाहयति ।
यन्तु पितरो मनसा जवेनेति पितॄन्सम्प्रसाधयति ।
मनो न्वा हुवामह इति तिसृभिर्मनस्वतीभिरुपतिष्ठते ।
अक्षन्नमीमदन्त प्रजापत इति पङ्क्तिप्राजापत्याभ्यां प्रत्येति ।
यदन्तरिक्षमिति पङ्क्त्या गार्हपत्यमुपतिष्ठते ।
अभून्नो दूतो हविषो जातवेदा अवाड्ढव्यानि सुरभीणि कृत्वा । प्रादाः पितृभ्यः स्वधया ते अक्षन्प्रजान- न्नग्ने पुनरप्येति देवानित्येकोल्मुकं प्रत्यपिसृज्य ।
अभ्युक्ष्य द्वंद्वं पात्राणि प्रत्याहरति ।
स्थाल्यां पिण्डान्प्रत्यवदधाति ।
अपां त्वौषधीनाꣳ रसं प्राशयामि भूतकृतं गर्भं धत्स्वेति मध्यमं पिण्डं पत्न्यै प्रयच्छति ।
आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पुरुषोऽसदिति पत्नी प्राश्नाति ।
पुमाꣳसं जनयति ।
ये समानाः समनसः पितरो यमराज्ये । तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् । ये सजाताः समनसो जीवा जीवेषु मामकाः । तेषाम् श्रीर्मयि कल्पतामस्मिँल्लोके शतꣳ समा इति सकृदाच्छिन्नानभ्युक्ष्याग्नावादधाति ।
अपः पिण्डानभ्यवहरति ब्राह्मणं वा भोजयति ।
सोऽयमेवं विहित एवानाहिताग्नेः ।
तत्र यानि श्रपणसंयुक्तानि तान्यौपासने क्रियन्ते ।
अतिप्रणीत आहुतीर्जुहोति ।
यस्मिञ्जुहोति तमुपतिष्ठते ।
अत्र गार्हपत्यप्रवादः परिलुप्यते ।। २० ।।
इति हिरण्यकेशिसूत्रस्य द्वितीयप्रश्ने सप्तमः पटलः ।। ७ ।।

2.8 अथ द्वितीयप्रश्नेऽष्टमः पटलः ।
अहं भूपतिरहं भुवनपतिरहं महतो भूतस्य पतिर्देवेन सवित्रा प्रसूत आर्त्विज्यं करिष्यामि देव सवितरेतं त्वा वृणते बृहस्पतिं दैव्यं ब्रह्माणं तदहं मनसे प्रब्रवीमि मनो गायत्रियै गायत्री त्रिष्टुभे त्रिष्टुब्जगत्यै जगत्यनुष्टु- भेऽनुष्टुग्बृहत्यै बृहती पङ्क्त्यै पङ्क्तिः प्रजापतये प्रजापति- र्विश्वेभ्यो देवेभ्यो विश्वे देवा बृहस्पतये बृहस्पतिर्देवानां ब्रह्माऽहं मनुष्याणां भूर्भुवः सुवरिति वृतो ब्रह्मा जपति ।
वाचस्पते यज्ञं गोपायेत्यपरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्य ।
अहे दैधिषव्येति ब्रह्मसदनात्तृणं निरस्याप उपस्पृश्य ।
उन्निवत उदुद्वतश्च गेषमित्युपविशति ।
इदमहमर्वाग्वसोः सदने सीदामि प्रसूतो देवेन सवित्रा बृहस्पतेः सदने सीदामि तदग्नये प्रब्रवीमि तद्वायवे तत्सूर्याय तत्पृथिव्या इत्याहवनीयमभिमुख उपविशति ।
आसꣳस्थानादन्वास्ते ।
कर्मणि कर्मणि वाचं यच्छति ।
मन्त्रवत्सु वा कर्मसु तूष्णीकेषु च याथाकामी ।
अपि वा सामिधेनीषु प्रयाजानूयाजेपु च वाचं यच्छति ।
यदि प्रमत्तो व्याहरेद्वैष्णवीमृचं जपि- त्वा व्याहृतीश्च पुनर्वाचं यच्छति ।
ब्रह्मन्नपः प्रणेष्यामीत्युच्यमाने प्रणय यज्ञं देवता वर्धयैता नाकस्य पृष्ठे यजमानो
अस्तु । सप्तर्षीणाꣳ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेह्यों प्रणयेति प्रसौति ।
सर्वेष्वामन्त्रणेष्वोंकारेण प्रसौति ।
येन येन कर्मणाऽऽमन्त्रयते सर्वत्र तेन तेन प्रसौति ।
ब्रह्मन्प्रोक्षिष्यामीत्युच्यमाने प्रोक्ष यज्ञमिति हविष इध्माबर्हिषश्च प्रोक्षे ।
ब्रह्मन्नुत्तरं परिग्राहं परिग्रहीष्यामीत्युच्यमाने बृहस्पते परिगृहाण वेदिꣳ स्वगावो देवाः सदनानि सन्तु । तस्यां बर्हिः प्रथताꣳ साध्वन्तरहिꣳ स्राणः पृथिवी देव्यस्त्वित्युत्तरस्मिन्परिग्राहे ।
ब्रह्मन्सामिधेनीरनुवक्ष्यामीत्युच्यमाने प्रजापतयेऽनुब्रूहि यज्ञमिति सामिधेनीषु ।
ब्रह्मन्प्रवरायाऽऽश्रावयिष्यामीत्युच्यमाने ।। २१ ।। वाचस्पते वाचमाश्रावयैतामा- श्रावय यज्ञं देवेषु मां मनुष्येष्विति प्रवरे ।
देवता वर्धयेति सर्वत्रानुषजत्योमाश्रावयेति प्रसौति ।
मित्रस्य त्वा चक्षुषा प्रेक्ष इति प्राशित्रमवदीयमानं प्रेक्षते ।
ऋतस्य पथा पर्येहीति पर्याह्रियमाणम् ।
सूर्यस्य त्वा चक्षुषा प्रतिपश्यामीत्याह्रियमाणं प्रतीक्षते ।
देवस्य त्वेति प्रतिगृह्य ।
पूथिव्यास्त्वा नाभौ सादयामीडायाः पद इत्यपरेणाऽऽ हवनीयं व्यू(व्यु)ह्य तृणानि प्राग्दण्डꣳ सादयति ।
सुपर्णस्य त्वा गरुत्मतश्चक्षुषाऽवपश्यामीत्यवेक्ष्य ।
देवस्य त्वेत्यङ्गुष्ठेनोपमध्यमया चाङ्गुल्याऽऽदाय ।
अग्नेस्त्वाऽऽस्येन प्राश्नामीति प्राश्नाति ।
ब्राह्मणस्योदरेणेत्यसंम्लेत्यावगिरति ।
न दतो गमयति ।
या अप्स्वन्तर्देवतास्ता इदꣳ शमयन्तु स्वाहाकृतं जठरमिन्द्रस्य गच्छेत्यद्भिरभ्यवहरति ।
आचम्य ।
घसिना मे मा संपृक्था ऊर्ध्वं मे नाभेः सीदेन्द्रस्य त्वा जठरे सादयामीति नाभिदेशमभिमृशति ।
वाङ्म आसन्नसोः प्राण इति यथारूपं प्राणायतनानि संमृशति ।
अरिष्टा विश्वान्यङ्गानीति सर्वाण्यङ्गानि ।
पात्रं प्रक्षाल्य पूरयित्वा दिशो जिन्वेति पराञ्चं निनयति ।
अपरं पूरयित्वा मां जिन्वेत्यभ्यात्मं निनयति ।
ब्रह्मभागं परिहृतं न पुरा सꣳस्थानात्प्राश्नाति ।

ब्रह्मन्ब्रह्माऽसि ब्रह्मणे त्वाहुताद्य मा मा हिꣳसीरहुतो मह्यꣳ शिवो भवेत्यन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति प्रजापतेर्भागोऽसीति च ।
ब्रह्मन्प्रस्थास्याम इत्युच्यमाने देव सवितरेतत्ते प्राह तत्प्र च सुव प्र च यज बृहस्पतिर्ब्रह्मा स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाह्यों प्रतिष्ठेत्यनूयाजसमिधि ।
भूमिर्भूमिमगान्मातामातरमप्यगात् । ऋध्यास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति यत्किंच यज्ञे मृन्मयं भिद्येत तदभिमन्त्रयेत ।
सार्वत्रिकमेके समामनन्ति ।
ब्रह्मभागं प्राश्य ।
अयाडग्निर्जातवेदा अदब्धोऽन्तरः पूर्वो अस्मिन्निषद्य । सुन्वन्सनिꣳ स विमुचानो विमुञ्च धेह्यस्मासु द्रविणं जातवेदो यच्च भद्रं प्र णो यच्छाभिवस्यो अस्मान्सन्नः सृज सुमत्या वाजवत्येति समिधमाधाय हुत्वोपस्थाय वा ।
यथेतं प्रतिनिष्क्रामति ।
एवं विहितमिष्टिपशुबन्धानां ब्रह्मत्वं ब्रह्मत्वम् ।। २२ ।।
इति हिरण्यकेशिसूत्रे द्वितीयप्रश्नेऽष्टमः पटलः ।। ८७
इति हिरण्यकेशिसूत्रे द्वितीयः प्रश्नः ।। २ ।।


(अ०पटलः महादेवकृतवैजयन्तीव्याख्यासमेतम् । १७९ ब्राह्मणस्य तृतीयस्य हविषो लोपः । तदनुरूपमानुपूर्यमुच्चैरुपांशुत्वं च । अमावास्याया- मग्निरिन्द्रश्च देवते अग्निर्महेन्द्रश्चेति वा । अग्निरिन्द्रानी च देवते त्य(अ)संनयत इति । इति सत्यापादहिरण्यकेशिसूत्रस्य व्याख्यायां प्रयोगवैजयन्त्यां महादेवकृतायां प्रथममश्रेऽष्टमः पटलः ।। ८ ।। सत्यापाढीयसूत्रस्य व्याख्यायां प्रथमोऽधुना । प्रश्नः समालो गूढार्थः परिभाषासमन्वितः॥१॥ इति हिरण्यकेशिसूत्रव्याख्यायां प्रथमः प्रश्नः ॥१॥

2.1 अथ द्वितीयप्रश्ने प्रथमः पटलः ।

अग्नये समिध्यमानायानुब्रूहीति संप्रेष्यति समिध्यमानायानुब्रूहीति चाऽग्नये देवेभ्यः समिध्यमानाय होतरनुब्रूहीति वा ।

त्रितयान्यतमेन प्रैषमन्त्रेण होतारं संप्रेष्यति । नात्राऽऽत्मसंस्कारार्थः श्रेषोऽनुवच- नस्य होतृकर्तृकत्वात् । होतरि प्रविश्य स्थिते वेदिओण्यां संप्रेषकालः । एका समिध. मादाय संप्रेष इति सूत्रान्तरे दर्शितमिति माध्यकृतोक्तम् । उक्तं च कात्यायनेनेमा- समिधमादाय संप्रेष्यतीति । सर्वथा तथैव युत्तामेतदन्यथा समिध्यमानायेति वर्तमानता व्यपदेशः कथं स्यात् । अत्र चित्तिः मुगित्यादि याजमानम् ।

आसीनः प्रणवे प्रणवे समिधमादधाति ।

अत्राऽऽसीनग्रहणादन्यत्रानियमो दर्शपूर्णमाप्तकर्मस्विति सिद्धम् ।होत्रा सामिधेनी- नामन्ते प्रणव उच्चार्थमाण एवैकैकां समिधमादधाति । आहवनीयानाविति सामा. दग्नये समिध्यमानायेति प्रेषेऽनेराहवनीयस्य ग्रहणं मुख्यत्वाच्च परिधिप्रधिमन्वव- हृत्येति सर्वाणीधमकाष्ठानि सस्पर्शयतीति लिङ्गाच्च । एवं चैकादशसु समित्सु निहितासु-

समिद्धो अग्न आहुतेत्यस्यामुत्तमायां वाऽनूयाजसमिधमवशिष्य सर्वमिध्ममादधाति ।

अत्रैकां समिधमन्यानार्थ प्रज्ञातां निधाय समिद्धो अग्न इत्यस्यामन्च्यमानाया. मृच्येव न प्रणवे सर्वमवशिष्टम् । अत एवोक्तमापस्तम्बेन सर्वमिध्मशेषमादधातीति । सर्वमिध्मं समिच्चतुष्टयम् । अथवोत्तमायामत्रापि पूर्ववत्समिञ्चतुष्टयम् । इति द्वौ पक्षौ । - १ ख. छ. द. दर्शनमि' । २ ख. ट. येत्यादि. ३ क. ग. च. छ. ट. छ. ति च लिं'। ४ घ, ङ, ज. श. म. द.तेखेतस्था। १८० सत्यापाढविरचितं श्रौतसूत्र- [२द्वितीयप्र तृतीयं पक्षमाह-

प्रतिसामिधेनीर्वा ।

द्वादश्यां पञ्चदश्यां वा न सर्वमिध्यमादधाति किं तु तथा प्रणवचतुष्टयेऽप्येकै. कामेवाऽऽदधातीति वक्तुमुक्तं सामिनीं सामिधेमी प्रति पूर्ववदेवोक्तं प्रणवे प्रणव इत्यभिप्रायेण काछवृद्धिं वक्ष्यति तत्राप्यवमेव प्रकारः । अग्नये समिध्यमानायेति संस्कारोऽतो न च समिन्धनं देवतार्थं तेन नोहेशत्यागौ देवतासंप्रदानाप्रतीतश्च खाहा- कारवषट्कारयोरभावात् । समिद्धो अमिराहुत इति देवा इति च याजमानम् ।

वेदेनाऽऽहवनीयं त्रिरुपवाजयति ।

उपवाजयति संधूनोति । धर्ममात्रमेतन्नन्वनेः प्रज्वालनं त्रिवूननेन भवति । तस्मादवभृथेऽपि भवति । एतदोढासु देवतासु कार्य विकृतावनुवदिष्यत्योढासु देवता- स्विति । ततो ज्ञायतेऽत्र काळे प्रकृतावपि प्राप्तमिति । अवभृथे चोदकेऽपि वक्ष्यत्यतो ज्ञायते धर्ममात्रमदृष्टार्थमिति ।

स्रुवेण ध्रुवाया आज्यमादाय वेदेनोपयम्योत्तरं परिधिसंधिमन्ववहृत्य स्रुवं प्रजापतये मनवे स्वाहेति मनसा ध्वायन्दक्षिणाप्राञ्चमृजुं दीर्घꣳ संततं ज्योतिष्मत्याघारयति तिर्यञ्चं वा सर्वाणीध्मकाष्ठानि सꣳस्पर्शयति ।

आसीन इत्यनुवर्तनीयम् । आतीनोऽन्यमावारमिति श्रुतेः। आहवनीये जुह्वेति परि. भाषितत्वात्तदर्थ सुवेणेत्युक्तम् । धुवाया इति । सुवेण होम आज्यस्थाल्या इति परि- भाषया प्राप्तौ तु धुवाया इत्यक्तम् । आदाय गृहीत्वा वेदेनोपयम्योपभृत्स्थानीयेन । उत्तरं वायव्यकोणस्थं परियोः संधिदेशेनाऽऽयतने प्रवेश्य युवमेव न वेदं ततो मनप्ता भन्त्रमुच्चारयस्तदर्थं ध्यायन्नाधारयति धारामायतने मुञ्चति । कथं, दक्षिणाप्राञ्चं दक्षिणाप्राच्योरन्तरालमाग्नेयी प्रति समाप्तमृनुमकुटिलं दीपं न केवळ समित्प्रदेशेऽनन्त- रमपि धारां मुञ्चदित्यर्थः । संततमविच्छिन्नं ज्योतिष्मति ज्वालायुक्तेऽसौ । तिर्यञ्चं वा । किंचिदायतने प्रवेश्योत्तरदिगारम्य तिर्यगायतने दक्षिणां दिशं प्रत्यश्चति समाप्नोति तादृशमाघारमिति नामधेयं पुंलिङ्गं विशेष्यमनुसंधेयं, वेणाऽऽधारमाधारयतीति ब्राह्मणे दर्शनात् । सर्वाणि काष्ठानि संस्पर्शयत्याधारमिति शेषः । क. ग. च. छ. ट, ठ, धनी वा । या । २ ख. भाषिताज्यस्थालीनिवृत्त्वर्थम् । १५०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १८१

स्रुवेणाऽऽज्यस्थाल्या आज्यमादायाऽऽप्या- यतां ध्रुवा घृतेनेति ध्रुवामाप्याययति ।

पूर्व गृहीतेनाऽऽज्येन न्यूनां जातां पुनः समी करोत्याप्यायतामिति मन्त्रेण निक्षिप्तेनाऽऽज्येन त्रुवगतेन ।

सर्वत्रैवम् ।

यत्र यत्र ध्रुवाया आज्यं गृह्यते तत्र तत्र प्रतिग्रहणं समन्त्रमनन्तरमेवाऽऽप्यायन. मेवमेव कार्य यावन्नाऽऽप्यायित तावदन्यत्र ग्राह्यमित्यर्थः ।

अग्नीत्परिधीꣳ श्चाग्निं च त्रिस्त्रिः समृड्ढीति संप्रेष्यति ।

अग्निमग्नीत्रिस्त्रिः संमृड्ढीति ब्राह्मणोक्तेन विकल्पः । अग्निशब्देन समीपलक्षणया परिधयो गृह्यन्ते । अजहल्लक्षणया चाग्निरपि गृह्यते । वीप्साऽग्निमात्रे युक्ता । ततो ब्राह्मणशेषे परिधानसमाष्टीति दर्शनाच्छाखान्तरीयवदेवार्थों व्याख्येयः ।

इध्मसंनहनानि स्फ्य उपसंगृह्याऽऽग्नीध्रः प्रदक्षिणमनुपरिक्रामन्परिधीन्संमार्ष्टि मध्यममुदञ्चं प्राञ्चावितरौ ।

इध्मस्य सनहनानि बन्धनशुल्वानि बहुवचनं तस्य धातवोऽनेके तानुथ्यकत्र कृत्वा स्फ्येन सह धृत्वा मिलितः संमार्गः कार्य इत्यर्थः । प्रदक्षिणमनुपरिकामन्नित्युत्तरतः स्थितः प्राङ्मुख एव, मध्यममुश्चमिति प्राचीनत्वव्यावृत्त्यर्थ, संमृज्य ततोऽणाss. हवनीयं गत्वा दक्षिणत उदङ्मुखो दक्षिणाय संमृज्यापरेणाऽऽगत्योत्तरार्ध्य संमृज्य यथेतं प्रत्येति ।

अग्ने वाजजिद्वाजं त्वा सरिष्यन्तं वाजं जेष्यन्तं वाजजितं वाजजित्यायै संमार्ज्म्यग्निमन्नादमन्नाद्यायेति त्रिरग्निम् ।

संप्रेषे वीप्सयैव परिधिविषयोऽभ्यासः सिध्यतीति परिध्यर्थे सूत्रकृता नोक्तः । अग्निमित्यनेन वीप्सासंबन्धायोग्यतामाशङ्क्य स्वब्राह्मणे याऽऽघारे शब्देन लक्षि- तसमुदितपदार्थानां त्रिस्त्रिरिति वीप्सा संबध्यत एवमत्र शाखान्तरीयेऽपि परिध्य- ग्निसमुदाये वीप्सासंबन्धो व्याख्यातुं शक्यत इत्यभिप्रायेणाग्निसमार्ग एव त्रिरित्यु- क्तम् । मन्त्रेण सकृत्तूष्णी द्विः परिधीस्तूष्णीमेव त्रिनिरिति । उत्तरविध्यर्थं परिभाषामारचयति-

सर्वास्वाहुतिषूपभृता जुहूमुपदधाति मुखतोऽभिहृत्योपभृति जुहूमवदधाति होष्यꣳस्तेनैव

१ ख. अतो । २ ख. 'थाऽमिश' । ३ क. ग. च. छ. ट, ठ, भृज्जु । घ. ज. झ. न. भृति जु। र क. ग. ङ. च. छ ज. में.म. ट. ठ. ढ, 'पधारयति ! ५ क. ग. च. ट. "हुमुपधा। छ. उ. “दूमुपद। १८२ सत्यापाढविरचितं श्रौतसूत्र- [२द्वितीयपने-

प्रत्यवहरति न सꣳशिञ्जयति नाभिं प्रति स्रुचौ धारयते ।। १ ।। समं प्राणैरित्येकेषाम् ।

सर्वासु दार्शपोर्णमासिकदर्विहोमतदन्यासु आहुतिषु कर्तव्यासु गृहीतां जुहूमुप. भृता साधनभूतयोगदधाति संवृणोति तेनोप समीपे संवरणार्थ भियत इत्युपभूदित्य. र्थोऽपि दर्शितः । तत्र विशेषमाह-मुखतो न पार्श्वत उपभृतोऽग्रभागेन(ण) जुहूमुप. भूमिमुखी नीत्वापभृत्यधिकरणेऽवदधाति स्थापयति यावदाहुतिप्रक्षेपायोद्गृह्यत आयतनोपरि नयनात्पूर्वमिति यावत् । ततो होष्यन्होमार्थमायतनोपरि नेष्यंस्तेनैव मुखभागेनैव प्रत्यवहरति होमार्थमायतनप्रदेशं प्रत्यक्हरति नयाते न तु मुखभागाद. न्येन प्रदेशेनोपभूतो जुहूं विश्लेषयतीत्यर्थः । शिजति शब्दं करोति शिञ्जयति शब्दं कारयति तथौ न । परस्परकर्षणेन शब्दं नोत्पादयेदित्यर्थः । यावदुभयोर्मेलन तावन्नामिसमिते मुद्दपभृतौ धारयते प्राणः श्वासैर्वा संमितेऽध्वर्योरेव ।

अपरेणाऽऽहवनीयं दक्षिणेन दक्षिणाऽतिक्रामति सव्येनो दङ्ङपि वा सव्येन दक्षिणाऽतिक्रामति दक्षिणेनोदङ् ।

होमार्थ दक्षिणाऽतिक्रमणे प्राप्ते येन पादेन दक्षिणाऽति प्रक्रामति तदन्येनोदङ्- डिल्येतावत्फलत आहवनीयस्य पश्चाद्देशेऽतिक्रम एतन्नियम्यते । एवं परिभाष्याऽऽधारं प्रकृतमाह-

आघारमाघारयिष्यन्भुवनमसीत्यग्रेण जुहूपभृतौ देवेभ्यः प्राचीनमञ्जलिं करोति सप्रथा नमो देवेभ्य इति वा ।

नम इति पूर्वस्यान्तः । देवेभ्य इति मन्त्रस्याग्निप्रकाशकत्वालक्षणया देवपरता व्याख्ये येत्यर्थः अग्नेः सर्वदेवात्मत्वाल्लक्षणा यथोपदिष्टमिति परिमाक्तित्वात् । स्पष्टम् ।

स्वधा पितृभ्य इति दक्षिणा ।

अञ्जलिमिति पूर्वतनम् । अपामुपस्पर्शनं स्मार्तम् । आधारमाधारयिष्यन्निति वच. नादालिद्वयकरणमाघारस्याङ्गमुक्तम् । आधार इति कर्मनाम द्वयोरच्याघारणयो- न्यायविद्भिः साधितम् । उपसत्स्वाघाराभावान्नाअलिकरणम् ।

जुह्वेहीति जुहूमादत्त उपभृदेहीत्युपभृतम् ।

आदस इति पूर्ववत् । देवयज्याया इति मन्त्रयोरन्तः । १ क. "सु दर्श" । २ ख.शंपूर्ण । ३ क. ग. य. 'या चपखदिष्टं ब्राह्मणवन्त इति । ५ क. ग, घ, इ. च, छ, ज. स. स. ८, ढ. दक्षिणाम् । १५० पटलः] महादेवकृतबैजयन्तीव्याख्यासमेतम् । १८३

सुयमे मेऽद्य घृताची भूयास्तꣳ स्वावृतौ सूपावृतावित्युपभृति जुहूमवदधाति ।

पूर्वोक्ते जुह्वप्रावधाने पारिभाषिके मन्त्रमाप्रविधिरत्रोच्यते ।

अग्नाविष्णू इत्यनवक्लिन्दन्प्रस्तरं दक्षिणाऽतिक्रामति ।

अत्याक्रमणसमये पझ्या प्रस्तरं नावक्लिन्दयेन्न मर्दयेत्स्पर्शमात्रे न दोषः ।

विष्णोः स्थानमसीत्यवतिष्ठते ।

भाहवनीयाभिमुखो दक्षिणतोऽवस्थाने मन्त्रेण कुर्यात् । वीर्याणीति मन्त्रान्तः ।

यत्रेन्द्रस्तिष्ठन्वीर्यमकरोत्तत्तिष्ठन्वीर्यं क्रियासमिति वा ।

विकल्पः पूर्वेण ।

अन्तर्वेदि दक्षिणं पादमवघ्रन्सव्यं कृत्वा ।

अन्सर्वद्या दक्षिणं पाई कृत्वा स्थापयित्ता *तमवजिघ्रति स्पृशति सव्यो वामः पादः, दक्षिणं पादं समवस्थाप्य दक्षिणस्य पाणि सव्यस्य प्रपदेन स्पृष्ट्वैति यावत् । तथैवोक्तं वैखानसेन ।

दक्षिणं परिधिसंधिमन्ववहृत्य स्रुचम् ।

जुहूमत्र पूर्ववत्प्रवेश्य द्वौ परिधिसंधी । तयोरुत्तरदक्षिणभावाइक्षिणमायतनत- मामस्थम् ।

समारभ्येत्याघारयति ।

मन्त्रेण सहमावविधाननिराकरणमनेन क्रियते ।

उच्छुष्मो अग्न इति वा ।

स्वाहान्तः पूर्वो मन्त्रः । उत्तरस्तु सुवीर्यायेत्यन्तः । अत्र होमत्वेना वादात्स्वाहा- । कारान्तताऽपि, पूर्वाधारे प्रजापतिर्देवता मनोऽसीति याजमानम् । द्वितीय इन्द्रो देवता प्रथममन्त्रस्य वैखानस ऐन्द्रमाघारमित्याह । द्वितीयस्थाग्निरनुमन्त्रणं वागतीति पूर्वाधारो मानसोऽयं तु वाचिक इति वास्तुतिरेन्द्रो वै वागिति न देवतास्तुतिः ।

प्राञ्चमुदञ्चमृजुं दीर्घꣳ संततं ज्योतिष्मत्याघारयति ।

प्राश्चमुदञ्चमीशान्यभिमुखम् । ऋमित्यादिपुनर्वचनं पूर्ववदित्येतावता सिद्धे क्रियते तज्ज्ञापयत्याचार्योऽत्र मतान्तर आधारो नेष्टो होम एवेष्टः स पक्षो मा मूर्तिक त्वाघारमेवात्राप्यूजुत्वादिगुणविशिष्टं कुर्यादिति । तथोक्तमापस्तम्बेन-' अपि वा सर्वपुस्तकेषु अवजिघ्रतीति विद्यते परंतु अवहन्तीसपेक्षितमिति प्रतिभाति । १ क. ग. च. छ.ट, यत्र । १ क. ग, च. छ. 2. 3. 'नुवादेष्यति तस्मात्स्वा । क.

ग.च.छ...समा । 1 सत्यापाढविरचितं श्रौतसूत्र- [२द्वितीयप्रश्ने- नाऽऽधारयेत्पूर्वार्धे मध्ये पश्चा) वा जुहुयात् ' इति । तथा यजमानेनान्वारम्भोऽपि धर्मः प्रत्याख्यातः । ननु कथं ब्राह्मणे दृष्ट्वा सूत्रान्तरे व्याख्यातः प्रत्याख्यात इति चेत् । उच्यते-आधारमाधार्यमाणमनु समारभ्येतस्मिन्काले देवाः सुवगै लोकमायन्सा- क्षादेव यजमानः सुवगै लोकमेतीति ब्राह्मणे मन्त्रगतस्य समारम्येत्यस्य पदस्यायं व्याख्ययाऽर्थवादो न तु यजमानेनान्वारम्मः कार्य इत्यर्थों भवति । तस्मादत्राऽऽचार्य- स्यान्वारम्मविधिर्नेष्ट इति भाष्यकारेण प्रपश्चितम् ।

तिर्यञ्चं वा ।

एतदपि पूर्ववद्याख्येय, दक्षिणमारभ्योत्तरपर्यन्तं कुर्यादित्यर्थः ।

सर्वाणीध्मकाष्ठानि सꣳस्पर्शयति ।

गतार्थम् ।

हुत्वाऽनुप्राणिति ।

अत्र हुत्वेत्यनुवादेऽपि नायं दर्विहोमः संस्कारकर्मत्वात्प्रधानकर्म हि दहिोम इति स्थापयिष्यते, तथाऽपि स्वाहाकारेण दानरूपताऽप्यस्ति, तेनादृष्टार्थत्वेन होमोऽयं भवन्संस्कारोऽपीत्यर्थः । यज्जुह्वां प्रयाजेभ्यस्तदिति प्रयाजार्थत्वेनावगतस्य चाऽऽवारकरणेऽपादानभूतस्य संस्कारः प्रयानार्थ इति न्यायः । प्रथमाधारः प्रधान- कमैव ज्ञेयम् । तस्माद्यत्र प्रयाना न सन्ति नास्ति तत्र द्वितीयाघार इति सिद्धम् । अनुप्राणिति होमावसरे श्वासमनुरुध्य हुत्वा मुञ्चेदित्यर्थः ।

ऊर्ध्वमाघारयेत्स्वर्गकामस्य न्यञ्च वृष्टिकामस्य ।

कामविशिष्टस्य यजमानस्योर्ध्वमाघारयेत्प्रारम्भे स्रुचं जुहूं निम्नत्वेन धृत्वा समाप्ति- पर्यन्तमुच्चोच्चतरत्वेनेति स्वर्गकामस्यो त्वमुक्तम् । वृष्टिकामस्य न्यश्चमादावूर्व समाप्ता- अधस्तान्नयनेन द्रष्टव्यम् । अविशेषादुमयत्राऽऽघारयोः ।

द्वेष्यस्य न्यञ्चं विच्छिनत्ति वा ।

निन्दार्थवादोऽयं प्रतिषेधार्थों विना कामं कदाचिदपि न्यश्च नाऽऽघारयेद्विच्छेद सर्वदा न कुर्यादित्यर्थः ।

यं कामयेत प्रमायुकः स्यादिति जिह्मं तस्याऽऽघारयेत् ।

अयमपि निन्दार्थवादः पूर्ववत्प्रतिषेधार्थः ।

बृहद्भा इति स्रुचमुद्गृह्णाति ।

जुहूमुहह्नाति धारासमाप्त्यनन्तरमुच्चां नयति । १च. "या या जमानेऽन्वा" । २ क. ग. च. छ. ट. ठ. ३ क. स्व. ग. . ब. - ज. झ. अ. द. 3. द. 'ति हुत्वा । १५० पटलः] महादेवकृतवैजयन्तीच्याख्यासमेतम् ।

पाहि माऽग्न इत्यसꣳस्पर्शयन्स्रुचावत्याक्रामति ।

जुहूपभूतोः परस्परमसंसर्ग संपादयन्नुत्तरतोऽतिकामति । सुचरिते मोति मन्त्रान्तः।

समक्तमग्निना घृतꣳ समक्तꣳ हविषा हविः । समन्तरिक्षमर्चिषेति जुह्वा ध्रुवां त्रिः समनक्ति ।

जुगतान्येन तयैव ध्रुवां समनक्ति सकृन्मन्त्रेण द्विस्तूष्णीम् । अत्र कर्मत्वेन धुवा- यास्तदाज्यस्य संस्कृतिः।

मखस्य शिरोऽसीति वा ।

विकरूपः पूर्वमन्त्रेण । ज्योतिरामित्यन्तः ।

उन्नीतꣳ राय इति स्रुवेण ध्रुवाया आज्यमादाय सुवीराय स्वाहेति जुहूं प्रत्यभिघारयति ।

नुषगसेनाऽऽज्येन जुहूसंस्कारः।

यज्ञेन यज्ञः संतत इति जुह्वा ध्रुवाम् ।

प्रत्यमिधारयतीति पूर्वानुवृत्तिः । ध्रुवासंस्कारः । समञ्जनं विन्दुमात्रप्रक्षेपेण, प्रत्यभिधारण तु किंचिद्धाराकरणेनेति भेदेनोपादानं धात्वोः ।

सादयित्वा स्रुचौ ।

पथास्थानम् ।

प्रवरं प्रवृणीते ।

प्रतिज्ञामात्रमधिकारार्थम् । भवरो नामर्षिनाम्ना वंशनिष्ठं सामान्य तस्कीर्तनं प्रवरणम् सदितिकर्तव्यता तापदाह-

इध्मसंनहनानि स्फ्य उपसंगृह्य वेदेश्च तृणमव्यन्तमध्वर्युः प्रवरायावतिष्ठते ।। २ ।।

इध्मसंनहनानि शुल्वमुद्र्थ्य कृतानि तृणानि तानि स्फ्ये श्लेषयिस्वा वेदेस्तृणं च श्लेषयित्वा । तत्कीदृशम् -अन्यन्तं वेदेरन्तो मध्यस्तस्मादपगतं विश्लिष्ट तादृशं न भवति तदव्यन्तं सस्य बहिष एकं तृणं मूछदेशेन वेद्या लग्नमेव साये श्लेपयित्वेति यावत् । अध्वर्युग्रहणं विशिष्टाचारम्भकर्तृत्वार्थम् । अध्वर्युरेव नाऽऽग्नीध उपसंगृह्णा- सीत्यर्थः । अथ वा होतुरप्यग्रे वक्ष्यते सत्र नैते धर्मा इति । प्रवराय प्रवरं वक्तुमव- तिष्ठतेऽवस्थितो भवेन्नाऽऽस्त इत्यर्थः । वेदिसमीपेऽथवोत्तरत उत्कर इति भारद्वानबौधा. यनौ । तेनोत्करस्योत्तरदेश वेदेवा स्थितौ दक्षिणामुखावित्यपि गम्यते । प्राङ्मुखप्रत्य- १क. ग. च. छ. ४.३, मैं तु वि'१२ क. प. प. छ. ट. ८. प्रवरं । ३ स.तेऽनते। १८६ सत्यापाढविरचितं श्रौतसूत्र- [रद्वितीयपने- मुखभावेनावस्थितयोरध्वग्निीधयो)तुः सहान्वारम्भणं हौत्रोक्तं विरुध्येत । दक्षिणा- मुखा भूत्वा स्फ्यमूर्धा संनहातॄणेन च श्लेपयित्वोपसंगृह्येति उपसंगृह्णनवति- पतेऽध्वयुदक्षिणामुखः । प्रवरणाझंजपमाह-

क इदमध्वर्युर्भविष्यति स इदमध्वर्युर्भविष्यति यज्ञो यज्ञस्य विष्णोः स्थाने तिष्ठामि वागार्त्विज्यं करोतु मन आर्त्विज्यं करोतु वाचं प्रपद्ये भूर्भुवः सुवरित्यध्वर्युर्जपति ।

सष्टम् ।

तान्याग्नीध्रोऽन्वारभ्प पश्चादवतिष्ठते ।

तानीति स्क्येध्यसनहनवेदितृणानि । नपुंसकमनपुंसकनेति नपुंसकत्वम् । पश्चाद- ध्वर्योः । ' पश्चादवस्थायाऽऽग्नीघ्रः' इति वैखानसः ।

क इदमग्नीद्भविष्यति स इदमग्नीद्भविष्यतीति मन्त्रꣳ संनमति ।

नायमूहो मन्त्रेऽपि तु लाघवेन समानो मन्त्रोऽसीत्पदवानध्वर्युपदस्थाने पठित इति दर्शितम् । उभयोः प्रवरणाङ्गे सहैव जपे सत्याह-

ब्रह्मन्प्रवरायाऽऽश्रावयिष्यामीत्यामन्त्रयते ।

ब्रह्माणमित्यर्थात् । प्रवरं यजमानस्य वक्तुमथवा प्रवरणं प्रवेरक्रिया तस्यै तां प्रवरणक्रियां कर्तुमाश्रावयिष्यामि आनीप्रम मोदयितुं प्रेरयिष्यामीति तदर्थश्रावणेनेति यावत् । ब्रह्मणा चौ(चो)माश्रावयेति प्रसूते सत्याह-

आश्रावयोश्रावयेति वाऽऽश्रावयति ।

ओश्रावयेति पदच्छेदः पररूपमोकारस्य । द्वयोरन्यतरेणैवानुमोदयितुं प्रेरयति, आग्नीधमित्यर्थात् । नौऽऽत्मसंस्कारमात्रं तदेवाऽऽह-

अस्तु श्रौषडित्याग्नीध्रः प्रत्याश्रावयति ।

प्रतिमोदन श्रावयतीत्यर्थः । कथं, श्रौषडनुमतिरस्त्विति । अत्र पाणिनिस्मृत्या

१ख, "यित्वाऽनोप। २ क. ग. च. छ.ठ. चरणकि । ३ क ग, च, छ,८,ठ. 'मोदिन । ४ घ. इ. ज. श. म. द. वयोमाश्रावय । ५ व. 'ति । त्रयाणामन्यतमेनानु । ६ क.च.ठ. नात्र सं"। १५० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १८७ प्लुतः । 'वहिप्रेष्यश्रौषड्वोषडावहानामादेः' । प्लुत इत्यनुवर्तते । आदेर्वर्णस्य बू प्रे श्री वौ आ इत्येवेरूपस्य प्लुतो भवति । तथा ' अग्नीत्प्रेषणे परस्य च' इति, आश्रावयेति चाग्नीत्प्रेषणं तत्राऽऽदेवर्णस्य परस्य च वर्णस्य प्लुतिः । तेनाऽऽकारस्य लुतिः, श्रा, इत्यस्य चेति ज्ञेयम् । अग्नीग्रहणाद्ब्रह्मणा प्रसवे क्रियमाण ओमाश्रावयेत्यत्र प्लुतिन 4 भवेत् ।

एवमाश्रुतप्रत्याश्रुते भवतः ।

सर्वत्रेति शेषः । यत्र यत्राऽऽश्रावणप्रत्याश्रावणे दर्शपूर्णमासयोरुच्येते तत्र सर्व- त्रै प्रकृते प्रवरप्रकरण उक्ते अपि ये सर्वदर्शपूर्णमासार्थत्वेन याजमान उक्ते ते एव प्रवरार्थमुक्ते अपि सर्वार्थे ज्ञेये इति भावः । विशेषमाह-

उत्करे दक्षिणामुखस्तिष्ठन्नाग्नीध्रः स्फ्यं धारयन्प्रत्याश्रावयत्यन्येष्वाश्रावणेषु प्रवरात् ।

प्रवरविषयादन्येष्वाश्रावणेषु अध्वर्युणा कृतेषु सत्तु उत्कर इत्यादिविशेषणविशिष्ट आनीधः प्रत्याश्रावयतीति संबन्धः । अत्रेमसंनहनसहितस्यैव स्पषस्य ग्रहणम् । अत एवोक्तमापस्तम्बेन- समागाँश्च धारयन्निति । इध्मसनहनानि परिध्यग्नितमा- जनार्थतयोक्तानि । प्रकृतमाह-

प्रत्याश्राविते प्रवरं प्रवृणीते ।

गतम् । कथं तत्राऽऽह-

अग्निर्देवो होता देवान्यक्षद्विद्वाꣳश्चिकित्वन्मनुष्वद्भरतवदमुवदमु वदिति यथा यजमानस्याऽऽर्षेयꣳ सह परेण त्रीननन्तरान् ।

प्रवृणीत इत्यनुवर्तते । अत्र प्रवरेऽमुवदिति वीप्सया प्रवरिणामृषीणां नामधेयानि वैदति । त्रीनिति परिच्छिद्य ग्राह्याण्युक्तानि । ब्रह्मवदा च वक्षदिति वक्ष्यते, तेन वहून्परेण सह त्रीनेव वृणीतेऽनन्तरानव्यवहितान् । तत्र विश्वासाय श्रुति प्रमाणयति-

इत ऊर्ध्वान्मन्त्रकृतोऽध्वर्युर्वृणीते यथर्षि मन्त्रकृतो वृणीत इति विज्ञायते ।

यजमानस्य प्रपरगणे ये मन्त्रकृत अपयः श्रूयन्ते तानू/नितः प्रथमोत्पन्नप्रवरि. णमृषिमारभ्येत्यर्थः । तथाहि कौशिके यजमाने मनुष्वद्भरतवदित्युक्त्वा कुशिकवद- क.ग. च. छ. ट. ठ, "हनैः ५। २ क. ग. च. छ. ट. उ. वदन्ति । ३ क, ग, च. 3. इनप । , १८८ सत्यापाढविरचितं श्रौतस्क- [द्वितीयप्रभ- घमर्षणवद्विश्वामित्रपदिति वदेत् । ततो ब्रह्मण्वदा च वक्षदित्यादि । अध्वर्युग्रहणमझी- निवृत्त्यर्थम् । होतुप्रवरे प्रसङ्गाह-

अमुतोऽर्वाञ्चो होतेति विज्ञायते ।

अमुतस्तृतीयादश्चिः, अवांगञ्चन्तीत्यर्वाञ्चस्तानर्वाञ्चो विपरीमान्पश्चादुत्पन्नप्रभृती. पूर्वपूर्वान् ।

पुरोहितस्य प्रवरेण राजा प्रवृणीते ।

राज्ञोऽध्वहोता वा स्वस्याऽऽयाभावात् । तत्रापि श्रुति प्रमाणयति-

पुरोहितस्याऽऽर्षेयेणाऽऽवेदयेदिति राज्ञो विज्ञायते निषादरथकाराश्च यमृषिमनुब्रुवते तेन तेषां प्रवरं प्रवृणीते ।

सेषामप्याधानमग्निहोत्रं दर्शपूर्णमासी च वक्ष्यत्याचार्यः, तदर्थमिदमुक्तम् । तेषा पुरोहितोऽपि नास्ति यमृषिमनुब्रुवते वंशोत्पादकत्वेन ।

तथा ब्राह्मणानां राजार्पितानां राज्ञां वा ब्राह्मणार्पितानाम् ।

अर्पकप्रवरेणेत्यर्थः ।

द्विगोत्रस्य त्रीꣳस्त्रीनेकैकस्माद्गोत्रावुपलक्षयेत् १

उपलक्षयेवुचारयेत् ।

तथाऽसंप्रज्ञातबन्धोः पुरोहितप्रवरेणाऽऽचार्यप्रवरेण वा ।

न जायन्ते बन्धयो वश्या यस्य तस्येत्यर्थः ।

कृत्स्नमेकेषां प्रवरं प्रतिषिध्य मनुवदित्येव विदधाति ।

एकेषां शाखिनां ब्राह्मणं सर्व प्रवर प्रतिषिध्याविशेषेण मनुवदित्येव ब्रूयादिति विदधाति । वक्ष्यति प्रवराध्याय मानव्यो हि प्रजा इति ।

ब्रह्मण्वदा च वक्षद्ब्राह्मणा अस्य यज्ञस्य प्रावितार इति प्रवरशेषः ।

पूर्वोक्ते सर्वत्रायं शेषो ज्ञेयः।

असाविति होतुरुपाꣳशु नाम गृह्णाति ।

प्रवर उच्चस्त्वाधिकारात्प्रथमैकवचनान्तं होतुनीम गृह्णाति ।

मानुष इत्युच्चैः ।

स्पष्टम् ।

सीदति होता।

+ घ. ज. श. अ. द. पुस्तकेषु अथासंप्रज्ञातेति पाठः । १ ख. थाऽज्ञा' । २ ख. घ. इ. ज. श. , ढ, 'त्येतद्विद । २द्वि० १० पटलः ] महादेवकृतवैजयन्तीब्याख्यासमेतम् । १०९

एतत्तु पूर्वकृतान्यारम्भविमोकार्थमुक्तं विमुक्तेऽध्वयों।

वेद्यां तृणमपिसृजति ।। ३ ।।

अध्वर्युर्वेद्यो तृणमारम्भणार्थ स्मयेन सह धृतं यथास्थितमेव करोति ।

इति सत्यापाठहिरण्यकेशिसूत्रव्याख्यायां प्रयोगवैजयन्त्यां महादेवकृताया द्वितीय प्रश्ने प्रथमः पटलः ॥ १॥

2.2 अथ द्वितीयः पटलः ।

आज्यभागयोरावापे स्विष्टकृति पत्नीसंयााजेषु च याज्यापुरोनुवाक्ये याज्यैव प्रयाजानूयाजेषु ।

चकारः प्रत्थक संबध्यते । याज्या पुरो] नुवाक्ये इति प्रतियागं द्वयमित्यभिप्रा- येण । आवापो नामाऽऽवृत्त्या क्रियमाणानि प्रधानानि तन्त्रवनितान्यावापः प्रत्येकमाप्यमानत्वात्तन्त्रप्रतिकूलत्वेनाऽऽवापशब्दप्रयोगात्तत्रावापाविति । किमर्थमिदं, यागानां संश्रेषविशेषव्यवस्थार्थम् । माष्यकृता व्युत्पन्नो व्याख्यातः प्रधानयागया- च्येव । स्पष्टमितरत् । याज्यैव प्रथानानूयाजेषु पुरोनुवाक्यापरिसंख्यार्थमेवेति ।

उभयीष्वाश्रुतप्रत्याश्रुते याज्यासंप्रैषश्च ।

उभधीषु याज्यापुरोनुवाक्यायुक्तासु केवलासु चाऽऽश्रावणप्रत्याश्रावणे याज्या- संप्रेषश्चेत्येतत्परिभाष्यते ।

अनपव्याहरन्तः प्रचरन्ति ।

अवदन्तो यथा मवन्ति ते तथा । एतदेव प्रपञ्चयति-

सोऽध्वर्युर्नापव्याहरेत्पुराऽऽश्रावणादाश्रावितेऽग्नीन्नापव्याहरेत्पुरा प्रत्याश्रावणात्प्रत्याश्रावितेऽध्वर्युर्नापव्याहरेत्पुरा यजेति वचनाद्यजेत्युक्ते होता नापव्याहरेत्पुरा वषट्कारात् ।

स प्रथमः । एषु स्थानेषु यदि वदेयुस्तदा पुनराश्रावणादि कुर्युाहतीश्च जपेयुरिति प्रायश्चित्तमापस्तम्घोक्त ज्ञेयम् ।

उत्तरतः पुरोनुवाक्यामवदास्यन्नवद्यन्नवत्ते वा संप्रेष्यति ।

उत्तरतो वैदेः स्थितोऽवदानं करिष्यन्नारम्भात्पूर्वमारम्भेण सह वा संप्रेष्यति अवत्तेऽवदाने गृहीते वा साभिधारणे तस्याप्यवत्तस्वेन परिगणनात् । पुरोनुवाक्यां वक्तुमित्यर्थः। १९० सत्याषाढविरचितं श्रौतसूत्र- [२द्वितीयपने-

कथं संप्रेष्यति तत्राऽऽह---

अमुष्मा अनुब्रूहीति यथादेवतम् ।

अमुष्मा इति चतुर्थ्यन्तेन देवतानाम्ना संप्रेष्यति यथादेवत या यत्र देवता तस्या

दक्षिणतो याज्यामत्याक्रम्याऽऽआव्य प्रत्या- श्रावितेऽमुं यजेति यथादेवतꣳ संप्रेष्यति ।

अत्याक्रम्य दक्षिणतः स्थित आश्राव्याऽऽग्नीण प्रत्याश्राविते सति यथादेवतम, यजेति याज्या संप्रेष्यतीत्यन्वयः । अमुमिति द्वितीयान्तं देवतानाम गृहीत्वाऽग्निमिति ततो यजेति संप्रेष्यति ।

वषट्कारे वषट्कृते वा जुहोति याज्या पुरोनुवाक्यावतीषु चतुरवत्तं पञ्चावत्तं वा ।

वषट्कृते सह वषट्कारेण वेति श्रुतेर्वषट्कारे प्रदानार्थे क्रियमाणे तेन सहवाथवा वषटकारे कृते वाऽऽहुर्ति जुहोति प्रक्षिपति जुह्वाऽऽहवनीय इत्यर्थः । अत्र जुहोति- ना दानं न विधीयते वषटकारेण प्रदीयमानस्य प्रत्तस्य[वा] पुनर्दानायोगात् । प्रक्षेप. मात्र होमभक्तिर्जुहोतेर्वाच्या । अत्र प्रयानानुयाजेषु प्रत्येक विभागाभावाद्वक्ष्यमाणं चतु. गृहीतं पञ्चगृहीतं चै न संभवतीति तदर्थमिदं सूत्रं सामान्येन कृतमनिमं तु विशेषेण चै पृथगेव कृतं(त)[मिति] विशेषः ।

पञ्चावत्तं जमदग्नीनां चतुरवत्तमितरेषां गोत्राणाम् ।

जुहोतीति पूर्वसूत्रादनुवृत्तिः । याज्यापुरोनुवाक्यावतीवित्यत्राऽऽतिष्विति शेपो योग्यत्वात् । आहुतयो होमक्रियास्तिस्त्र आहुती होत्याहुतिपरिमाणं वेति दर्शनात् । पुरोनुवाक्यायुक्तवषट्कारान्तयाज्यया क्रियमाणत्वाद्याज्यापूरोनुवाक्यावत्य आहुतयो भवन्ति । तासु क्रियमाणासु सतीषु यद्वषट्कारोपलक्षितं जुहोति तच्चतुरवत्तं पञ्चावतं वा जुहोतीत्यन्वयः । पूर्वं चतुष्पञ्च वाऽवत्तं संपादितमेव जुहोति नान्यथेति गम्यते । द्याहुतयो होतव्यानि द्रव्याणि, जह्वाऽऽहवनीय आहुतयो यन्त इति दर्शनात् ता च पूर्व च याज्यानुवाक्यावत्त्वं ज्ञेयम् । तासु प्रसक्तासु सतीषु यज्जुहोति तच्च- तुरवत्तं पश्चावत्तं वा कृत्वा जुहोति । पूर्वमेव तथाऽवत्तं सज्जुहोतीति नियम्यते । अथ वाऽऽहुतिषु होतव्येषु(व्यास) द्रव्यरूपासु किंविशिष्ठासु याज्यापुरोनुवाक्यावतीषु १ ख. वा । २ क. ग. च. 8. 'कारोऽत्र याज्योपलक्षिका कि । ३ छ. ट. "रात्र याज्यों- पलक्षिका कि 1४ च. पाच । ५ ख. यदाऽहु' । ६ ख, 'सु पूर्ववद्याज्यापुरोनु । ७ च. द्रव्येषु । यागश्च २द्वि०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १९१ ताम्यां दीयमानत्वेन तद्वतीषु देवतांतीलक्षणयागेषु याज्यापुरोनुवाक्यावतीषु पूर्व याज्या. पुरोनुवाक्यावतीषु ताभ्यां दीयमानावित्यर्थः । आज्यभागयोरित्यादिना यागेषु च याज्यादेवताविधानात् । तासु प्रसक्तासु देवत्य(त)योश्चतुरवत्तं पञ्चावत्तं सदेव जुहोति दीयमानं चतुरवत्तं पञ्चावत्तं वा कृत्वैव पश्चाज्जुहोतीत्यर्थः । अवदानानि(ना) देवतार्थत्वे लिङ्गं वक्ष्यति हि अशष्ठपर्वमात्राणि देवतान्यवदानानि । देवतायै यागे च संबद्धानि देवतायास्तानि दैवतान्यवदानान्यवदीयमानान्यपृष्ठपर्वमात्राणीति विवक्षितत्वात् । न चैवमवदानमात्रार्थत्वं यागस्येति । आज्यभागाभ्यां प्रचार उक्तस्तथा बीयमिधार- यतीत्यनुवृत्त। यदनुपूर्वाणि प्रदीयन्त इत्यभिधास्यमानत्वाद्धविषामेव प्रदेयत्व इन्द्र- स्यापि प्रतिहविः प्रत्यमिधारयतीत्यत्र । यागो हि सकलपुरोडाशसानाच्यसाध्य उत्पत्तिविधौ तथा श्रवणात् । देवतोदशेनोत्पादितस्य सकलस्थापि द्रव्यस्य खुच्यवदानमेको भागोऽन्यश्च वेद्यां स्थितो याज्यानुवाक्याभ्यां वषट्कारा- न्ताभ्यां भागद्वयमपि दीयते, तत्रैकस्य भागस्यावदानरूपस्यैव होमन प्रतिपत्तिस्तस्यैव चतुरवत्तं पञ्चावत्तं वाऽन्यस्य वेद्यामवस्थितस्य भागस्य स्विष्टकृदादिना प्रतिपत्तिः श्रुत्यन्तरे चतुरवत्तं पञ्चावत्तं वेति तव्यवस्थापितमितरेषां जमदग्नीनां च यजमानानाम- ध्वर्यु होतीत्यर्थः । इदं चोक्तं वक्ष्यमाणं च धर्मजातं पुरोडाशाज्यसांनाय्यहविस्त्रयं साधारणमेव । जामदग्न्यो जामदग्न्यौ जमदग्नय इति बहुत्वे प्रत्ययस्य लुक् । गोत्र- गोत्रिणोरभेदागोत्राणामित्युक्तम् ।

अप्यजामदग्न्यो जामदग्न्यमामन्त्र्य पञ्चावत्तं कुर्वीत ।

अजामदग्न्योऽपि जामदग्न्यं पृष्ट्वा जामदग्न्य पश्चावत्तं करिष्यामीति पश्चात्पञ्चावत्तं कुर्यादित्यर्थः ।

अङ्गुष्ठपर्वमात्राणि दैवतान्यवदानानि भवन्ति ।

अगुष्ठपर्वमात्रं हस्तस्याङ्गुष्ठस्य मध्यसंधेरू काण्ड पर्व तत्प्रमाणानि पर्वमात्राणि यावन्ति देवतान्याज्यसांनाय्ययोरपि तावतां परिमाणम् ।

उत्तराण्युत्तराणि स्थवीयाꣳसि ।

सामान्यविधिरयं श्रोतः। तं व्याचष्टे-

दैवतेभ्यः सौविष्टकृतानि सौविष्टकृतेभ्य ऐडानि तथा चातुर्धाकरणिकानि ।

दैवतेभ्योऽवदानेभ्यः स्थवीयांतीति पूर्वेणापि संबन्धः । एवमुत्तरत्रापि स्विष्टकृ.

३ ख. र. 'तान्यती । ३ क. ग, च, छ. ट, ठ. "नुरूपावदानानि न । सत्याषाढविरचितं श्रौतसूत्र- [२द्वितीयप्रभे- संवन्धीनि तथा । अत्र न वाम्यामिति सूत्रेणैनागमादूपासिद्धिः। ऐडानि चातुर्धाकर. णिकानि समान्येव ।

माꣳससꣳहिताभ्यामङ्गुलीभ्यामङ्गुष्ठेन च पुरोडाशस्यावद्यति स्रुवेणाऽऽज्यसांनाय्ययोर्मेक्षणेन चरूणाम् ।

अवधतीत्यनुवर्तते । चरौ हस्तावदाने चोदकप्राप्ते मेक्षणेनेति तत्सामर्थ्यादित्युक्तम्। श्रुतिहि त्रुवेणावधति हस्तेनावद्यति मेक्षणेनावद्यति स्ववितिनाऽवद्यतीत्यविशिष्टा सा नियमिता सामर्थन हस्तेनेत्येतस्य शास्त्रान्तरवशान्माससंहिताम्यामङ्गुलीम्यामगुष्ठेन चेति विशेषपर्यवसानेन विधिदेशितः । अत्र सामर्थस्य व्यवस्थापकत्वेन वपायाः सोनाय्यविकारत्वेऽपि हस्तेनैवावदानमोषधिविकारचरुयवाग्वोर्मेक्षणेन सुवेण वेति दर्शि- सम् । मांससंहिते संलग्ने सर्वाङ्गुलीनां तथात्वादुमयतो मांसेन लग्ने इत्यर्थसिद्धे मध्यमे द्वे । अत एव वैखानसेनानामिकामध्यमाम्यामित्युक्तम् ।

मध्यात्पुरोडाशस्यावदाय पूर्वार्धादवद्यति पश्चार्धात्तृतीयं पञ्चावत्तिनः ।

अत्र स्थाननियममात्रं पुरोडाशविषयं वक्ष्यमाणधर्मा आज्यसांनाय्ययोस्तु मध्यादि. विभागेऽपि तदभावः । प्रथममवदानं पुरोडाशस्योपरि मध्यप्रदेशादवदाय सुचि स्थाप- यित्वा ततः पूर्वार्धात्पुरोडाशस्य पूर्वो योऽ? मागोऽसौ पूर्वार्धस्तस्माद्यत्र कुत्रचिदव- यति पूर्वार्धाव्यभिचारेण तदपि नुच्यवधाय जामदग्न्यस्य तदनुमतस्य या पञ्चायत्तिन- स्तृतीयमवदान पश्चार्धात्पूर्वार्धवव्याख्या । अत्र विशेषमाहाऽऽपस्तम्बः–'मध्यादङ्गुष्ठ- पर्वमात्रमवदानं तिरश्चीनमवद्यति पूर्वार्धाद्वितीयमनूचीनम् ' इति । वैखानसेनोक्तं तत्प. वार्धात्तृतीयमिति, द्वितीयवत्तृतीयम् । दक्षिणप्रदेशे हस्तं नीत्वाऽङ्गुल्यङ्गुष्ठाग्राण्युदङ्- मुखानि तैः कृत्वा दक्षिणोत्तर देण कृतमवदानं तिरश्चीने पूर्वाभिमुखानुल्यौरवत्तम- नूचीनम् । अतमिन्दन्निति विशेषान्तरमुक्तमापस्तम्बेन । संभेदो मध्ये द्वयोमर्यादार्थ इति कात्यायनमतिस्तन्नेष्टमित्यसभेदः संश्लेष उक्तः । संश्लेषात्पूर्वावदानप्रदेशादवदान- योत्संश्लिष्टप्रदेशे परमवदानं कुर्यादित्यर्थः । अस्मदाचार्येण तु यत्रासंमिन्दन्नषद्य- सीत्युच्यते तत्रैव नियमोऽन्यत्र न नियम इति तथोक्तम् । वृतीयं पश्चा/दित्युक्तं तस्यापवादमाह -

आनुजावरस्य जघन्यमवदानं प्रथमम् ।

प्राप्ते प्राथम्यमात्र नियम्योऽन्यथाऽवदानमात्रस्य प्राप्तत्वाद्विशिष्टविध्यसंमवाजध- न्यत्वप्रथमत्वयोर्गुणयोः परस्परासंबद्धयोविधाने वाक्यभेदः स्यात्तस्मात्प्राप्तमवदान जघन्यमनन्तरं कृतं प्रथमापेक्षया जघन्यं पूर्वकृतात्पश्चात्कृतत्वाच तत्र प्राथम्यं निय. म्यते । आनुजावरशब्दस्तु प्रजापतिरिन्द्रमसृजताऽऽनुजावरमित्यादौ समानानां श्रेष्ठे - रद्वि०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । दृश्यते । तत्रानुमन्ता समानानां स आनुजावर इति व्युत्पादयन्ति केचित् । अथवाऽनु साम्येन जाता अनुजा एव आनुजास्तेषां वरमथवा पश्चागामिनो यम्या इति यावत्तेषां श्रेष्ठः स आनुजावर इति नानार्थवादानुमारेण कल्प्यम् । केचिदयं काम्यः कल्प इत्याहुरर्थवादेभ्यो यो राजन्य आनुजावरः स्यादित्यादौ तथा दर्शनादिति तन्नाऽऽचार्य - स्येष्टं, जघन्यमित्यनूध प्रथमत्वं विधीयते, यदि कामार्थमपूर्व विधानं तदा जघनात्प्रथम मवदानमिति विशिष्ट विधीयेत । न चोत्तरसूत्रमेतदर्थं भवत्यत एव वैखानसेन नियम.. विधानं कृतमषदायेत्यादि, कामपद एवमिति । तस्मात्प्रकृत्याऽऽनुजावरस्य यजमानस्य विशेषविधिनित्य एव ।

अवदाय पूर्वार्धे स्रुचो निदध्यात्प्रथमं जघन्यं पश्चार्धे ।

प्रथममवदानं यन्मध्यादवत्तं तत्स्नु चः पूर्वाधे विलस्य पूर्वस्मिन्नर्धभाग एवं निदध्या- जघन्यमनन्तरमवत्तं सद्वितीयं तृतीयं च वा तत्पश्चार्धे नुच इत्युभयत्र संवन्धः। तदुक्तं स्पष्टं वैखानसेन-पूर्वाधैं खुचो निधाय प्रथमं पश्चावें जघन्यमिति । तेनाऽऽनुजा. वरपक्ष एव मोक्तो येन जघन्यपदेनाऽऽनु नावरविषयताशङ्का स्यात् । आनुजावरस्यापि तथैवावत्तं प्रथम पूर्वाधे न्यस्य जघन्यं पश्चादवत्तत्वात्तत्पश्चार्ध इत्यपि संभवात् । ननु कथमानुनावरस्य पञ्चायत्तिनो द्वितीयतृतीयावदानक्रमः । उच्यते-पश्चाघायदा प्रथमं द्वितीयं तु पूर्वार्धात्तृतीयं मध्यादिति । अत एवाऽऽनुजावरस्य चतुरवत्तिन उक्तमापस्तम्भेनाऽऽनु नावरस्य पूर्वार्धात्प्रथममवदानमनदाय पूर्वाधे त्रुचो निदध्यान्म- ध्यादपरमवदाय पश्चाधे सुच इत्युक्तम्(ति) । एवं चास्मत्सूत्रे तथा व्याख्यातुं शक्य यच्चतुरवत्तिनो जघन्यं यदवदानं द्वितीयमित्यर्थः, तत्प्रथमं चतुरवत्तिन आनुजावरस्य तयैव पश्चावत्तिन आनुनावरस्य यद्यजघन्यं यस्माद्यस्मादनन्तरं कृतं तत्तस्मात्तस्मात्पूर्व पूर्व कर्तव्यं, तेन मध्यावदानात्प्रकृतौ जघन्यं तत्तस्मात्पूर्वम् ।

पूर्वपूर्वाण्यवद्येज्ज्येष्ठस्य ज्यैष्ठिनेयस्य ।। ४ ।। पुरोधाकामस्य वा ।

पूर्व पूर्वभागस्थं पूर्व प्रथमं येषामवदानानां तानि पूर्वपूर्वाणि ज्येष्ठस्य प्रथमोत्पन्न , स्य तस्यैव उयैष्ठिनेयत्य ज्येष्ठा भार्या तस्याः पुत्रस्य तादृशस्य यजमानस्य पञ्चावत्तिन. श्वेत्पूर्व मागात्प्रथमं द्वितीय मध्यात्तृतीयं तु पश्चाधीच्चतुरवत्तिनस्तु ज्येष्ठस्य ज्यैष्ठिनेयस्य तृतीयं नास्ति । तृतीयापेक्षया च द्वितीयं मध्यस्थं भवत्येव पूर्वभागस्थं तृतीयापेक्षया च प्रथमं च कर्तुं शक्यमिति नित्यविधिरयम् । पुरोधा पौरोहित्यं तत्कामस्य काम्यम् ।

अपरपूर्वाणि कनिष्ठस्य कानिष्ठिनेयस्याऽऽनुजावरस्य वा ।

, ख ठ याम्या । २ ख. ट. नित्य ए। २५ १९४ सल्याषाढविरचितं श्रौतसूत्र- [द्वितीयत्र- अपरं पश्चिमभागस्थं तत्पूर्व प्रथमं येषामिति । पूर्ववदेवान्यत्सर्वम् । आनुजावरस्य विकल्पः । पूकिस्पेनात्र चतुरवत्तिनो नास्ति पूर्वार्धात्तृतीयमिति पूर्ववदेव व्यवस्था ।

पुरोडाशसांनाय्ययोरुपस्तरणाभिधारणे आज्येनोपस्तीर्य हविषोऽवदायाऽऽज्येनाभिघारयेत् ।

अत्र याज्यानुवाक्यावतीषु चतुरवत्तमित्युक्तमवदाने तु द्वे उक्ते सत्र कथं चतुर- वत्तं तना पञ्चावत्तमपि तदर्शयत्यनेन । पुरोडाशसांनाय्यग्रहणादाज्यस्य चतुरवदानेन चतुरवत्तं भवति । तयोश्चतुरवत्तमुपस्तरणाभिधारणाम्यामेव कर्तव्यम् । श्रूयते हि वाजसनेयके 'स आज्यस्योपस्तीर्य द्विहविपोऽवदायाथोपरिष्टादान्यस्याभिधास्यति । सैषाऽऽज्येन मिश्राऽऽहुतिहूयते ' इति । सूत्रे हविर्मात्रस्य यद्यप्यवदानमात्रमुक्तं तथाऽपि पुरोडाशसानाश्ययोरित्युक्त्वादाज्यहविषो यागस्य यायापुरोनुषाक्यावतीषु नोप. स्तरणाभिधारणे । तत्राऽऽज्येनैव चतुरवत्तं पञ्चावत्तं वा संपाद्य जुहोतीत्यर्थादेव सिद्धम् । आज्यं चात्र धृवाया एवाऽऽहवनीयार्थाज्यत्वात् । न च स्त्रुबेणाऽऽज्यस्थास्या एव प्रदेथद्व्यसंस्कारत्वेनोपक्षीणत्वादिति वाच्यम् । प्रदेयद्रव्यत्वेऽपि पुरोडाशाहुर्ति जुहो- त्याज्यं हुत्वाऽवदानं जुहोत्याज्येनान्ततोऽन्ववस्त्रावयतीत्याहवनीयगामित्वमप्युक्तम् ।

स्रुच्युपस्तीर्य मा भेर्मा संविक्था मा त्वा हिꣳ सिषं मा ते तेजोऽपक्रमीत् । भरतमुद्धरे मनुषिञ्चावदानानि ते प्रत्यवदास्यामि नमस्ते अस्तु मा मा हिꣳसीरित्यवदास्यन्हविरभिमृशति ।

युच्युपस्सीत्यधिकरण विधीयते, उपस्तीत्यनुवादः । हविवादास्पन्हषिरभिमृश- तीत्युभयत्र संबन्धः । करणमन्त्रोऽयं बदति अत्रापि हविरिति खिष्टकृति प्रत्यभिमर्शन मा भूदिति ।

अवदायाभिघार्य यदवदानानि तेऽवद्यन्विलोमाकार्षमात्मनः । आज्येन प्रत्यनज्म्येनत्तत्त आप्पायतां पुनरिति हविः प्रत्यभिघारयति ।

अत्र पूर्वानुवादः क्रमार्थः । प्रत्यभिधारणमाप्यायनमाज्यस्थाल्या आजोनानाहरनी- याज्यार्थत्वात्पुरोडाशसांनाययोवेदिस्थयोरेव हविषोः संस्कारः क्रियते न त्वाहवनीय- गामित्वेनोत्तराहुत्यर्थम् । ननु नेदं हविस्तच्छयोऽयं अवदानस्य यागार्थत्वेन गृहीत- १ ख. ति । पुराडाशसांनाप्ययोस्तु चतु । २ क. ग. च. छ. ठ. ठ. 'तं किं तु विजाती- यत्यैवेति । सैषाऽऽज्येन मित्राऽऽहुतिरिति वचनानाऽऽज्यस्याऽऽज्यमिश्रणं पु। ३ क, ग, च, छ. ट, ठ. "क्तमाज्य" । ४ ख. 'न्धः । । E २वि०पटल महादेवकृतवैजयन्तीब्याख्यासमेतम् । १९५ स्वात् । एवं तहि ज्ञापयत्याचार्यो न व्यवदानमात्रेण यागोऽपि तु सकलपुरोडाशेनैव- ततस्तु याज्यया अग्मते वेदिगते च द्रव्ये वषट्कारेण दत्ते पश्चात्सर्वोऽपि शेष एवेति तस्मात्प्रत्यभिमर्शनं प्रत्यभिधारणं च न स्विष्टकृतीति । ननु श्रूयते वाजसनेयके तस्मा- यस्य कस्य च हविषोऽवद्यति पुनरेव तदभिधारयति स्विष्टकृत एव तथाप्याययतीति स्विष्टकृदर्थत्वश्रवणावेदावनीयाज्यार्थत्वमिति चेत् । न । सा प्रत्यभिधारणस्तुतिः पुनरेव तदभिधारयतीत्यस्य विधेर्ह विर्दीयमानं वेदिस्थमपि तेन संस्कृतं नाऽऽहवनीय- गामि तद्धि व्ययित कथं स्विष्टकृतेऽवदेयमतः प्रत्यभिधारणेन व्ययितस्याऽऽप्यायने मति स्विष्टकृदयदानयोग्यतासंपादनेन स्तुतिः प्रत्यभिधारणविधेरेव | व्याख्यातमेतन्मी- मांसापारदृश्वभिर्वातिकाचार्यः सर्वस्य पुरोडाशस्य यागाङ्गत्वं न व्यवदानमात्रस्येति । स्च्युपस्तीति क्वाप्रत्ययेन मा मेरित्यभिमर्शनस्योत्तरकालतोक्ता, तेनोपांशुयान उपस्तरणामावाद्धौवस्य नाभिमर्शनम् ।

अवदायावदाय प्रस्तरबर्हिः समनक्तीति विज्ञायते ।

अवदाय चतुरवत्तं तस्यैव पदार्थत्वात्तदसमाप्तौ नान्यारम्भः । वीप्सा तु सर्व हविषा सकृदन्ते मा भूत्पतिचतुरवत्तं यथा स्यादिति साज्येन स्वेण [इति] वैखानसः । धर्ममात्रमेतदिति वक्तुं विज्ञायत इत्युक्तम् ।

अपिदधदिवाप्रक्ष्णन्पुरोडाशाहुतिं जुहोत्याज्यꣳ हुत्वाऽवदानं जुहोत्याज्येनान्ततोऽन्ववस्रावयति ।

पुरोडाशाहुर्ति जुहोति तामेवापिदधदिवेषपिहितां कुर्वन्सुचः पुष्करेण तामेवाप्रक्ष्णन विशीर्णयस्तत्रैव विशेषमाहाऽऽज्यं हुत्योपस्तरणाभिधारणाज्यमादावाइतिस्थाने मुखेन नावयित्वा तदुपर्यवदानद्वयं पार्श्वनोत्तरेण हुत्वाऽपिदधदित्यस्य सामर्थ्यात्पावेनेति गम्यते, मुखेनेतरा इति विशेषविधेः पुरोडाशाहुतीः पार्थेनैव हुत्वाऽन्ततोऽनन्तरमेक हुतावदानमवशिष्टेनाऽऽज्येन मुखेनैवावस्रावयति श्रोतद्धृतप्लुतं करोति । उक्तं भाग- वते-श्वोतद्धृतप्लुतमदन्हुतभुङ्मुखेनेति । आज्यमानाय्ययोहविषोर्यागे नैतत्संभवति आज्य हुत्वाऽवदानं जुहोतीति । तस्य पृथग्मावाच्चतुरवत्तं पञ्चावत्तं वा जुहोतीत्येता- चामेव सामान्यविधिः।

मुखेनेतराः स्रावयति ।

इतरा आहुतीराज्यसानाय्ययोः, दर्विहोमाहृतिमार्थ लावणयोन्या यवान्यायाहु. तिरपि मुखेन मांस पार्श्वनेत्याहुः । अत एवाऽऽपस्तम्बनाक्रे सर्वाणि द्रव्याणि मुम- खेन(ण) जुहोतीति । तदिदमितरा इति बहुवचनेन सूचितम् । . घ. छ. ज. श. ज. द. "हुतीर्जुहो । २ क. ग. च. छ. द. 3. 'थगभावा । ३ क. ग, च. छ, ट. ध सुवेण। १९६ सत्यापाढविरचितं श्रौतसूत्र- [२द्वितीयप्रश्न-

पूर्वां पूर्वाꣳ सꣳहितामावापाहुतिं जुहोति ।

पूर्वा पूर्वा पूर्वभागे पूर्वमागे प्राक्संस्थमित्यर्थः । संहितां परस्परसंश्लिष्टामुत्तरामावा- पाहुतिमावापाहुति प्रधानाहृतिम् ।

स्रुच्यमाघारमनुजुहोति ।

द्वितीयाधाररेखामनक्षीकृत्य जुहोति । अग्नीषोमावन्तरा देवता इति ब्राह्मणं स्पष्टत्वाज्ज्ञायत इत्युपेक्षितमापस्तम्बेन तु तथैवोक्तम् । तथाऽऽधारसभेदेन देवाती प्रतिपादयतीति प्रवेशथतीत्याधुक्तम् । तदस्माकमविरुद्धम् । एवं च यदा तिर्थवावा. घारौ तदाऽऽज्यमागयोमध्ये कार्यों प्रधानाहुत्यनुग्रहायेत्यपि ज्ञेयम् । एवं परिभाष्य प्रकृतमाह-

प्रवरं प्रवृत्य घृतवतीमध्वर्यो स्रुचमास्यस्वेत्यु- च्यमाने जुहूपभृतावादाय सकृदतिक्रान्तः पञ्च प्रयाजान्यजत्यभिक्रामं समानत्र वा तिष्ठन् ।

यनति जुहोति तयैवाऽऽपस्तम्बादिमिरभिधानात् । एवं तहिं यजतीत्येव समिधो यनतीत्याद्युत्पत्तिवाक्येषु दृश्यते, नचात्र हौत्रसंज्ञाऽस्ति, तत्राऽऽध्वर्यव एव यजतीति दर्शनादाश्रावणयनेतिपकर्तृत्वाचोदकेऽध्यर्यावेव यतीति प्रयुज्यते यागकर्तुः प्रेरकत्वेन तद्वाराऽध्वर्युरेव यजति । सर्वत्र चाऽऽटवर्यवे यजुर्वेदे यजतयो बहुधा श्रूयन्ते । तत्र ते साङ्गकर्मणो विधायकास्तत्र ब्रह्मणा स्वसंज्ञया ब्रह्मत्वं यथा क्रियत एवं होत्रा च होत्रं क्रियते । याज्यापुरोनुवाक्यानां हौत्रसमाख्यानादव. शिष्टान्य जानि ततोऽध्वर्युरेव करोतीति सोऽपि जहल्लक्षणया यजतीस्युच्यते । यदा विशेषकर्मविधानं तदा तत्तद्धातुभिरेव विधानमध्वोस्ताह श्रुतौ चामिकामं जुहोतीति विद्यमान किमर्थ यजतिप्रयोगों लक्षणया कृत इति चेत् । न । पञ्चेति संख्यया भेदोऽनु(नू (1) )दितः स तु यजत्यम्यासकृतः , स तु न होनेषु कि तु यागेप्वेव । प्रयानानिति मामधेयमपि यागानामेवोत्पत्तिविधी यागाश्च प्रत्येकं समिधो यजती- स्यादिसंज्ञास्तन्निमित्तभूता याज्या प्रतिपाद्या देवता अपि यागेष्वेव न होमेविति दर्शितम् । जुहोतीत्युक्ते सर्वमिदमसंबद्धमेव स्यात् । किंचामिकाम जुहोतीत्यय दर्शपूर्णमासप्रकरणे श्रूयमाणो दर्शपूर्णमासप्रकरणगतसर्वहोमैः संवध्यमानः कथं प्रयाजमात्रतया संकोचहति, न ह्यमिक्रामं प्रयानानुहोतीति वाक्यमस्त्येवं शशानिरासाय यातिप्रयोगः । पूर्व पश्चाच्च यजतियुक्तप्रया जवाक्यसनावास. दंशपतितो होमोऽवान्तरप्रकरणेन प्रयानशेपतया गृहीत इति पञ्च प्रयानान्यनत्यभि- १ घ, छ, ज, द. अ. द. हुती हो । - - २द्वि०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । १९७ क्रामं समानत्र वा तिष्ठन्निति यजिना गृहीतं पश्चादावयवसमाख्यानादध्वर्युकर्तृके. बङ्गेषु होमेष्ववान्तरवाक्यबलादशावतारन्यायेन च होमेष्वेवावतरतीति दर्शितम् । तथा च कुतोऽभिक्रम्यामिक्रम्य जुहोतीति केन वा समानस्थाने स्थित्वा जुहोतीति शाखान्तरीयेऽप्याकाङ्क्षा पूरिता यानि प्रयाजाङ्गान्यवंयुकतकाणि तेषां स्थाना- दिति तेन च समानत्रेति च तबाऽऽश्रावणं यजेति प्रेषस्तयोः स्थानादमिकाममिति णमुल्, अमिक्रम्याभिकम्येति, तथा तेन स्थानेन समानस्थाने तिष्ठन्निति चाध्वर्युकर्तृ- कता सिध्यति, तथैवार्थों निषेध्यत्वेन विधेयत्वेन च सोमे दर्शितः शब्दार्थः । यतो मन्येतानभिक्रम्य होण्यामीति तत्तिष्ठन्नाश्रावयेदिति तस्मात्समानत्र तिष्ठता होतव्यं प्रतिष्ठित्या इति, तथा यदमिक्रम्य जुहुयात्प्रतिष्ठाया इयादिति च प्रतिषेध्यत्वेन चोक्त, तेम समानार्थतयाऽत्रापि तदेव व्याख्यानम् । ननु न विधान्तरमस्ति यत्परिसंख्य- याऽमिक्रमणानभिक्रमणे विधीयते अन्यतरस्य नित्यप्राप्तत्वात् । उच्यते-पच्चस्वप्य- न्यतरनियम्यते तथाचार्थवद्भवति पञ्चाप्यमिक्रम्याभिकम्याथ वा समानत्र तिष्ठन्नेव पञ्चापीत्ययमेवार्थः पञ्चेति संख्यया दर्शितोऽन्यथा बहुवचनेनैव सर्वधर्मसिद्धिः । तथा च सवषट्कारेषु होमेषु सर्वत्रान्यत्र विना सोमं न नियमोऽभिक्रमणानभिकम- णयोरित्यप्यर्थीसिध्यति । प्रवरं प्रवृत्येत्यसंनिहितस्मरणार्थमुक्तम् । आदावेवाभिकान्तो न तु पुरोनुवाक्याप्रैषो व्यवधायकोऽस्ति । पुनः प्रत्याक्रमणमपि तत एव नास्तीति यक्तुं सदित्युक्तम् ।

द्वेष्यस्यावक्रामन् (म्) ।

यतीत्यन्वयः । निन्दावादोऽयं निषेधार्थः । न हि यजमानोऽध्वयोर्भवति द्वेप्योऽवक्रम्याऽऽश्रावणस्थानात्पश्चाद्गत्वा न जुहोतीत्यर्थः । पृथिवी होतेति याज- मानम् ।

समिधो यजेति प्रथमं प्रयाजꣳ संप्रेष्यति यज यजेत्युत्तरान् ।

'प्रथम प्रयाजमिति सप्तम्यर्थे द्वितीया । अत एव कात्यायनः-समिधो यति पञ्च प्रयामान्समिद्धतम इति । समिद्धतमः प्रथमः प्रयाजः । तथा श्रुतिः-समिधहो(दो). मेन समृद्ध आहुत इति । समिद्धतमत्त्वं प्रथमस्य तथा च संप्रेषः पञ्चानामप्यर्थ इत्युक्तं स्यात् । भरद्वाजेन प्रथम इति चोक्तम् । तन्त्रेणायं पञ्चानां प्रैषः समिच्छब्देन लिङ्ग- समवायेन प्राणभृत इतिवत् । अत्र वचनान्नामधेयेनैव श्रेषः । अन्यत्र यननीयां देवता- मुद्दिश्यैव प्रेषो यथाऽग्निं यज सोमं यजेति । अतस्तु विकृतौ समिच्छब्देन याज्यायां पशौ देवताश्रवणाभावेऽपि प्राकृतनामधेयेन विकृती प्रवृत्तेन समिद्भ्यः प्रेष्येत्युपपद्यते । प्रयाजग्रहणं न कर्तव्यमधिकरणादेव प्राप्तः । कर्तव्यं प्रत्येकं संज्ञा यथा स्यात् । हो- १स.धिकारादें । । - सत्याषाढविरचितं श्रौतसूत्र- [२द्वितीयप्रश्ने- तारमित्यर्थात् । यज्ञ यजेत्येवं वीप्सा सर्वापेक्षया प्रतिप्रयाज यजेति संप्रेष्यति । नन्वत्र समिध इति कर्मनामधेय समिधो यनतीस्युत्पत्तिविधौ श्रुतं न संप्रेषेण संवध्य- तेऽतो देवता एता देवता हि यष्टव्यत्वेन प्रतिपाद्याः प्रैषे तथैवान्या दर्शनात् । यदि देवता एता याच्यावगतास्तदा यदुच्यते-प्रतवो वै प्रयाना ऋतूनेव प्रोणातीत्यादिदेव- ताप्रतिपादनं तत्तदा विरुध्यते । तदेवत्याः प्रयाजा मवन्तीति बौधायनोक्तमपि विरुध्येत । तथा निरुक्तकोरेणापि यदुक्तमाग्नेया वै प्रयाजा आग्नेया अनुयाजा इति माह्मणमित्यादिना नानाबाह्मणैर्नानादेवतात्वमाशङ्कयोक्तमाझेया इति तु स्थितिरितर- द्भक्तिमात्रमिति निर्णीतं तदपि विरुध्येत । अत्रोच्यते-समिच्छब्देन कर्माभिधानमेव, उत्तरानिति सममिव्याहारात् । न ह्युत्तरशब्देन देवतोपस्थितिर्भवति । विशेषणं ह्युत्तर शब्दः । तस्य सापेक्षस्य विशेष्यं नोपलम्यतेऽसोऽनुवृत्तं प्रयानमित्येव संबध्यते परि- णतं प्रयानानिति । अत्राप्युत्तरेषु प्रयाजेष्वित्यर्थः । समिध इत्येतद्वितीयान्तं यजेत्य- नेन संवध्यते समिधो यति दर्शपूर्णमासे। यजत इतिवत् । देवतानिर्णयस्तु-अत्र सद्धितेन चतुर्थ्या वा देवताप्रतीतिस्तु नास्त्येव, मन्त्रवर्णादेव देवतानिर्णयः । तत्र याध्या एवान्तरङ्गा बहिरङ्गं याजमानं वसन्तमृतूनां प्रीणामीत्यादि । नामापि देवतानि- मित्त समिदादि याज्यादेवता एवानुसरति । तत्रापि समिदादिशब्दाच्या एव देवताः। पीमांसका अपि ह्यभ्यासाधिकरणादौ मन्त्रवणसिद्धदेवतानुवादि नामधेयमित्या नवमस्य द्वितीयपादेऽपि । याज्यासु सर्वत्राग्निरपि श्रूयते समिधो अम आज्यस्य व्यन्वित्यादी तथाऽपि न नाना नापि व्यन्त्वित्यनेन चाग्निशनः संबध्यते । सामानाधिकरण्येन समिदादिशब्दाः भूयन्ते । उत्पत्तिवाक्ये च समिदादिशब्दा एव देवतानिमित्तानि नामधेयानि श्रूयन्ते । नानिशब्दोऽप्यग्निदेवतानिमित्तं नामधेय श्रेषेऽपि समिच्छब्द एव । ततस्तु समिदादिशब्दैरवोद्देश इति सूत्रकृतोऽभिप्रायः । कुतः, यतो याज्यासु व्यन्विति बहुवचन प्रथमपुरुषो नाग्निशब्दान्वयिनाविति । हेऽमे ते तनुवः समिध इत्य- न्वयः । निरुक्तमप्याग्नेयत्वं वदन्न शब्दमन्यथयति किंतु समिदादिशब्दप्रतिपाद्या देव- ताऽग्निरित्येव, तदप्युक्तं तेनैव प्रयाजान्मे अनुयानांश्चैत्यनयर्चाऽग्निना मागा अथितास्ते भागास्तव प्रयाजा इत्यनय तस्मै ते प्रयाजानुयाजा मागत्वेन देवैर्दत्ता इति प्रयाना- नुयाजदेवता अग्निरूपेण ध्येया इति प्रतिपादितम् । तत्रैवोक्तं किमर्थमिदमुच्यत इत्या. शङ्कय यस्यै देवतायै हविगृहीतं स्यात्तां मनसा ध्यायेद्वषट्करिष्यन्निति परिहारेण सप्रयोजनतोक्ता । अत्राऽऽशङ्काभिप्रायः-याज्याभिर्देवता प्रतिपादिता सा येन शब्देन यत्र प्राप्ता सा तेम शब्देनैव देवतात्वं लभते न शब्दान्तरेण । ततस्तु नाना- ब्राह्मणोदाहरणैरनेकदेवतत्वप्राप्तिस्तन्निराकरणमाग्नेया वै प्रयाना आग्नेया अनुयाजा इति निर्णयोऽपि निरर्थकोऽनुष्ठानशब्दयोमैदाभावादिति । उत्तराभिप्रायस्तु शब्दाम: २द्वि० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । देऽपि याज्यासु देवसाध्यानं श्रुतिप्राप्त कुत्र का देवता तैस्तैः शब्दै प्रतिपायेति यावन्न ज्ञायते तावन्न ध्यानं कर्तुं शक्यमित्यस्ति देवतानिर्णयप्रयोजनमिति । ततस्तु बौधायन- मतेऽपि समिदादिशब्दवाच्या ऋतव इत्येव निर्णयो न तु वसन्तादिशब्दरुद्देशः कार्य इति । ननु पञ्चमप्रयाने तु संनिपत्योपकारक यक्ष्यमाणदेवतासंस्कारकत्वं, तत्र स्वाहा. कारो नामधेयं सत्र कथं देवतानिमित्तता नामधेयस्याग्नेर्वा कथं ते शब्दाः प्रतिपादका इति च । उच्यते--स्वाहाकारो मन्त्ररूपस्वाहेत्ययंशब्दः । तस्य. निरुक्तं स्वाहेति मुष्ठ आहेति वा स्वा वागाहेति वा सं प्राहेति वा स्वाहृतं हविर्नुहोतीति वेति । व्याख्यातं च तद्भाष्ये तात्पर्य सुष्टु आहेत्येवमादि । तत्स्वाहाकारस्य जन्मेति ब्राह्मणम् । स्वाहा क्रियते याभ्यस्ताः स्वाहाकारा देवता अग्निं स्वाहा सोमं स्वाहेत्याचा द्वितीया. निर्दिष्टा एता एव देवता आज्यपा अतः स्वाहाकारशब्देन देवतासामान्यवाचिना पश्च. मप्रयानोऽपि स्वाहाकारः । अत्र लिङ्गं स्वाहाकृतीभ्यः प्रेष्येति पशौ । ततस्तु विकृ. तिषु याज्याशब्दैरेव त्यागो ध्यानमानीसूक्ते निरुक्त एव दर्शितं तत्तयैव प्रत्यकं ज्ञेयम् । वसन्तादिशब्दैर्देवलक्षकैर्यथा प्रकृतावनुमन्त्रणमेवं तैरेव शब्दैर्लक्षकैरेव विकृतिप्वप्यनु- मन्त्रणमिति नोहः । अनुयानेषु तु याज्यागतर्देवहिरादिशब्देरेवोद्देशोऽनुमन्त्रणं च बहिषोऽहमित्यादि कर्मसमवेतार्थप्रकाशकैरेवं प्रकृती दर्शनात्तथैवोहेन याज्यादेवता अनुमन्त्रणे प्रतिपाद्या इति निर्णयः । येऽनिशब्देनोदिशन्ति तेषां मते क्रियमाण अहोऽ. नुयामेष्वनुमन्त्रणे स्वप्रामाणिक एव भवेत् । कुतः । न बहिपोऽहं देवयज्ययेत्यनुम- त्रणं समवेतार्यप्रतिपादकमभिधयाऽथ लक्षणया तहि प्रयाजैरेव समः समाधिरित्यल. मतिप्रसङ्गेन विदांकुर्वन्तु न्यायविदः ।

समिधः पुरस्ताद्यजति तनूनपातं दक्षिणत इडः पश्चादर्धमौपभृतस्य जुह्वामानीय बर्हिरुत्तरतो यजति स्वाहाकारं मध्येऽपरेण वाऽऽघारसंभेदं पूर्वं पूर्वꣳसꣳहितꣳ समानत्र वा सर्वान् ।

समिद्यागे पुरस्ताप्नहोति मध्यात्पुरस्तादित्यादि क्षेयम् । अपरेण पाऽऽधारसमे- दमिति पूर्व पूर्व संहितं पश्चार्थे पूर्व पूर्वमिति पश्चिमेन पश्चिमेन संहितं प्रायो यनती. त्युक्तः संनिवेशविकल्पः । तथैवोक्तं वैखानसेनापरेणाऽऽघार संमेदं प्राचो वेति । आधारयोर्यत्र प्रदेशे संधानं तत्र मध्यदेशस्तमपरेण तस्य पश्चारसभेदस्य समीपे समानौकस्मिन्नेव स्थाने तत्रैव संनिवेशविकल्पः । प्रतिदिशं सततं प्राचीन समानत्र वेति त्रयः पक्षास्तत्र सर्वेष्वपि पक्षेषु अर्धमौपभूतस्य जुवामानीय बहिर्य- जतीति । आनीय वहिरिति बहिरेवाऽऽनीतेन यजतीत्युक्तं तेन जुहुगतेनाऽऽधास्त्रय- १ क. ग. च... स्यामे या क। २०० सत्यापाढविरचितं श्रौतसूत्र- [२द्वितीयप्रश्ने- श्चतुर्थः पञ्चमीपभूताज्येन । तथा च ब्राह्मणं(णे) समानयत उपभृतस्सेजो वा आज्यं प्रजा बर्हिः प्रजास्वेव तेजो दधातीति बहिरर्थत्वेनैव समानीतस्य संस्तवात् । इदं वचनं कालमात्रविधानमिति केचिदाहुस्तन्निरस्तं ब्राह्मणेन प्रदर्शितेन । अनेनैवा. भिप्रायेण भाष्यकृताऽपि व्याख्यातम् । प्रयोजनं तु अपर्हिषः प्रयानान्यत्र यनति तत्र प्रथम चतुर्गृहीत नास्त्युपभृति ब्रह्मणस्त्वत्यादिचतुर्गहीतमेकमेव तथा पशावपि प्रथममन्त्रैरेवोपमृति गृह्णीयात् ।

प्रत्याक्रम्य प्रयाजशेषेण हवीꣳष्यभिघारयति ।

सति शेष । तस्मिन्नसति नामिधारणं तस्य शेषप्रतिपत्तिरूपत्वात् । ननु हवींध्यमि. धारयत्तीति द्वितीयाश्रवणाद्धविषां संस्कार्यत्वाच्छेपं कृत्वा हविरमिधारणं कार्य तन्नाशे प्रतिनिधिनाऽऽज्यान्तरेणामिधारणमिति चेत् । न । साधितमेतन्यायविद्भिर्यच्छेषप्रतिप- त्तिरियमिति । तदेवाऽऽचार्येणापि शेषशब्देन सिद्धवदनुवादेन दर्शितं यदयं प्रयाज.. शेषं कुर्यादिति न ब्रूते । तेन पश्चादौ यावाव्योत्पत्ति प्रयानशेषं न पात्रान्तरे स्थाप- नीयमिति प्रयोजनं च तैरेव साधितं, तस्मादेव केवलपतिपत्तिरूपत्वात्सूत्रकाराणामपि मते प्रतिनिधिनास्ति । द्वितीया तथायुक्तं चानीप्सितमिति मविष्यति ।

यदनुपूर्वाणि प्रदीयन्ते ।

यदनुपूर्वमेषां तानि तथा यत्क्रमविशिष्टानि दीयन्ते । अत्र परार्थान्ये केन क्रियेर- निति प्रयानशेषप्रतिपत्तिरेकस्मिन्नेव भवेद्धविषि. कपालेनैकेनैव तुषप्रतिपत्तिरित्याश- योक्तं यदनुपूर्वाणीति । प्रयाजशेषेण हवींप्यभिचारयतीति बहुवचनं श्रूयत उपादे: यानि च हवींषि हविःषु शेष प्रतिपादयेदिति । तस्माद्बहुवचन विवक्षितगिति । एता- बदन हविःशब्देनाङ्गप्रधान पि. वषट्कार प्रदानानि गृह्यन्ते । तेनोत्पत्स्यमानहति- षोऽपि प्रविपत्तिः कालान्तरेऽपि कार्येति न सिध्यति, प्रतिपत्तिकाले सिद्धैरैव कार्या न तु प्रतिपत्तिव्यस्यानभूतस्योत्पत्स्यमानस्य समयपर्यन्तं विप्रकर्ष सहते, सिद्धैरेवा: प्रधानविमिः सिद्धत्वात् । तदानुपूर्वमेवाऽऽह-

ध्रुवामभिघार्याऽऽग्नेयमभिघारयत्युपभृतमन्ततः ।

अङ्गप्रधानग्रहणे प्रधानमेव गृह्यत इति न्यायादहविषां ग्रहण न स्यादित्याश. योक्तं ध्रुवामित्यादि । हविषां यागाङ्गत्वात्सर्वेषामङ्गत्वमविशिष्टम् । तानि च नात्रो- द्देश्यानि किं तु विधेयानीति भावः । विकृतिप्वनाज्यमागासु न ध्रुवाभिधारणम् । धुवामाग्नेयमग्नीषोमीयम्। ध्रुवामाग्नेयमेन्द्राग्नं शृतं दधि चेति मध्ये यथासंभव ज्ञेयानि । १ ख. भृतेनाऽऽज्ये। . रवि० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २०१ उपांशुयानार्थत्वेऽपि धौवस्य न पुनरभिघारणम् । प्रत्येकं ग्रहणात्पूर्व तस्यैकत्वादसं- स्कार्यत्वाच | नाऽऽवृतिः प्रतिपत्तेः । अन्तत इति यावन्ति मध्ये संभवन्ति सावतां कृत्वेति दर्शितम् ।

आज्यभागाभ्यामाज्यहविर्भ्यां प्रचरति ।

आज्यभागाविति द्वयोः कर्मणो मधेयम्, आज्यं भागो मागधेयं ययोस्ती, तथाऽपि रूढिः, सरस्वत्यान्यभागेति योग एवेति ज्ञेयम् । आज्यद्रव्योत्पत्तिविधिस्तु सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्धृवायामाज्यामिति दर्शयितुमुक्तमाज्यहविया॑मिति, आज्यं हविर्ययोस्तौ तथा (ताभ्यां), प्रचरति अनुतिष्ठते (ति)। यजतीति वक्तव्ये साझे यज्यर्षे प्रचरतिः प्रयुक्तः । अत्र चतुरवत्तं पञ्चावत्तं वा विहितमाज्य, याज्यापुरोनुवाक्यावती. विति वचनान्नोपस्तरणाभिघारणे पुरोडाशसानाय्ययोरिति तयोविधानात् । ततस्तु नुच्युपस्तीर्य मा मेरित्यभिमृश्य तथाऽवदायाभिघार्य हविः प्रत्यभिधारयतीत्यन्तं पुरो- डाशसांनाय्ययोरेव ।

तौ प्रबाहुग्ज्योतिष्मत्युऽत्तरार्धेऽग्नये जुहोति दक्षिणार्धे सोमाय ।

प्रबाहुक्समौ सज्वाले । उत्तरो माग आयतनस्योत्तरार्धस्तथैव दक्षिणार्ध इत्यपि ज्ञेयम् । उत्तरार्धपूर्वार्धे दक्षिणार्धपूर्वार्ध इति बौधायनापस्तम्बाभ्यामुक्तम् । गृह्ये स्वयमपि तथैव वक्ष्यति । श्रुतिस्तु पूर्वार्धे जुहोतीत्युपक्रम्योत्तरार्धेऽग्नये जुहोति दक्षिणा सोमायेति स्पष्टैवास्ति । तथाऽपि तिर्यञ्चावाघारौ थदा तदाऽऽधारस्य खुच्यस्य प्रधानाडुतीः प्रत्यधिकरणताऽऽघारौ च मध्ये तयोः प्रान्ते दक्षिणार्धपूर्वाध. मात्र एवाऽऽन्यमागहोमे सति वक्ष्यमाणं तावन्तरेणेति युज्यते । तस्मादाबारानुरोधेनै. वाऽऽज्यभागयोः स्थान नियतमिति वक्तुं दक्षिणार्धपूर्वार्ध इत्याधुक्तम् ।

तावन्तरेणेतरा जुहोति ॥ ५॥

ज्योतिष्मतीत्यनुकर्षः । इतरा आहृतरिति शेषः । आज्यभागाम्यामित!स्ताः प्रयाजानुयाजाहुतिभ्यस्तासां नियतस्थानत्वादत्र दविहामाहुतयो नियम्यन्ते । अत्र विशेषश्चतिराथर्वणिकी—'यदा लेलायते ह्यचिः समिद्धे हव्यवाहने। तदाऽऽज्यभागाव- न्तरेणाऽऽहुतीः प्रतिपादयेत् ' इति । तथैवाऽऽपस्तम्वेनाप्युक्तम् ।

आज्यभागौ प्रति स्रुचावादत्ते न निदधात्या स्विष्टकृतः ।

प्रति लक्षीकृत्य पूर्वकाले पूर्व घृतवतीमध्वयों सुत्रमास्यस्वेत्यत्र गृहीतयोनिधानेs. नुक्तेऽपि पुनरादत्त इति वचनेनानुवादो मध्ये निधानप्रतिषेधार्थः । पूर्व गृहीतयोरर्थप्राप्ते निधानेऽपि न दोष इदानी गृहीतयोर्मध्ये निधाने प्रायश्चित्तमर्थे वाचमनादौ प्राप्तेऽ. १च. ट. "स्य पु। २ घ. उ ज. अ. न. ढ. 'प्मती जुहोत्यु । ३ क. ख. ग. च. छ. ठ.नं ननि। र घ. उ. ज. श. त्र. द, यजति । ५५. ङ. ज. श. म. द. प्रभृति । २०२ सत्याषाढविरचितं श्रौतसूत्र- [१द्वितीयप्रश्ने- न्यस्य हस्ते दत्त्वा गन्तव्यमेतस्विष्टकृतः समाप्तिपर्यन्तं ज्ञेयम् । मारद्वाजेन प्रयाने. भ्योऽनन्तरं सादनमुक्तमाज्यभागी प्रत्यादानं [च) तन्नेष्टमाचार्यस्य मध्ये सादन- स्यादृश्वार्थत्वापत्तेन्यायविरोधादित्याहुस्तन्न, जुहूपभुतावादाय प्रयाजान्यजतीति स्यपा प्रयानाइतोक्ता । तत आन्यभागी प्रति स्नुचावादत्त इति वचनादाज्यमागार्थ पुनरावा- नमसिद्धम् । पूर्व निधानमेवेष्टमाचार्यस्य ।

प्रचर्याऽऽग्नेयेन पुरोडाशेनाऽऽज्यहविषोपाꣳशुयाजेन प्रचरति ।

चतुरवत्तेन पञ्चावत्तेन वा नौवाज्येन प्रचतिश्यपा पूर्वकालत्वमात्रमुक्तमानेय- पुरोडाशस्य। तत्र क्रमः-आज्यमागावारम्य दक्षिणेन जुहूं सध्येनोपभुतमादायामयेऽ. नुब्रूहीति संप्रेष्य ध्रुवायाः स्ववेणावदायाऽऽप्याय्य स्थालीगत व प्रस्तरबाहिरकत्वा अवेण प्रत्याक्रम्पाऽऽश्राव्य प्रत्याश्रावितेऽग्निं यजेति संप्रेष्य सह वषट्कारेण वषट्कृते वाऽऽघा- राद्वहिरुत्तरार्धपूर्वी तिरओराधारयोस्त्त्तरे नुहोति । यथेत प्रत्येत्य सोमायानुम हीति प्रेष्य चतुरवदायातिक्रम्याऽऽश्रावणादि सोमं यजेयादि पूर्ववद्दक्षिणार्धपूर्वार्धे जुहोत्याबाराहहिराधारयोस्तिरश्चोर्दक्षिणे या । अग्निः सोमश्व देवते अग्नीषोमयोरह देवयज्यया चक्षुष्मानभूयासमिति यानमानम् | अग्नितति च । यथेत प्रत्येत्य गुच्यु. पस्तीर्याऽऽप्याय्य मा मेरिति पुरोडाशमानेयममिमृश्याग्नयेऽनुबहि द्विस्त्रि, व्यवस्थित मवदाय त्रुचि प्रथमं पूर्वार्धे द्वितीयमवदानं पश्चार्धेऽवधायाभिघार्य यदवदानानीति प्रत्यभिवार्य प्रस्तरमाप्याप बहिरङ्गत्वाऽत्याक्रम्याऽऽश्राव्य प्रत्याश्रावितेऽर्मि यजेति संप्रेण्याऽऽज्यमाहुतिदेशे नुङ्मुखेन(ण) स्त्रावयित्वा वषट्कारेण सह वषट्कृते वा जुहोति । अग्रेणाऽऽघारसंभेदं जुहूं प्रवेश्य तत्पूर्व धुच्याघाररेखायो मुक्पार्चेन स्नुक्पुष्क- रेणापिदिवाविशीर्णयन्नवदान हुत्वाऽवशिष्टनाऽऽन्येनामस्थमवदानं सुङ्मुखेन(ण) श्रोतयति। अग्निदेवताऽनरहमिति यानमानम् । यथेत प्रत्येत्याऽऽज्यहविकणोपांशु- पाननामकेन यागेन प्रचरति, नात्र मा मेः प्रजापतये ऽनुव्रीति यथादेवतम् । चतु- पञ्च वाऽवदायाऽऽप्याव्य प्रस्तरं बहिरकत्वाऽत्याक्रम्याऽऽश्रावणादि प्रजापति यने- त्यादि वषट्कारे वषट्कृते वा संभेदेन प्रवेश्य चाऽऽग्नेयेन संहात (ता) पूर्वभाग ईशान्य उदगमागे वा च्यापाररेखायो जुहमुखेन जुहोति । नात्राऽऽऽयं हुत्वाऽऽज्येनान्त- तोऽन्ववस्रावयतीति । नापिदधदिवेत्यादि । प्रजापतिरग्नीषोमौ विष्णुर्वी देवता । दब्धिरसीति सर्वत्र याजमानम् ।

तस्योच्चैराश्रुतप्रत्याश्रुते याज्यापुरोनुवाक्यासंप्रैषो वषट्कारश्च ।

उपांशयाज इति संज्ञया सर्वोपांशुत्वप्राप्तौ सामर्थन संज्ञानाधात्तस्योचैरित्या- चुक्तमाश्रावणादीनां परप्रत्यायनार्थत्वादित्यर्थः । " क "स्तन जु' । २ ट, बदाया । रवि पटलः] महादेवकृतवैजयन्तीन्याख्यासमेतम् । २०३ तहि कुत्र संज्ञयोपांशुत्वं तत्राऽऽह-

उपांशु देवतादेशनम् ।

प्रजापतये प्रजापति थे यजामहे प्रजापतिमित्युपांशु । परप्रत्यायनार्थानामपि शास्त्रेण नियम उपांशत्वस्य । याज्यापुरोनुवाक्ययोरपि देवतादेशनरूपत्वेनोपांशुता । अथवा तयोरुपांशुत्वस्थानाधात्संजयवोपांशुत्वं यागस्य साक्षादुत्पादकत्वेन दृष्टार्थ- नयाऽनत्वात्तयोः। थपेतं प्रत्येत्य-

यथादेवतमुत्तरेण पुरोडाशेन प्रचरति ।

यद्यस्ति तर्हि प्रचरति पुरोडाशेनाप्सोमयाजिनोऽस्ति पक्षेऽनीषोमीपः पौर्णमास्यां सैनयतो नास्त्यैन्द्रामोऽमावास्थायाम् । अग्नीषोमीये सति मुच्युपस्तीर्याऽऽप्याय्य मा पेरवदाय प्रथममवदानं मुचि पूर्वाः द्वितीयादि पश्वाः पुष्करे निघायाभिघार्याऽऽप्याय्य प्रस्तरनहि रक्त्वाऽत्याकण्याऽऽश्रावणादि भग्नोषोमाभ्यामनुबहि वषट्कारेण वषट्को योपांशुयानाइतिस्थानेन संलग्नामपिदधदिवानगञ्जुहोति प्राग्भाग ईशान्य उदाभागे पा। अनोषोमो देवता, अग्नीषोमयोशित यानपानम् । अमावास्यायो नास्त्युपाशुयाम आग्नेयानन्तरमसंनयत ऐन्द्रामः । आमेयेन प्रचर्य यथेतं प्रत्येत्य स्वच्युपस्तीर्या:- म्याय्य मा मेः । इन्द्राग्निम्यामनुमहि प्रथममवदानं नुचि पूर्वार्ध द्वितीयादि पार्षे निधायामिवार्याऽऽप्याव्य प्रस्तरबाहिरकत्वाऽत्याक्रम्याऽऽश्रावणादि श्रावयित्वा वषट्: कारेण वषट्कृते वाऽऽग्नेयेन सलग्नां पूर्वभाग ईशान्य उदमागे वाऽपिदधदिवाप्रक्ष्णम्जु. होति । इन्द्राग्नी देवता । इन्द्राग्नियोरिति यानमानम् । संनयतस्त-

समवदाय सांनाय्याभ्यां प्रचरति द्विः शृतस्यावद्यति द्विर्दध्नास्त्रिः पञ्चावत्तिनः ।

समवदाय नृतदनोरेकनावदानं समवदानं द्विवचनेन प्रत्येकं प्रधानत्वेऽपि सह प्रचार इत्युक्तम् । पुनििस्त्ररिति वचनेनावदानयोस्वाऽऽवृत्तिरुपस्तरणाविधारणे तु लन्त्रेणेति ज्ञापितम् । पुनर्विधानात्तावदेव प्रयोगः पुरोडाशसांनास्ययोरुपस्तरणेत्यादि- विधानानुच्युपस्तीर्याऽऽप्याग्येन्द्राय महेन्द्राय वाऽनुबूहीति मा मेरित्यावर्तते प्रदेश- मेदात् । द्विनिर्वाऽवदायाभिघार्याऽऽप्याय्य प्रस्तरबहिरवा यदवदानानि द्विरेत- दन्तः पदार्थानुसमयेनैवोत्तरत्र तन्त्रमत्याक्रम्याऽऽश्रावणादि । इन्द्रं महेन्द्र वेति यथाधि- कारं प्रेष्य सभेदेन चुचे प्रवेश्य नापिदधदिवेत्यादिनाऽपि पूर्वमपरं चाऽऽन्यावस्रावणं केवलं बुङ्मुखेनो(गो)पांशुयाजस्थाने जुहोति सानाय्याडुतिम् । इन्द्रो महेन्द्रो वा देवता । इन्द्रस्येति महेन्द्रस्येति वा याजमानम् । २०४ सत्याषाढविरचितं श्रौतसूत्रं- [२द्वितीयपने- यथेतं प्रत्येत्य-

समवदाय स्विष्टकृता प्रचरति ।

एकत्रावदानं समवदान स्विष्टकृत्संज्ञको यागः प्रधानहविःप्रतिपत्तिरूपतया दृष्टार्थत्वेन देवतोद्देशेन दानरूपत्वाददृष्टार्थत्वेन च व्यात्मकः । पुरोडाशप्तांनाय्ययाग. स्वादुपस्तरणादि । न मा भेरिति हविःशेषत्वात् ।

यदनुपूर्वाणि प्रदीयन्ते सर्वेभ्प उत्तरार्धेभ्यः सकृत्सकृदवद्यति ।

यद्यथाऽनु पूर्व पूर्वमनतिक्रम्य विद्यन्ते तानि तथा, यथाऽनुपूर्वाणि प्रदीयन्ते प्रधान- देवताभ्यस्तथाऽनुपूर्वेभ्यः सर्वेभ्यो हविःशेषेभ्यः सकृत्सकृदुत्तरार्धेभ्योऽवद्यति, प्रदी. यन्ते प्रत्तानीत्यर्थः । सकृदवदायाङ्गुष्ठपूर्वाधिक यथायोग्य हस्तेन स्नुवेण च ।

द्विः पञ्चावत्तिनः ।

पूर्वधर्मनिवृत्यर्थ सद्धिरित्युक्तम् ।

द्विरभिघारयति न हविःशेषान्प्रत्यभिघारयति ।

पूर्व सकृत्प्राप्ताभिधारणे विशेषविधिः प्रत्यभिधारणामावो न्यायेन प्रदर्शितस्तं म्यायं प्रदर्शयितुं प्रतिषेधो हविःशेषग्रहणेन दर्शितः । नेदं हविः किं तु वषट्कारद- तस्य शेषोऽतो न हविरभिघारणप्राप्तिरिति तात्पर्यम् । वषटकारेण प्रदान स्विष्टकृत्य- प्यस्तीति हविष्वमाशयोकं नेति, प्रत्तस्यैव विधिवलादानेऽपि शेषप्रतिपत्तिरेव । स्विष्ट कृदिति चोक्तं नात्र धौवस्य स्विष्टकृपर्थमवदानं, यान्यनुपूर्व प्रदीयन्ते तेषामिति नियमाद्धौवस्याद्यापि न हविःशेषत्वम् । तस्य सर्वयागार्थत्वेन यावद्गृहीत लावदेव तदर्थं न तु निर्वापसमये वा धुवायां ग्रहणसमये वा पृथक्पृथग्देवतानिर्दे. शोऽस्ति । येनोत्पत्तिविधाकैकार्थत्वं स्यात् । तस्माद्यावगृहीतं तावदेव वपद्कारेण दत्तं न तु ध्रुवागतमपि यथा वेदिगतमपि पुरोडाशसांनाश्यहविर्वषट्कारेण दीयते । कुतः-ध्रौवस्य सर्वयोगार्थत्वादेकस्मिन्यागे दातुमशक्यत्वात् । न्यायविद्भिश्च साधित नोपांशुयानार्थस्य विष्टकृदवदानमिति ।

उत्तरार्धपूर्वार्धेऽसꣳसक्तामितराभिराहुतिभिर्जुहोति ।

पूर्वमुत्तरार्धदाक्षिणार्धशब्दाभ्यामाज्यभागहोमस्थानमुक्कं, रात्रैतस्य स्थानं मा भूदिति वक्तुमुत्तरार्धपूर्वार्ध इत्युक्तम् । तेन तावन्तरेणेतरा जुहोतीत्युक्तत्वात्किचिदुत्तर आग्नेय आज्यभागस्तस्मास्किंचिदक्षिणतोऽसंस्पृष्टामाघार प्रधानामुतिभिः स्विष्ठकृदाहुति जुहोतीत्युक्तम् । संनयतो दश पुरोडाशस्यावदानं प्रथमं ततो मुख्यत्वेन बुक्पार्श्वन होमे प्राप्ते शतदनोद्वित्वेन भूयस्त्वं मुख्यत्वाबलीय इति मुखैन(ग)व होमः । अग्नये विष्टकृत इदं न ममाग्नेः स्विष्टकृतोऽहमिति याजमानम् । ननु कथमग्निः विष्टकृदेव १ क. ग. च. छ. ट, ठ, प्रतिशेषो । २ क. ग, च, ठ, "बैका । १० पटलः] ] महादेवकृतवैजयन्तीब्याख्यासमेतम् । २०५ देवता यथा पञ्चमे प्रयाने यक्ष्यमाणदेवतासंस्कारेऽपि ता एव देवता एवमिष्टदेवतास. स्कारेऽपि स्विष्टकृति ता अपि न कुतो देवता इति चेत् । न । पञ्चमे प्रयाजे मन्त्र. वर्णाद्देवताविधिः, अत्र तु तस्मा एतद्भागधेयं प्रायच्छन्यदग्नये स्विष्टकृते ऽवद्यन्तीत्या- दिनोत्पत्तिविधानादग्निः स्विष्टकृद्देवता मन्त्रेण देवतासंस्कारो द्रव्यप्रति पत्तिर्वषट्कारेण प्रदानमग्नये स्विष्टकृत एवेति त्रिरूपता स्यात् । यदाहः-'मन्त्रेण देवसंस्कारः प्रक्षेपाव्यसंस्कृतिः । या(त्या)गादपूर्वमुत्पन्न प्रधानापूर्वगामि तत् ॥ इति ।

प्रत्याक्रम्य स्रुचमद्भिः पूरयित्वा वैश्वानरे हविरिदं जुहोमि साहस्रमुत्सꣳ शतधारमेतम् । तस्मिन्नेष पितरं पितामहं प्रपितामहꣳ स्वर्गे लोकेविभरत्पिन्वमान इति मध्यमं परिधिं प्रदक्षिणमनु परिषिञ्चति ।।६।।

जुहूपूरणं संस्कार इति भाष्यकृत् । धर्ममात्रमित्यन्ये। पित्रे पितामहाय प्रपितामहा- येदम् । स्मात उदकस्पर्शः पिव्यत्वात् । प्रक्षालनप्रतिपत्तिधर्ममात्रं वा परिध्यभावेऽपि कर्तव्यं परिधिमनु परिधिदेशमनु, कर्मप्रवचनीययोगे द्वितीया । ततस्तु न परिधेः संस्कारः । अत एवोक्तमापस्तम्बेनान्तःपरिधि निनयतीति, बौधायनेन संक्षालनमन्तः- परिधीति ॥६॥

इति सत्याषाढहिरण्यकशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैजयन्यां द्वितीयप्रश्ने द्वितीयः पटलः ॥ २ ॥

2.3 अथ द्वितीयप्रश्ने तृतीयः पटलः ।

सादयित्वा स्रुचावाग्नेयं प्राञ्चं विरुज्याङ्गुष्ठेनोपमध्यमया चाङ्गुल्याऽज्यायो यवमात्रादाव्याधात्कृत्यतामिदम् । मा रूरुपाम यज्ञस्य शुद्धꣳ स्विष्टमिदꣳ हविरि त्यनुमृश्य यवमात्रं पिप्पलमात्रं वा प्राशित्रमवद्यति ।

अवसरप्राप्तमनुवदति-सादयित्वेति । आग्नेयं पुरोडाशं विरुज्य यत्रावदास्यति तत्र प्रदेशे किंचिदपसार्य, कथं, प्राञ्चं, पुंलिङ्गनिर्देशाद्यद्यपि न क्रियाविशेषणं किं तु पुरोडाशविशेषणं तथाऽपि फलतः क्रियाविशेषणम् । अपसारणं प्राचीनं कार्य- मित्यर्थः । अङ्गुष्ठेनानामिकया च विरुग्णे प्रदेशेऽनुमृश्यान्तरङ्गुष्ठाङ्गुत्यौ गमयित्वोदरे मन्त्रेणावद्यति । मध्यादित्यापस्तम्बः । यवो धान्यं तत्प्रमाणं पिप्पलं फलं तदश्वत्थस्यै- १७. छ.ट. तदाहुः। २०६ सत्याषाढविरचितं श्रौतसूत्र- [द्वितीयप्रम- वेति केचिद्याचसते, तत्र यवमात्रादितिमलिङ्गविरोधात्तूष्णीमेवावदानमिति च। भारद्वाजवचनात्तु नीहिप्रमाणं पिप्पलमात्रमित्यन्ये व्याचक्षते, तत्रास्त्येव मन्त्रः । प्राशित्रमिति नामावदानस्य ।

अविरुज्योत्तरस्मात् ।

उत्तरस्माद्धविष इति केचिदाहुरतः सानाय्यादपि प्राशिमिच्छन्ति । उक्तं च. परद्वाननयमत्तरेषामिति । उत्तरशब्दोऽप्युत्तरकालं दीयमानहविर्वाचकस्तेनाऽऽमिक्षायाः पशोरपि च प्राशित्रमिच्छन्ति नाऽऽस्यात्सर्वाण्यपि शेषकार्याणि न धौवादिति न्याय. निर्णय इत्युक्तमेव । अन्ये तूत्तरदेशस्थितं हविस्तत्तु पुरोडाश एवेति व्याचक्षते । किं घ, भानेयशब्देन देवतानिमित्तेन प्रत्यभिज्ञानाद्देवताशब्देनवोत्तरस्मादिति प्रत्यभिज्ञा युक्ता, न च सानाय्ये देवताशब्देन व्यवहारोऽस्त्यतोऽमोषोमीय ऐन्द्र सो वा गृह्यते । वैखान- सेनोत्तरस्मात्पुरोडाशादित्येवोक्तम् । पशौ च प्राशिवपात्रप्रयोगामावात्पशुपुरोडाशे, दर्शनादपि न सानाध्ये प्राशित्रम् । द्वितीयस्यावदाने पृथग्द्रव्यत्वान्मन्त्रावृत्तिरकुति नियमः प्रमाणं चास्ति, विरुज्येति नास्त्यनुमृश्येत्यरत्येक ।

प्राशित्रहरणमुपस्तीर्यावदायाभिघारयति ।

हियतेऽनेनेति हरणं पात्रमुक्तमेवोपस्तीर्येत्ययमेकः क्रमो दर्शितः ।

उपस्तृणीयादभि च घारयेदित्येकेषाम् ।

चकारो विकल्पार्थः । उपस्तृणीयाद्वाऽभिधारयेद्वेति परिसंख्याऽन्यतरस्य । तदुक्त मापस्तम्मेनोपस्तीय नाभिधारयत्येतद्वा विपरीतमिति । स्थाल्या एवाऽऽज्यमुपस्तरणार्थ- माहवनीयाज्यार्थान्यत्वात् । एवमिडादाववदानेऽपि द्रष्टव्यम् ।

आग्नेयात्प्राशित्रमवद्यतीत्येकेषाम् ।

आग्नेयादेव नान्यस्मादिति परिसंख्या ।

तन्निधाय ।

प्राशिवहरणं निधाय । कुत्रेत्यपेक्षायामुक्त( +माष्यकृता-भरोणाऽऽहवनीयं ब्रह्म पनमानावाहवनीयं चान्तरेण नीत्वाऽपरेणाऽऽहवनीय निदधात्येवं च सति व्यवायो क स्यादिति सूत्रान्तरस्थम् । तदिदै यजमानेनेडान्वारम्भणार्थमागम्यते तदाऽवत्तस्यः प्राशि- अस्य सूक्समीपेऽवस्थाने व्यवायो ब्रह्मप्राशित्रयोर्यजमानेन स्यादिति व्यवायनिवार- णार्थमुक्त बौधायनेन नघनेन प्रणीताः स्थापयित्वेति ।

इडापात्रमुपस्तीर्येडाꣳ समवद्यति चतुरवत्तां पञ्चावत्तां वा स्विष्टकृताऽऽनुपूर्व्यं व्याख्यातम् ।

  • सूत्रपुस्तकेषु अपि वोपैति पाठः । + धनुश्विद्वान्तर्गत स्व. पुस्तक एवोपलब्धम् ।

१५. क. स. म. व उप । १ स. प. छ. च. छ, द. पूर्व व्या। श्तृ०पटलः ] महादेवकृतबैजयन्तीव्याख्यासमेतम् । २०७ स्थालीगताज्येनेडापात्रमुपस्तीर्य, इडा देववा तदर्थमवदानमपीडा ना(तामेकत्राव- चति । याज्यानुवाक्यावतीषु चतुरवत्तं पञ्चावत्तमित्यभिधानानेडायां प्राप्तिरिति तस्या- मपूर्वविधानं चतुरवत्तां पञ्चावत्तामिति,व्यवस्थितो विकल्पः स्विष्टकृतेति, तथा स्विष्ट- कृत्सर्वेभ्योऽपि हविःशेषेभ्योऽवदानानुपूर्याऽवत्तमेवभिडावदानमपि हविःशेषप्रतिपत्ति- रूपत्वात्तथैव सर्वप्रधानद्रव्येभ्योऽवद्यति । इडा सर्वाऽप्येकं द्रव्यमिडामित्यभिधानान्स. म्योऽपि हविर्यः प्रथममेकं समवदान, तत्र सकृन्मत्र इडाव्यस्य मनुनेतिमन्त्रलि- कादेकत्वप्रतीतेः । एवं च द्वितीयमपि सर्वेभ्य एकं तत्र पुनः सन्मत्रो यजमानमा- गावदानेन कर्मणा व्यवधानदेिवस्यापि द्वितीयायदानस्य पृषद्रव्यतयों न (!) मन्त्रात्ता। ततोऽभिधारणं चतुरवत्तायां पञ्चावत्तायां तूष्णी तृतीयमव्यवधानान्मत्राभावः । तामिडामिमां कथमवधति तत्र मनमाह-

मनुना दृष्टां घृतपदीं मित्रावरुणसमीरिताम् । दक्षि णार्धादसंभिन्दन्नवद्याम्येकतोमुखामिति दक्षिणार्धात्पुरोडाशस्य पूर्वमिडावदानमवद्यति ।

ततः सर्वहविरिडावदानमन्त्रः । मन्त्रे दृष्टामित्यादिविशेषणानीकायामेव संबध्यन्ते । अत्रावद्यतीति पुनर्वचनं समुपतर्गत्यागेनैकेनेडावदानेन संबन्धो दक्षिणार्धादित्यादिविशे. पणैर्यथा स्यात् । वस्तुगत्या मन्त्रेणतेनैव संबध्यते । इडाप्तमवदाने तस्यैव प्राथम्यात् । सकृदेव मन्त्रविधानमिडाया यत्तत्प्रथमावदान एव पर्यवस्यति । ननु तहीदं मन्त्रविनियो. गेनैकमेकस्तं क) वाक्यमिति । न । तदा द्वितीये पुनस्तत्पुरोडाशप्रभृतिक्रियमाणेऽवदाने मन्त्रो न स्यात्पूर्वेण विशिष्टेनैव संवन्धाद्वितीयोगाये समवदाने संभेदमवद्यतीति विधीयमान एकमिच्छन्नतिदेशाञ्च 1)। मन्त्रगतसर्वविशेषणानि (E) प्रथमावदाने नपुंसकत्वेन निर्दिष्ट वा सर्व (१) दित्युक्तम् । वैखानसेन स्पष्टमुक्तम्-'इडापात्र- मुपस्तीर्थ मनुना दृष्यामिति चतुरवत्ता पञ्चावत्ता वा सर्वेभ्यो हविर्यः स्विष्टकद्वत्प्रभूता- मिडां समवद्यति दक्षिणार्धात्पुरोडाशस्य पूर्वमतदान संभेदाद्वितीयमेवं सर्वस्य हविषः । इति । आपस्तम्बेनापि तयैवोक्तम् । सर्वार्थ एव मन्त्रः । एवं सर्वेषां हनिषामिड समवति ' इति भरद्वानः । य (त)तस्तु दक्षिणापात्पुरोडाशस्य पूर्वमिति भिन्नमेव वाक्यं युक्तमित्यभ्युपगन्तव्यम् । पूर्व प्रथमम् । पूर्वग्रहणं दक्षिणार्धाहितीयं मा मदिति । तस्य संभेदस्थाननियमात्प्रथमस्य दक्षिणार्धादवदानेनेडाद्रव्यायकत्वादक्षि. . णादिति युक्तम् । .ट. 'नादव । २ न. छ. ट. 'यालम । ३ क, ग, च, छ. उ. 'षणैर्यया स्याग्निरमाया। ट. पणैर्य । ४ क. ग, च, ठ, संवध्यते 1 २०८ सत्यापाठविरचितं श्रौतसूत्र- [२द्वितीयपने-

पूर्वार्धादणुमिव दीर्घं उत्तरम् ।

समवद्यतीत्यनुकर्षः । पुरोडाशस्येत्यपि । पूर्वार्धादीषद' तनु(नु) दीर्घ च यजमानस्ये मागं चतुरवत्तादिधर्मरहितमेव, पुरोडाशयोस्तु सहैवावधति, सूत्रान्तरोक्त माध्ये व्याख्यातं तन्नास्मत्सूत्रे दृश्यते । नहिं पारिभाषिकं सर्वत्रावदानं चतुरवत्तं पञ्चावत्त चा प्राप्नोति, येनोपस्तरणाभिधारणे प्रामुतः, पुरोडाशस्येत्यनु[कर्ष]सामर्थ्यात् ।

तमाज्येन संतर्प्य ध्रुवाया उपोह्य ।

स्थालीगतेनाऽऽज्येन तृप्तं कृत्वा । सकर्मको धातुस्तृप इति प्रयुक्तोऽन्यथा संतप्र्थे- (तृप्ये) ति स्यात् । ध्रुवायाः समीप *ऊह्य गयित्वा । धुवाया अग्रेण निधायेति वैखानतः । अग्रेण ध्रुवामिति बौधायनः । बर्हिषि कस्मिंश्चित्पात्र इत्यर्थः ।

संभेदमवद्यति ।

द्वितीयमिति शेषः । संमेदो व्यवधायकोऽवदानानां प्रदेशस्तमेवावति । दक्षिणार्धा- पूर्वमैडावदानं पूर्वार्धाद्यनमानभागस्तयोमध्ये योऽयं संभेदोऽवकाशस्तमेव प्रदेशमव- यति । असंमिन्दन्निति मन्त्रविशेषणमुपपन्नं भवति । इतरावदानः संश्लेषणावदीय- मानत्वात् ।

पश्चार्धातृतीयं पञ्चावत्तायाः ।

पश्चा[C] दिति, भागे दक्षिणार्ध एवेडाया इति शेषः । पञ्चावत्ताया इति । भाष्यकृता पुरोडाशयोः सह यजमानभागमवद्यतीत्युक्तं, तत्तु पुरोडाशस्यैकस्यैकस्या- वदानसमाप्ती द्वितीयस्यापि प्रथमावदाने कत्रैवेति व्याख्येयम् ।

अभिघार्य होत्र इडामादधाति ।

स्थाल्या आज्येन बहुतरेणेडामभिधार्य होतुर्हस्ते प्रयच्छति । सुरूपवर्षवर्ण इत्यादि याजमानम् ।

प्राचीं वा प्रोहति ।

प्रदाने विकल्पः । प्राचीमिडां वेद्यां प्रोहति प्रवाहयतीत्यर्थः । यदा हो। प्रत्ता तत्र पक्षे-

अनुत्सृजन्नेव होतेडयाऽध्वर्युं परिगृह्णाति यदि होत्रे प्रत्ता भवति ।

यदि होने प्रत्तेडा तदा तामत्यजन्नेव होता प्रत्तेडयाऽध्वयु परितो गृह्णाति, याजुषे

  • ऊयेति स्थान ऊहयित्वैति युक्तम् ।

१.८, "मभा।२ क, ख, ग. च. छ. ट. ठ. आजोन । ३ क.ख. ग. च. छ. ज, ट.3. इ. संतृप्य । ४ प.हजन, ज, पञ्चावत्तायाम् । ढ. पञ्चावत्तायाश्च । - तुं०पटलः] महादेवकृतवैजयन्तीब्याख्यासमेतम् । २०९ होत्रेऽङ्गुलिपञ्जिनार्थमध्वर्युमावर्तमानं परितो गृह्णाति बहिरिडा धृत्वा गन्तुमवकाशं प्रयच्छतीत्यर्थः । पक्षद्वयेऽपि विधिमाह-

अग्रेण होतारं दक्षिणाऽतिक्रम्य पश्चात्प्राङा सीनो होतुरङ्गुलिपर्वणी अनक्ति ।

सुवेणाऽऽज्यमादाय होतुरप्रदेशेन दक्षिणां गत्वा प्रदक्षिणां कृत्वा प्रदक्षिणमावृत्य पश्चात्प्राङ्मुख आसीन एव होतुरङ्गुलिपर्वणी तर्नन्याः प्राथम्यादस्या एव पर्वणी द्वे तेन वेगानक्ति । त्रुवेणानक्तीत्यापस्तम्बः । प्रदेशिन्यङ्गुलावनक्ति पर्वणोरिति वैखानसः । होतृसंस्कारोऽञ्जनम् । कममाह-

पूर्वमग्रेऽथापरम् ।

पूर्व मूलपर्वाग्रे प्रथममत्वाऽपरमधस्तन मूलपर्व । पर्वशब्देनात्र संधी उच्यते काण्डात्काण्डादिति पर्वापरपर्यायः काण्डशब्दो हि संधिवाच्यपि। तयोरेव द्वित्वमङ्ग- ठपर्वमात्रमत्र संहितमिति विशेषो यावदिद(दुत्तम)मङ्गुलिकाण्डमित्यपि दर्शनात् । अङ्क्त्वा-

तत्सोऽवघ्रायाप उपस्पृशति ।

स होता, तदक्तमाज्यम् । श्रौत उदकस्पर्शः । हौत्रविधानं याजुर्वेदिकत्वात् ।

यथेतं प्रत्येत्य पुरस्तात्प्रत्यङ्ङासीनो दक्षिणे होतुः पाणाविडाया अवान्तरेडामवद्यति ।

पूर्व न प्रत्ता चेदिडां तदा प्रत्येत्य होतुर्हस्ते प्रयच्छति । ततो होतुः पुरस्तात्प्रत्य- मुख आसीनो होनुहस्ते दक्षिण इडायाः सकाशात् । स्पष्टमन्यत् । प्रकारमाह-

लेपादुपस्तृणाति ।

होतुः पाणाविडापात्रगतेनाऽऽज्यलेपेन स्वेण गृहीतेनोपस्तृणाति ।

स्वयꣳ होता मध्यतो द्विरादत्तेऽध्वर्युर्वाऽन्यतरत् ।

ततो होतेडापात्रात्स्वयमेव द्विरादत्तेऽथवाऽध्वर्युरेकमवदायापरं होताऽऽदत्ते विप- रीतं वा । इडापात्रमध्यात् ।

लेपेनाभिघारयति १

सष्टम् ।

उपह्वयते होता ।

.ख. ज, मसं° 1 २ क, ख, ग, च. छ. ट.. होता। ३. म, झ, भ, इ. ान चामि° २१० सत्याषाढविरचितं श्रौतसूत्रं- [रद्वितीयप्रश्ने-

होतृधर्मविधिर्याजुषत्वेन हौत्रे वक्ष्यमाणे युज्यते, बाहच्ये तु तदुक्त एव । इडां देवतामुपालानेनाभिमुखी करोतीत्यर्थः । अत्रेड एहीत्यादि याजमानम् ।

इडामुपहूयमानामध्वर्युराग्नीध्रः ।। ७ ।। यजमानश्चान्वारभन्ते ।

इडामिति पूर्वमुभयन्त्र संबध्यते । पात्रं हस्तेन स्पृष्ट्वाऽऽसते याबदुपहवसमाप्ति । यजमानोऽपरेणाऽऽहवनीयमुत्तरत आगत्य प्रदक्षिणमावृत्यान्वारभते । परिगणना ब्रह्मणो व्यावृत्त्यर्था, सूत्रान्तरे तस्याप्यन्वारम्मविधानात् ।

दैव्या अध्वर्यव उपहूता इत्युच्यमान उपहूतः पशुमानसानीति जपति ।

अध्वर्युनैपति तदधिकारात् । याजमाने यजमानस्य वक्ष्यति जपम् ।

उपहूतायामग्रेणाऽऽहवनीयं ब्रह्मणे प्राशित्रं परिहरति ।

पात्रेण सहाध्वर्युः प्राशित्रं प्राशिवावदानं पात्रेण नयति । पूर्व परिहरणं यदुक्तं भाष्यकारेणाव्यवायाय तत्सूत्रान्तराभिप्रायेण व्याख्येयम् । उपहूतायामिति साक्षा. दत्र कालविधानात् ।

तस्मिन्प्राशिते ।

ब्रह्मणा प्राशिवाख्येऽवदाने देवस्य त्वेत्यादिविधिना प्राशिते सति ।

इढाऽसि स्योनाऽसि स्योनकृत्सा नो रायस्पोषे सुप्र- जास्त्वेधाः। मुखस्य त्वा द्युम्नाय सुरभ्यास्यत्वाय त्वाऽ- श्नामीत्युपहूतामृत्विजः प्राश्नन्ति यजमानपञ्चमाः ।

उपहनाभिडां सर्वेऽपि चत्वारो यजमानः पञ्चमो येषां ते तथा । ब्रह्माऽप्यपर- णेत्य प्राश्नाति ।

वाग्यता भवन्त्यामार्जनात्

भक्षणप्रभृति सर्वे।

मनो ज्योतिर्ज्रुषतामित्यन्तर्वेदि पवित्रवति मार्जयन्ते ।

मादयन्तामिति मन्त्रान्तः । वेदेरन्तर्मध्येऽन्तर्वेदि तत्र स्थित्वा पवित्रमपिसृष्टं विद्यते यस्मिन्प्रस्तरेस पवित्रवास्तव समीपे स्थित्वेत्यर्थः । तत्समीपता बहिरपि स्थितस्य संभव ति तदर्थमन्तवेदीयुक्तम् । मार्जन मन्त्रान्ते शिरसि प्रोक्षणमाद्भिः । ततो यथेच्छ विसर्गः । ब्रह्मा यथेतमागत्य मार्जयित्वा स्वसदन आस्ते ।

आग्नेयं चतुर्धा विरुज्य बर्हिषदं करोति ।

आग्रेयं पुरोडाशं नाग्नीषोमीयं नैन्द्राग्नं वा न सांनाय्यम् । चतुर्धा. चतुर्भाग सर्वमपि विरुज्य मित्त्वा वहिप सीदतीति तथा । बहिःशब्दस्य षकारलोप छान्दसः । घ.ड,ज.स.ज. यजमानः पञ्चमः। . श्तृ०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २११ चतुर्थी कृत्वा बहिष स्थापयन्त्य(त्य,न्तिम भाग स्थूलम् । तत्र याजमानं बध्न पिन्व- स्वेत्यादि।

तस्मिन्नादिश्यमान इदं यजमानस्येति यजमानभागमादिशति ।

तस्मिन्निति चतुर्थी कृत आग्नेये यजमानेनेदं ब्रह्मण, इत्यादिनाऽऽदिश्यमानेऽध्वन र्युर्यजमानमागं पूर्वमवदाय ध्रुवासमीपे स्थितमादिशत्ययं यजमानस्येति । तस्मिन्ना- दिश्यमान इति वचनं यदि काललक्षणार्थं तदा यत्राऽऽग्नेयो वा तद्विकारो वा नास्ति विकृतौ तत्रापि चतुर्धाकरणाभावेऽपि केवलस्य यजमानभागस्यैव व्यादेशनमदृष्टार्थ यदा व्यादिश्यमानानामनेकत्वात्कालस्येति ज्ञातुमशक्यत्वाध्यादेशनं तदा तु केवले. यजमानमागे विकृती नास्त्येवाऽऽदेशनमिति दृष्टार्थत्य, तस्मिन्संभवति नास्त्य दृष्टक- रुपनेति भाष्यकृन्मतं तत्र पूर्वमेवाध्वर्युणा यजमानभागत्वेनावत्तत्त्वात्कथं संदेह इत्य- दृष्टार्थतव न्याय्येति व्युत्पादयन्त्यन्ये ।

आदिष्टस्य स्थविष्ठमग्रीधे षडवत्तꣳ संपादयति ।

यजमानेनान्तिमो भामः स्थूल एवाऽऽदेशनीयोऽग्नीधे तमेव षडवत्तं संपादयति । तदाह-

उपस्तीर्यावदायाभिघारयत्येवं पुनरवद्यति ।

कस्मिंश्चिच्चतुर्धाकरणिके पात्रे स्थाल्याज्येनोपस्तीर्याऽऽग्नीध्रमार्ग सकृदवदाया- भिधार्य पुनरुपस्तरणपूर्वकमभिधारणान्तं द्वितीय भागं सर्वमवद्यतीत्येवं षडवत्तं संपद्यत इत्यर्थः।

दिवो भागोऽस्यग्नेराग्नीध्रमस्यग्नेः शामित्रमस्यग्नेस्त्वाऽऽस्येन प्राश्नामि नमस्ते अस्तु मा मा हिꣳसीरित्याग्नीध्रः प्राश्नाति ।

स्वभामम् ।

वेदेन ब्रह्मयजमानभागौ परिहरति ।

पात्रसहितौ मागौ पृथवा पात्राभ्यामादायेत्यादि वैखानसः। परि परितो हरति प्रापयति हस्तेर्द्विकर्मकत्वात् । ब्रह्मयजमानयोः समापे स्थापयेदित्यर्थः ।

अन्येन पात्रेण होत्रेऽन्येनाध्वर्यवे ।

यैः पात्रैब्रह्मयजमानाग्नीधेभ्यः परिहा तेभ्योऽन्याभ्याम् । अध्वर्युरेवाध्वर्यचे परि. हरति ।

पृथिव्यै भागोऽसीति होता प्राश्नात्यन्तरिक्षस्य भागोऽसीत्यध्वर्युर्दिंवो भागोऽसीति ब्रह्मा ।

१ घ. इ. ज. स. म. द. स्मिन्व्यादि । २ घ. ङ. ज, झ, ञ, ढ, व्यादिष्टस्य । ३ च. पात्राहि । -- २१२ सत्याषाढ विरचितं श्रौतसूत्रं- " [ २ द्वितीयप्रभ-

सष्टम् ।

महानपरिमितोऽन्वाहार्यो दक्षिणाग्नावोदनः पक्वस्तमभिघार्यानभिघार्य वाऽन्तर्वेद्यासादयति ।

दक्षिणाग्नेः सकाशादुत्तरत आसादयति । महान्भूगासर्वत्विवपर्याप्त्यधिकः । अप- रिमितः प्रसृत्यादिभिस्तण्डुलान्परिगणितान्स्थाल्यां नाऽऽध्यात् । अन्वाहार्थनामको दक्षिणानौ पक्कः पूर्वमेवाधिश्रितः पक्कः । स्पष्टमन्यत् । नात्र तस्य भक्षणं तस्य परि- क्रयत्वेन दत्तस्य प्रतिपत्तिर्न यज्ञाङ्गम् । अत्र ब्रह्मले याजमाने ब्रह्मन्नित्यादि ।

दक्षिणसद्भ्य उपहर्तवा इति संप्रेष्यति ।

दक्षिणेसीबन्तीति तेभ्य ऋविम्य उपहरेति यजमान संप्रेष्यति तस्यैवोपहरण. लक्षणदानकर्तृत्वात् ।

दक्षिणत एतेति यजमानेनोच्यमाने यथासंप्रैषं कुर्वन्ति ।

दक्षिणत एतेत्य॒त्विजः संप्रेष्यति । यजमानेनोच्यमान ऋत्विनः प्रैषार्थ दक्षिणत आगमनमप्रेणाऽऽहवनीयं कुर्यः । यजमानो दक्षिणतः स्थितेभ्य ऋत्विाभ्यो ब्राह्मणा अयं व ओदन इत्योदनं व्युधृतं निर्दिशति । आनीघ्रो दक्षिणां प्रतिग्रहीष्यन्नित्या- दिना देवस्य त्वेत्यादि प्रतिगृह्णामि राजा त्वा व. ब्रह्मण जोदनं. १: प्रतिगृह्णा- त्विति प्रतिगृह्णाति । अथ तथैव ब्रह्मा होता स्वसूत्रानुसारेण । अथाध्वर्युरेतामेवाऽऽवृ. तमिति दर्शनाचतुर्धाकरणप्रदानकमोऽत्र द्रष्टव्यः ।

अन्वाहार्यं प्रतिगृह्य प्रत्यायन्ति ।

अन्याहार्यस्य स्वं भागं दक्षिणां प्रतिग्रहीष्यन्नित्यादिविधिः । क इदं कस्मा इति प्रत्येकं प्रतिग्रहमन्त्रेण प्रतिगृह्य प्रत्यायन्ति पुनरुत्तरत आगच्छन्ति । ब्रह्मा यथेत- मुत्तरत आगत्य दक्षिणतो गत्या विधिना प्रतिगृह्य तथैव गत्वा स्वासन उपविशति ।

हविःशेषानुद्वास्य ।

वेद्या बहिरुत्तरतः कृत्वा यथासंख्यं शेषान्बहुवचनं पर्वद्वयह विशेषाभिप्रायम् । अकृत उद्घासने कर्मोत्तरारम्भे ततं म आप इत्याहवनीये जुहोतीति सूत्रान्तरात् ।

अनूयाजार्थे उल्मुके अपिसृज्य ।

अग्नौ मेलयित्वोढे उल्मुके।

ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीत्परिधीꣳश्चाग्निं च सकृत्सकृत्संमृड्ढीति संप्रेष्यति ।

ब्राह्मणपाठन विकल्पोऽग्निमग्नीत्सकृत्सकरित्यनेन गतार्थम् ।

एषा ते अग्ने समित्तया वर्धस्व चाऽऽ च प्यायस्व । वर्धतां च ते यज्ञपतिरा च ४च पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २१३

प्यायताꣳ स्वाहेत्याग्नीध्रः समिधमाधायास्फ्यैरिध्मसंनहनैरपरिक्रामन्परिधीन्संमार्ष्टि मध्यममुदञ्चं प्राञ्चावितरौ ।

आयतन आधान न दर्विहोमोऽपूर्वोऽयं स्वाहान्तमन्त्राभावादग्नेः संस्कारोऽयमन्ग- 'नाङ्गः । प्रदक्षिणमपरिक्रामस्तत्रैव स्थित इत्यर्थः । गतार्थमन्यत् । एषा ते अन्न इति याजमानम् ।

अग्ने वाजजिद्वाजं त्वा ससृवाꣳसमिति मन्त्रꣳ संनमति ।

पठति । द्यायेति मन्त्रान्तः । अग्निसमार्गे पूर्व विनियुक्तो मन्त्रोऽत्रामितमार्गे सस- चासमिति पाठेनेत्यर्थः

यो भूतानामधिपती रुद्रस्तन्तिचरो युवा । पशूनस्माकं मा हिꣳसीरे- तदस्तु हुतं तव स्वाहेति संमार्गानभ्युक्ष्याऽऽहवनीये प्रहरति ।

आहवनीयग्रहणं पूर्वसंमार्गाणामितेषां गार्हपत्ये प्रहरणं मा भूदिति, उत्करादा- वपि मन्त्रो मा भूदिति च प्रयोजनम् । स्वाहान्तमन्त्राद्दानरूपता प्रतिपत्तिश्नोपयुक्त. त्वात् । भूतानामधिपती रुदो देवता । वेदिहिरिति याजमानं विशिष्टं न रौदभिति केचित्तत्रोदकोपस्पर्शनं नेति ते वरन्ति । प्रतिपत्त्यन्तरमाह-

उत्करे शालायां बलजायां वोदस्येत् ।

उत्करः प्रसिद्धः। शालायामग्निशालायाम् । तस्यामेव शालाग्नौ वेति केचित् । वलमा धान्याना राशिस्तत्र । भाष्यकारेण तु शालाऽत्र प्रविष्ट ननं गृहं, बलना तत्र पृष्ठवं. शस्योपरि बद्धानि'काष्ठानि तेष्वे(वित्ये)के, तेषां काष्ठानां बन्धनरज्जुस्तस्यामित्यन्ये [ इत्युक्तम् ।

परोगोष्ठं वा हरेत्परोगव्यूतिं वा । । ८ । ।

इति हिरण्यकेशिसूत्रे द्वितीयप्रश्ने तृतीयः पटलः ॥ ३ ॥

परो गोष्ठात्प्रदेशः परोगोष्ठस्तत्र, परोगव्यूतेर्वा देशस्तत्र वेत्यर्थः ॥ इति हिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोग- वैजयन्त्यां द्वितीयपने तृतीयः पटलः ॥ ३ ॥

2.4 अथ द्वितीयप्रश्ने चतुर्थः पटलः ।

महाहविरिति याजमाने-

१ घ. अ. ज. स. म. द. येऽनुष । २ ख. छ. ट. 'नि यानि का। ३ घ. ज. र. न, द. न्यूतिमिलेकषाम् । ४ का वेत्येकेषाम् । - २१४ . - सत्याषाढविरचितं श्रौतसूत्र- [ २ द्वितीयप्रने-

यदुपभृत्याज्यं तज्जुह्वामानीय तेन सकृदतिक्रान्तस्त्रीननूयाजान्यजति ।

व्याख्यातम् ।

देवान्यजेति प्रथममनूयाजꣳ संप्रेष्यति यज यजेत्युत्तरौ ।

अनूयाजसंप्रेषे प्राले देवान्यजेति बहुवचनेन प्रथमेऽनुयाजे होतारं संप्रेष्यतीत्यर्थः । काललक्षणेयं सर्वानुयानार्थमत्रैव संप्रेषप्रदर्शनार्थम् ! कथं, देवानिति त्रयाणां समान- देवताविशेषणेन निर्देशात्पुनः प्रेषः केवल एतद्योः ।

अग्रेणाऽऽघारसंभेदं पश्चात्पश्चात्समिधि जुहोति ।

अनूयाजसमिध्येव प्रथमं प्राग्भागे जुहोति । ततः पश्चाद्वितीयम् । अङ्गिरसो मेति याजमानम् । ततः पश्चात्समिध्येव तृतीयं त्रयोऽप्याघारसमैदात्प्राम्भाग एव । तत्र विशेषमाह-

प्राञ्चमुत्तमं दीर्घꣳ संततं तेनेतराननुसंभिनत्ति ।

इतरौ द्वितीयप्रथमौ तेन तृतीयेन तृतीयस्य होमधास्याऽनुसंमिनत्ति मध्येऽनुसंश्ले- षयेदित्यर्थः। स्पष्टमन्यत् ।

प्रत्याक्रम्य यथायतनꣳ स्रुचौ सादयित्वा ।

स्पष्टार्थम् ।

वाजवतीभ्यां व्यूहति ।

वाजवतीम्यामृग्म्यां व्यूहनपर्यन्तं करोतीत्यर्थः । तदेवाऽऽह--

वाजस्य मा प्रसवेनेति दक्षिणेनोत्तानेन सप्रस्तरां जुहूमुद्गृह्णात्यथा सपत्नाꣳ इन्द्रो म इति नीचा सव्येनोपभृतं निगृह्णात्युद्ग्राभं चेति जुहूमुद्गृह्णाति निग्राभं चेत्युपभृतं निगृह्णाति ब्रह्म देवा अवीवृधन्निति दक्षिणेनो- त्तानेन प्राचीं जुहूं प्रोहत्यथा सपत्नानिन्द्राग्नी म इति नीचा सव्येनोपभृतं प्रतीचीं बहिर्वेदि निरस्यति ।

प्रथमेऽर्धर्चे मन्त्री ततस्त्रयस्तावत एव मन्त्रा अथा सपत्नानित्यर्धमन्त्रः । दक्षिणेन हस्तेनोत्तानेनोपरितलेनाधस्ताज्जुहूप्रस्तरयोः कृतेन प्रस्तर आसादितां जुहूं प्रस्तरेण सहोर्ध्वमुन्नयति । नीचा हस्तेन वामेनोपभृतमुपरिष्टाद्धस्तं कृत्वा गृहीत्वा तां निग- हाति बर्हिषा श्लेषयति किंचिढमिव, पुनरपि तथैव क्रमेणोद्ग्राभं च निग्राभं चेत्ये. ताभ्याम् । प्राची जुहूं प्राची दिश प्रति प्रागनां प्रोहत्यतिवायति वेद्यामेव । बहिर्वेद्युपभूतमेव निरस्यति त्यजति । ४ च० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । .२१५

उपभृति मन्त्रान्तरमाह-

देवस्तꣳ सविता प्रतिनुदतु योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति वा ।

एताभ्यामेव याजमानम् ।

अभ्युक्ष्योपभृतमाहृत्य जुह्वा परिधीननक्ति ।

आहृत्य दक्षिणेनैवाऽऽज्यलेपवत्या जुह्वा ।

वसुभ्यस्त्वेति मध्यमꣳ रुद्रेभ्यस्त्वेति दक्षिणार्ध्यमादित्येभ्यस्त्वेत्युत्तरार्ध्यं वसुवनिरसि वसुधेयोऽसीति वा ।

एकेनेतिकरणेन विनियोगेऽपि पूर्वेषां मन्त्राणां क्रमेण त्रयाणामेते वैकल्पिका

मन्त्राः । स्पष्टमन्यत् । वसून्देवानित्यादि याजमानम् । रुद्रेभ्य इत्यत्रोभयोरुदकस्प- र्शन रौद्रत्वाविशेषान्नान्येषु रुद्रशब्दपर्यायकर्म विधानामानादिति वदन्ति । तन्न । रुद्रदेवते कर्मण्येवैवम् । अयं तु परिधिसंस्कार एवेत्यतो नोदकस्पर्श इति ज्ञेयम् ।

अन्यत्र प्रस्तराज्जुहूꣳ सादयित्वा संजानाथां द्यावा पृथिवी मित्रावरुणौ त्वा वृष्ट्याऽवतामिति विधृतीभ्यां प्रस्तरꣳ समुल्लिप्य बर्हिषि विधृती अपिसृज्य ।

विधृतीभ्यां सह प्रस्तरं समुल्लिप्योदू * लिप्य समुत्खाय विधृती अवधाय ।

स्रुक्षु प्रस्तरमनक्त्यक्तꣳ रिहाणा इति जुह्वामग्राणि वियन्तु वय इत्युपभृति मध्यानि प्रजां योनिमिति ध्रुवायां मूलानि ।

मा निर्मुक्षमिति तृतीयस्यान्तः ।

एवं पुनरनक्ति ।

अनक्तीति पूर्वेणापि संबध्यते ।

तृतीये ध्रुवायामादितो मूलान्युपभृति मध्यानि जुह्वामन्ततोऽग्राणि ।

विपरीतं तृतीयपक्ष इत्येव वक्तव्ये गुरुनिर्देशेन यावनिर्दिष्ट तावदेव विपरीत मन्त्रास्तु ये यत्रोक्तास्ते तथैव प्रथमवदिति दर्शितम् । अग्रमध्यमूलानि प्रस्तरस्य । समक्तामिति याजमानम् ।

दिव्यङ्क्ष्वान्तरिक्षेऽङ्क्ष्व पृथिव्यामङ्क्ष्वेति वा ।

अक्त रिहाणा एतेषामेते वैकल्पिकाः।

आयुषे त्वेत्यक्तस्य तृणमपादाय प्रज्ञातं निधाय ।

अक्तस्य प्रस्तरस्यैकां दर्भनाडी मन्त्रेणाऽऽदाय तूप्णी प्रज्ञातं निदधाति । प्रज्ञातमिति चलेनोत्तरकाथि स्थापयतीत्यर्थः ।

प्रस्तरꣳ शाखां चाऽऽदाय ।


  • लिप्त्वेत्सपेक्षितम् । २१६

सत्याषाढविरचितं श्रौतसूत्रं- [२ वितीयप्रश्ने-

दर्श संनयतो विषये शाखामित्युक्तं न तु काचिदपूर्वा शाखा विधीयते प्रस्तरेण सह प्रतिपत्त्यर्थ दोहशाखाया एव प्रत्यभिज्ञानात् । शाखापवित्रं न तस्य पवित्रस्थान्या प्रतिपत्तिरस्ति ।

उत्तरं परिधिसंधिमन्ववहृत्य ।

प्रवेशयित्वा प्रस्तरं यद्यस्ति शाखा तया सहेत्यर्थः । ततः कृत्यमाह-

आश्राव्य प्रत्याश्राविते ।। ९ ।।

नात्र दक्षिणातिक्रमो याज्यास्वेव तथा विधानात् । उपविश्यैवाऽऽश्राव्य आसीन इति वैखानसोक्तरुत्करस्थेनैवाग्नीधा प्रत्याश्नाविते, तस्य प्रत्याश्रावणं प्रवरादन्यत्रोत्कर एवेत्युक्तम् ।

इषिता दैव्या होतारो भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहीति संप्रेष्यति सूक्तवाकꣳ होता प्रतिपद्यते ।

प्रतिपद्यते प्रारभते । तत्र मध्येऽध्वयों)तृकर्मणा संबन्धनार्थ होतेत्युक्तम् । भपिडिति याजमानम् ।

आप्यायन्तामाप ओषधय इत्यध्वर्युः प्रस्तरꣳ शाखां चानु प्रहरति ।

अनुलक्षाकृत्य सूक्तवाकम् । सत्यां शाखायां तां च । अध्वर्युग्रहणं होतेत्यनुवृ. त्तिर्मा भूदितिप्रदर्शनार्थम् । मेरयेति मन्त्रान्तः । अत्र जैमिनिमतं सूक्तवाक आज्य. भागादिभिरिष्टदेवताः समवेता यथापाठमिति, तथा सूक्तवाकेन प्रस्तरं प्रहरतीति तृतीया कारकविभक्तिः प्रस्तरप्रहरण प्रत्यङ्गत्वमावेदयति । दृष्टद्वाराऽङ्गत्वे मन्त्राणा- मेवं स्थिते सूक्तवाकेन प्रस्तरप्रहरणं प्रकाश्यमेकवाक्यत्वार्थ च देवताप्रस्तरप्रहर. संबन्धोऽपि प्रकाश्यः । स तु विना हो याग वा न भवति । प्रकृते तयोरभवणा- त्प्रहरतिरेव यागं लक्षयेत्स्वार्थात्यागेनैव निर्वपतिरिव । ततस्तु प्रहरणमुपयुक्तप्रस्त- रस्य प्रतिपत्तिरनमितयागस्य चाङ्गयागः सूक्तयाकसाधनकः । अजहलक्षणानिहाय प्रहरतिरपि निर्वपतिवद्यागस्याङ्ग, प्रस्तरस्य संप्रदेयस्य द्रव्यस्याग्नाववस्थापन निर्वा- पमिवाऽऽह । तत्र प्रहरणे प्रतिपत्तिलक्षणे सहभावः शाखायाः सह शाखया प्रस्तरं प्रहरतीति प्रहरणं प्रतिपत्तियथोपयुक्तस्य प्रस्तरस्येवोपयुक्तायाः शाखाया अपीति ना. संनयतोऽपि शाखाग्रहणमिति तृतीयचतुर्थषष्ठाध्यायेषु प्रमेयं निष्पन्नं तात्पर्येण प्रदर्शितम् । तत्र न स्वाहाकार इति वदत्यापस्तम्बः । तमप्रसक्तप्रतिषेधमाशङ्य व्याख्यातारो भूषणं बभूवुः । यज्जैमिनिमतेन प्राप्तिमाशयोक्तवानिति, तदतिमन्दम् । जैमिनिमतमेवानेनोपहितम् । कथं, सूक्तता केन निष्पन्नस्य यागस्य शेषभूतेयं न प्रतिपत्तिः । येन मन्त्रेण स्वाहाकारान्तेन प्रहरणं स्यात्, किंतु पूर्वभाव्यङ्गं यागी४च०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २१७

यस्य द्रव्यस्य निर्वापवदिति, तेन न स्वाहाकारः । ततस्तु जातवेदो वपयेत्यत्र स्वाहा- कारः सिद्धस्तन्मतेन । अस्मदाचार्यमते तु दविहोमेष्वेव स्वाहाकारों नान्यत्रेति । मन्त्रवर्णस्तु यागद्व्यत्वेन दिवं गच्छ वृष्टिं प्रेरय तत ओषधय आप्यायन्तामिति स्तुतिः । भगवता हिरण्यकेशिना स्वाशङ्काऽपि न कृता म परिहारः । स्प प्रहरी तिवत्प्रहरतेरुक्तप्रकारेण स्वार्थमात्रपरत्वान्न प्रस्तरप्रहरणं होमोऽतोऽ. स्वाहाकार एव मन्त्र इति सिद्धम् । यद्यपि जैमिनिमतमाश्रित्य भाष्यकृतोक्तं स्वाहाकारान्तो मन्त्र इति तदपि चिन्त्यम् । कथं जैमिनिमतेऽप्येतस्मिन्मन्ने स्वाहाकारः प्रहरणार्थे सूक्तवाके न हि देवताभ्यो दानरूपो यागो भवति, न तु पूर्वकृता प्रस्तर- प्रतिपत्तिरपि यागोऽन्यथा शाखाप्रहरणमपि यागः स्यात्तेनैव मन्त्रेण स्वाहाकारानोन कृतत्वान्न च शाखायागसंबन्धो जैमिनेरिष्ट आशङ्य साक्षात्प्रतिषिद्धत्वात् । अतो माष्यकारेण किमवलम्ब्योक्तं स्वाहाकारान्तो मन्त्र इति नास्महुद्धिगोचरः । तस्मात्सूक्तवाक इष्टदेवतास्मारक इष्टानामाज्य भागादिदेवतानां स्विष्ट कृदन्तानां संस्कारजनको दृष्टार्थों यागार्थत्वेनादृष्टार्थ इति सिन्छम् । शंयुवाकातु केवलादृष्टार्थ एव कर्मसमवेतार्थप्रकाशत्वामावादारादुपकारकस्तोत्रशस्त्रवदिति । प्रहरणे मन्त्रान्तरमाह-

अक्तं देवानाꣳ रिहन्तु रिहाव्यन्तु वयाꣳसि वशा पृश्निर्भूत्वा दिवं गच्छेति वा ।

तत्र प्रहरणे विशेषमाह-

नात्यग्रमनुदग्रमप्रतिशृणन्नग्रमजिह्ममिव हस्तं धारयन् ।

अजिह्ममिवेषडर्नु हस्तं धारयन्कुर्वन्प्रहरतीनि संबन्धः पूर्वेणैव । नात्यग्रमग्निमति- कान्तमग्रं यस्य प्रस्तरस्य न भवति स नात्यग्रस्त त दृशं प्रहरेत् । तथाऽ दामनू . अमनुदग्दिगग्रे च प्राञ्चं प्रहरतीति फलति । तथाऽप्रतिशृणन्नग्रं न प्रतिशृणन् । शृ पाके । अग्रमप्रभागमङ्गारेषु न प्रतिशृणन्न भर्जयन् । तथा चापरीव प्रहरनीत्युक्तम् । वैखानसेन तु- 'ऊर्ध्वमुद्यौति कर्षन्निव न्यश्चमन्ततः पर्यावर्तयति । इत्युक्तम् ।

कर्षन्निव न्यञ्चमन्ततः पर्यावर्तयति ।

अर्ध्वमुद्यम्य ततो न्यञ्चमोऽध आनीयाधरोत्तरावयवभावेनान्तत आयतने पर्या. वर्तयति घटीयन्त्रबभ्रामयतीत्यर्थः । एमा अग्मन्निति याजमानम् । अग्निरिदमित्यादि. पूजिताय नमानो जपति अग्नेरहमुग्जिातमित्याद्या देवतानिर्देशोऽग्नय इदमित्यादि यागदेवता इत्युक्तमेव । १ क. ग. ल. ठं वृष्टिनरयेति ओ'। २. ५ २१८ सत्याषाढविरचितं श्रौतसूत्र- [२द्वितीयप्रश्ने-

आशास्तेऽयं यजमानोऽसावित्युच्यमानेऽपिसृज्य प्रस्तरमग्नीद्गमयेति संप्रेष्यति।

आशास्त इति होत्रोच्यमाने संप्रेष्यत्यग्नोधम् ।

त्रिरञ्जलिनाऽऽग्नीध्रः प्रस्तरमूर्ध्वꣳ समुद्यौति ।

त्रिरुक्षिपत्यञ्जलिना प्रस्तरमायतन एव । रोहितनेत्यादि याजमानम् । ततो विसृजत्याग्नीध्रः प्रस्तरमायतने ।

अनुप्रहरेति संप्रेष्यति स्वगातनुभ्यः स्वाहेति प्रस्तरस्य तृणमपात्तमाग्नीध्रोऽनुप्रहरति ।

अपात्तमपाकृत्य प्रज्ञातं स्थापितम् । स्वगातनुभ्य इदं दिवः खोल इति याजमा- नम् । प्रस्तरं लक्षीकृत्य प्रहरत्यनुप्रहरति ।

एतदेतदिति त्रिरङ्गुल्याऽन्ववदिशति।

तत्तृणं प्रहृतं तन्याऽध्वर्युराग्नीधमनुलक्षीकृत्यान्ववदिशति कथयति । सकृन्मन्त्र इति न्याय्यम् ।

आयुष्पा अग्नेऽस्यायुर्मे पाहीति यथा रूपं प्राणायतनानि संमृशति ।

प्राणा इन्द्रियाणि तेषामायतनानि स्थानानि | आयुष्पा इति नासारन्ध्र सकृन्मन्त्रः । संमृशति चक्षुष्पा इत्यनेन सकृच्चक्षुषी । इदमेव यथारूपं यथालिङ्गमित्युक्तम् ।

ध्रुवाऽसीतीमामभिमृशति ।

इमां पृथ्वीम् । अन्तर्वेदीत्यापस्तम्बः ।

संवदस्वेत्याग्नीध्रः संप्रेष्यति ।

मया सह संवादं कुरु इति संप्रेष्यत्यध्वर्युम् ।

अगा३नग्नीदित्यध्वर्युराह ।

आग्नीधे प्रत्याह । अगानगच्छतिक प्रस्तरोऽग्निम् । एवमध्वर्युणा पृष्टे-

अगन्नित्याग्नीध्रः ।

आह । गतः प्रस्तरोऽग्निमित्यर्थः ।

श्रावयेत्यध्वर्युः श्रौषडित्याग्नीध्रः ।

पष्टम् ।

१ क, ग्व. ग. च. छ. ट. 3. “मान इत्य' । २ क, ख, ग, च. छ. स. उ. नेऽमी' । ३ के. ख, ग. छ, न.ट,, तदि। ४च० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २१९

मध्यमं परिधिमन्वारभ्य स्वगादैव्या होतृभ्यः स्वस्तिर्मानुषेभ्यः शंयोर्ब्रूहीति संप्रेष्यति ।

होतारमित्यर्थः ।

शंयुवाक्ꣳ होता प्रतिपद्यते ।

आरभते । विष्णोः शंयोरिति याजमानम् । स्पष्टम् ।

अध्वर्युः परिधीननुप्रहरति ।

कथं तत्राऽऽह-

यं परिधिमिति मध्यमम् ।

चेतयाता इति मन्त्रान्तो न स्वाहाकारः ।

यज्ञस्य पाथ उपसमितमितीतरौ ।

दक्षिणोत्तरौ । द्विवचनमितमिति मन्त्रे दृश्यतेऽतो युगपदेवानु महरति । तयोर्विशेषमाह-

अवाञ्चमुत्तरस्याग्रमङ्गारेषूपोहति ।

अवाञ्चमिति विशेषणमग्रशब्दं पुंलिङ्गं मन्यमानेनोक्तम् । मध्यमस्याधस्तादुत्तर स्याग्रमङ्गारेषूपोहति प्रवेशयति दक्षिणाय(गस्याग्र) पुपरीत्यर्थात् । तथोक्तं वैखानसेन-दक्षिणोत्तरौ परिधी युगपत्पाणिभ्यां प्रहरन्नुत्तरस्याग्रं मध्यमस्याधोऽङ्गा. रेषूपोहति दक्षिणस्याग्रमुपरि.' इति । वि ते मुञ्चामीति याजमानम् ।

यजमानं प्रथतेति सर्वाननुमन्त्रयते ।

परिधीनिति शेषः । अत्रापि दृष्टे संभवत्यदृष्टकल्पना न न्याय्येति । शंयुवाकः स्यापि शंयोर्वाक इत्याहुतीनामेकविंशतो गणना । विष्णोः शंयोरहं देवयज्ययेति तथा शंयुमेव बार्हस्यत्यं भागधेयेन समर्धयतीति तथा जोर्ष भरामीति तथा यज्ञस्य पाथ इति च लिङ्गैर्यागरूपता ज्ञेया । सूत्रमपि सूक्तवाकवदन योज्यम् । विष्णुरूपः शंयुदेवतेति केचिदाहुः । तन्न । सूक्तवाकेन प्रस्तरं प्रहरतीतिवच्छंयुवाके विनियोगा. भावान्न परिधिप्रहरणे यागता । लिङ्गास्तावकत्वेन न श्रुतिकल्पकत्वम् । तस्माच्छं. युवाकस्योत्कर्षेऽपि यथास्थानमत्रैव परिधिप्रहरणं कार्यम् ।

जुह्वा बिल उपभृतोऽग्रमवधाय सꣳस्रावभागाः स्थेति स्रुचौ प्रस्रावयति ।

विद्यमानलेपानग्नौ पातयतीत्यर्थः । तदाह वैखानसः- 'चोराज्यशेषमग्नौ स५.

१ क, ख. ग. च. छ. ट. ठ. 'राध्यस्या । २ घ. ज. 'लमुप' । ३ घ. इ. ज. झ. अ.द. भागा इति । २२० सत्याषाढविरचितं श्रौतसूत्र- [२द्वितीयप्रश्ने-

सावयति ' इति । मादयध्वमिति मन्त्रान्तः । अत्र द्रव्यदेवतासंबन्धः प्रतीयते । स च दानेन बिना नान्यः संभवतीति दानार्थे यमतिर्वा जुहोतिर्वा प्रयोक्तव्य इति प्राप्ते संस्त्रावशब्देन प्रक्षेपावगतेजुहोतिरनुमेयः । तथा च ब्राह्मणे-' सस्रावभागाः स्थेत्याह । वस वै रुद्रा आदित्याः सत्रावभागाः ' इत्यादिना द्रव्यदेवता- संबन्धस्य विधानाच्च जुहोत्यनुमानम् । अत एवाहाऽऽपस्तम्बः- सनावेणाभि. जुहोति' इति । बौधायनोऽपि तथैत्रोक्त्वा स्वाहाकारान्तं मन्त्रं च पठति । तस्माच्छेष- 1 प्रतिपत्तिरूपत्वेऽपि देवतामुद्दिश्य दानरूपे होमे गुणभावाव्यस्यास्ति दविहोमतेति स्वाहाकारेण होतव्यम् । इष्टो यज्ञ इति याजमानम् ।

उक्ते शंयुवाके हविःशेषान्प्राश्नन्ति ।

पुरोडाशमानाय्यानां हविषां विनियुक्तादवशिष्टान्भक्षयन्ति । पुरुषार्थत्वात्सर्वेऽपि ननु तुषोपवापवत्परार्थान्येके न क्रियेरन्निति न्यायः प्रवर्तते । यजमानस्यापि शेषभक्षण- मस्त्येव संस्कारत्वान्नापि सूत्रान्तर इवात्रत्विजामित्युक्तम् ।

आज्यलेपान्प्रक्षाल्य ।। १० ।।

नुक्वगतानाज्यलेपान्ध्रुवावर्ग, लेपो हि प्रयोजनार्थ गृहीतस्य पात्रे किंचिल्लनः शेषः । स धुवायां न संभवतीति न तस्याः क्षालनम् ।

इति सत्यापाढहिरण्यकशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगजयन्यां द्वितीयप्रश्ने चतुर्थः पटलः ।। ४ ।।


2.5 अथ द्वितीयप्रश्ने पञ्चमः पटलः ।

जुहूपभृतावध्वर्युरादत्ते वेदꣳ होता सस्रुवामाज्यस्थालीमाग्नीध्रः प्रत्यञ्चो यन्ति पत्नीः संयाजयिष्यन्तः ।

पत्नीरिति नामध्यैकदेशेन लिङ्ग समवायेन वा पत्नी संयाना एवं गृहीता न देव-- पत्नीमात्रम् । चत्वारः पत्नीसयाना इति नामधेय स्पष्टमेव चतुर्णा वाचकम् । अनि- यमनिवारणार्थमध्वर्युरित्या युक्तम् । वेदोऽसीति यानमानम् । प्रत्यञ्चो यन्ति प्रदक्षिण- मावृत्य पत्नीः संयोजयितुमित्यर्थः । एवं प्रतिज्ञामाह-

दक्षिणेन गार्हपत्यपत्यमध्वर्युरतिक्रामत्युत्तरेणेतरौ ।

अग्रेण गार्हपत्यं गत्वा प्रदक्षिणमावृत्याध्वर्युदक्षिणेन भागेन गार्हपत्यमतीत्य पश्चा- स्क्रामतीत्यर्थः । उत्तरेणेतरी होत्राग्नीधौ । 6 , ५५०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २२१

अग्नेर्वामपन्नगृहस्य सदसि सादयामीति कस्तम्भ्याꣳ स्रुचौ सादयति ।

शकटस्य कस्तम्भी यत्र युगनेषे बध्येते स प्रदेशो मध्यं युगस्य । कप्त्य शकटस्य स्तम्भी स्तम्भ्यतेऽनया सा तेन प्रदेशेन शकटमुत्तभ्यते धुर्याभ्याम् । ' यदि पाव्या निर्वपत्येतेनैव स्फ्ये विमुच्य ' इति वैखानसः । धत्तमिति मन्त्रान्तः ।

धुरि धुर्यौ पातमिति धुरोः प्रोहति प्रोहणमेके पूर्वꣳ समामनन्ति ।

सुचौ युगस्य धुरोर्बलीवर्दस्कन्धोपरि निधीयमानयोयुगप्रवेशयोधुरोरुपरि प्रोहति प्रागग्रे प्रवाहयतीत्यर्थः । तदिदं प्रोहणं कस्तम्भ्याप्तादनात्पूर्वमेके शाखिनः पठन्ति ततो विकल्पः पौर्वापर्ये । पाच्यामापस्तम्बेनानुग्रह उक्तः- यदि पाव्यां निवपेदाभ्यां यजुभ्यां स्फो स्वचौ सा येत् ' इति । अग्नेर्वामिति धुरि धुौँ पातमिति द्वाभ्यामपि सादनमेव न प्रोहणं भिन्नमस्तीत्यर्थः । शकटस्य स्फ्यो वाचनिकः प्रतिनिधिस्तेन न स्पये धुरि धुर्यों पातमिति लिङ्गवि. रोधान्मन्त्रलोपः, प्रतिनिधौ नोहो नापि शब्दविपर्यय इति न्यायसिद्धमित्याह-

स्फ्ये वा निर्वपति स्फ्ये विमुच्य ।

मन्त्रद्वयेनेत्ययमथों गम्यते । स एवाऽऽपस्तम्बेनोक्तो दर्शितः ।

विमुक्ताभ्यामपरेण गार्हपत्यमुपविश्य ध्वानेनैव स्रुग्भ्यां पत्नीः संयाजयन्ति ।

विमुक्ताभ्यां मुग्भ्यामिति संबन्धः । ननु विमुक्तयोरेव प्रकृनत्वात्तथा प्रयमं जुहू. पभृताव पुरादत्त इत्यु क्तत्वाच्च किमर्थं विमुक्ताभ्यामित्युक्तमिति चेत् । उच्यते-सूत्रा- न्तरे युग्म्यां सह प्रत्यञ्चो यन्ति पत्नीः संयाजयिष्यन्त इत्युक्त्वा तयोरेवाग्नेर्वामित्या. दिसंस्कारमुक्त्वा पुनरपि त्रुग्भ्यां यन्तीत्युक्तम् । स्पये स्रुचौ सादयेत्स्त्रुग्भ्यां नुवाभ्यां वा पत्नीः सयाजयन्तीत्युक्तं तत्रापूर्वे सुचावित्येव तथाऽपूर्वावेव स्त्रुवाविति व्याख्यातं, पूर्वयोः सादनमात्रार्थमानयनमित्यपि तत्र व्याख्यातम् । तथा वैखानसेनाप्युक्तम्- अपरेण गार्हपत्यमुपविश्योपांशूच्चैर्वा स्नुग्भ्यां पत्नीः संयाजयन्ति ' इति । तत्राप्य- पूर्वाभ्यामित्येव तत्स्वस्य नेष्टमिति विमुक्ताम्यामित्युक्तम् । सुग्भ्यामिति च विशेष्यत्वेन पुननिःशः सक्नु नाम्यां वा मा भूदिति आपस्तम्बोक्तमिव । उपविश्येति तिष्ठद्धोम- निवृत्त्यर्थ मध्वर्योराग्नीधस्य चाऽऽश्रावणमुत्करे तिष्ठतो मा भूद्यथा वैखानसमतेन दक्षि.

१ क. ग. च. छ. ट. ठ. प्रत्याम्रायत्बेन । २ क. ग. च. छ. ट, ठ. ढ. भ्य। गाई- पत्ये प। 6 २२२ : सत्याषाढविरचितं श्रौतसूत्रं- [ २द्वितीयप्रश्चे- णेऽध्वर्युरुत्कर आग्नं धो मध्ये होतेत्युक्तम् । त्रयाणामपि पश्चागार्हपत्यस्योपवेशनेन याजने वक्तुमुपविश्य याजयन्तीति च बहुवचनं प्रयुक्तम् । पत्नीरिति पत्नीसंयाजा- नामितिनामधेयानुसारण पत्नीशब्देन सर्वा देवता गृह्यन्ते देवपत्नीसहभावात् । अत एव केवलग्रहणाय देवानां पत्नीरिति वदिष्यति । ध्वानेन स्वरेण त्रयो ये याज्यानुवाक्ये होतुरमुष्मै बृहीत्याद्यध्वर्यारस्तु श्रौषडित्य नीवस्य ध्वाननैव गम्यन्ते । तत्र होतुरुचैःस्वर एव ऋग्वेदविहितत्वात् । अन्ययोरुपांशु यजुर्वेद विहितत्वात् । तयोः पुनरन्यत्राऽऽश्रुतप्रत्याश्रुतेभ्य इति प्रतिप्रसवात्पुनरुचैरेव प्राप्तिस्तनिवारणमनेन क्रियते । यद्यपि सामर्थ्यात्परप्रत्यायनार्थानां बहीत्यादिवषडन्तानां नोपांशता संभा- व्यते तथाऽपि वानेनापि पर प्रत्यायनं भवेदिति तत्रापि ध्वान एव । ध्वानो हि खर- व्यञ्जनयोः पृथगनुपलब्धिर्वान इति लक्षितत्वात् । एवकारेण परप्रत्यायनार्थानामपी- त्युक्तम् । अथवा बहुवचनेनैव तदृक्तमेवकारेण सूत्रान्तरोक्तेनोपांशूच्चैःस्वरेण विकल्पो मा भूदिति । वैखानस उपांशूच्चैर्वेत्याह । ध्वानेनोपांशु वेत्यापस्तम्बः । अत्राऽऽज्यमेव द्रव्यमनादेश आज्यमिति बैधायनोक्तम् । महीनां पयोऽसीति निर्वपामि देवयज्याया इति मन्त्रलिङ्गात्सर्वार्थत्वेन निर्वापाच्च । यद्यपि सर्वस्मै वा एतयज्ञाय गृह्यते यद्धृवायामाज्यमित्यपि श्रूयते तथाऽपि वेद्यां गृहीतं न पश्चान्नयन्तीति प्रतिषे. धाभिप्रायेणोक्तं गार्हपत्य आज्यार्थान्स्थाल्या आज्येनेति । तानि सर्वाणि चतुही- तान्येव यागार्थत्वात् । याज्यापुरोनुवाक्यावतीषु चतुरवत्तं पञ्चावत्तं जमदग्नीनामिति परिभाषितत्वादत्रैव । यागधर्मा अपि पत्नीसंयाजेषु च याज्यारोनुवाक्ये इत्युक्तम् । तथाऽऽश्रुतप्रत्याश्रुते याज्यासंप्रेषश्चेति तथा पुरोनुवाक्यामवदास्यन्नवत्ते वा संप्रेष्य- त्यमुष्मा अनुब्रूहीति तत्सर्वमनुसंधेयमिति तूष्णीमत्र याजयन्तीत्युक्तम् ।

वेदं चोपभृत्य पत्न्यामन्वारब्धायामुत्तरार्धे सोमं यजति दक्षिणार्धे त्वष्टारं तावन्तरेणेतरा यजति ।

यजतीत्येतदनूयाजेषु व्याख्यातम् । वेदं चेत्यूपभृता समुच्चयार्थश्वकारः स्पष्ट मन्यत् ।

परिश्रितेऽपरिश्रिते वा देवानां पत्नीर्यजति ।

सूत्रान्तरोक्तनियमव्युदासायानियम उक्तः । परिश्रितमावृतं व्यवहितमाहवनीया- त्तयैवाऽऽपस्तम्बोक्तः । अन्यथा त्वपरिचितम् । देवानां पत्नोरिति सोपपदेन सर्वपत्नी- संयानदेवतानिवृत्तिः । न तु लिङ्गसमवायेन सर्वासामपि नामधयम् । पत्नीसयाना इति । १. ग. च. छ. ट. ट..गम्यते । ३ ख. ट. 'थगुप। ख. र. विनिर्वा । प.क. ज.म. म. क. 'ते दें। ५५. पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २२३ सर्वयागाणां नामधेयं पत्नीभिः सममिज्यन्ते ते पत्नसिंयाजा इति । तस्मिन्सति पुनर्ग्रहणान्नोपलक्षणम् । न चायं नामैकदेशो देवानामित्यधिकत्वात् । देवानां पत्नीरिति पुनर्ग्रहणादेकैव तच्छब्दवाच्या बहुवचनप्रतिपाद्या ।

अपरिश्रिते राकां पुत्रकामो यजेत सिनी वालीं पशुकामः कुहूं पुष्टिकामः ।

अपरिश्रित इति सर्वत्र । एतत्कामो यक्ष्य इति संकल्पिते यजमानेनेत्युक्तम् । अध्वर्युर्यजति प्रकृतौ काम्याः ।

पुरस्ताद्देवानां पत्नीभ्यो राकासिनीवाल्यावेके समामनन्ति ।

नित्यत्वेनवास्मिन्पक्षे ते विकृतावपि भवतः । सोमायानब्रूहि, आश्रावय, अस्तु श्रौषट् । सोमं यज, वषट्कारेण सह वषट्कृते वोक्तस्थाने जुहोति, सोमाय सोमस्या- हमिति याजमानम् । एवं त्वष्टादिषु ज्ञेयं याजमानं च । यदा देवानां पत्नीरनिं गृहपतिं चाव्यवधानेन तदा देवानां पत्नीरग्निहपतिरिति याजमानम् ।

अग्निं गृहपतिमिष्ट्वा संपत्नी पत्या सुकृतेन गच्छतां यज्ञस्य युक्तौ धुर्यावभूताम् । संजानानौ विजहताम- रातीर्दिवि ज्योतिरजरमारभेतामिति स्रुवेण गार्ह- पत्ये संपत्नीयं जुहोति पत्न्यां समन्वारब्धायाम् ।

जुहोतिना चोदितत्वात्स्वाहान्तो मन्त्रः । समन्वारब्धायां यजतीति पूर्वमुक्तं तद्यागे. येव तदर्थ पुनोमे विधानम् । मुग्भ्यामित्यधिकारस्तु यागार्थ एव । समाख्यया जुहूप्राप्तौ सुवेणेत्युक्तम् । गार्हपत्यग्रहणमाहवनीयस्य समाख्याप्राप्तस्य निवृत्त्यर्थम् । तेन तिष्ठद्धोमत्वमपि जुलाऽऽहवनीय इतिसमवायि निवृत्तम् । संपत्नीयनामकं होमम् । नामान्तरत्वाच्चतुर्योऽधिकत्वादयागत्वाच्च पत्नीसंयाजव्यतिरिक्तत्वं, नापि तदङ्गं प्रमाणाभावात्पृथग्गार्हपत्याग्निविधानाच्च । परार्थान्यकेनेति पत्न्यन्वारम्भस्याध्वर्यु. संस्कारत्वादेकयाऽन्वारम्भो बहुपत्नीकस्य । अनालम्भुकत्वादिनाऽनिहितायामन्ये- नान्वारम्भो भवत्येव यजमानेनाग्नीधा वा, पत्नीसंस्काराणामेव लोपस्य परिभाषितत्वात् । अत एव न संपत्नीयस्य लोपः । ज्योतिर्देवता ।

होतुरङ्गुलिपर्वणी अनक्त्यपरमङ्क्त्वाऽथ पूर्वमितरथा वा ।

१ घ. ङ. ज. झ. न. ढ. ते वा रा । २ ख. घ. ङ. ज. झ न. ढ, तार स्वाहेति । ३ ख. घ. ङ. ज. झ. अ. द. पत्न्याम' | ४ क. ग. च. छ. 2. ठ, समाख्याऽपि निवृत्ता । सं° । ५ क. ग. च, छ. ठ. 'न्तराच्च। २२४ सत्याषादविरचितं श्रौतसूत्र- [२द्वितीयप्रश्ने-

द्वितीयमङ्गत्वा ततः प्रथम विपरीतमितरथा ।

तत्सोऽवघ्राय

स होता।

अप उपस्पृशति ।

श्रौतमुपस्पर्शनम् ।

दक्षिणे होतुः पाणौ चतुर आज्यबिन्दूनिडामवद्यति ।

वामे विडावदान, दक्षिणेनान्वारम्भो मा भूदिति दक्षिण इत्युक्तम् ।

षडग्नीधः।

दक्षिणे पाणावित्येवेडापविन्दूनवद्यति ।

उपह्वयते होता।

इडाद्वयमपि लक्षयित्वा सेडौ हस्तावेकत्र कुरुतः । होतेत्यध्वयरधिकृतो मा भूदिति ।

इडामुपहूयमानामध्वर्युराग्नीध्रः ।। ११ ।। पत्नी चान्वारभन्ते ।

सष्टम् ।

उपहूतेयं यजमानेत्युच्यमान उपहूता पशुमत्यसानीति जपति ।

लिङ्गात्पत्न्येव । अयं पाठो याजुषहौत्रानुसारेण बाबुच्य तूपडूतोऽयं यजमान इत्येव, सदा यजमान एव जपति पूर्ववत् । दैव्या अध्वर्यव इत्युच्यमाने पूर्ववदध्वयु. रुपहूतः पशमानसानाति जपति । द्विविधेऽपि हौत्रे जपत्येव परिगणनया यजमान- स्यान्वारम्भव्यावृत्तिः । तेनान्वारम्भाभावायजमानस्य जपोऽपि नास्तीडामाहिय- माणामित्यपि चाऽऽहियमाणत्वाभावात् । इडास्मानित्येव याजमानं परस्य परिसं- ख्यायं च ।

उपहूतां प्राश्नाति होता ।

वैखानसेनोक्तमृतिवनः प्रानन्तीति तदवोर्मा भूदिति होते.त्युक्तम् ।। तूषणोमेव ।

उपहूतो द्यौः पितोप मां द्यौः पिता ह्वयतामग्निराग्नीध्रादायुषे वर्चसे जीवात्वै पुण्यायेत्याग्नीध्रः प्राश्नात्युप हूता पृथिवी मातोप मां माता पृथिवी ह्वयतामग्नि- राग्नीध्रादायुषे वर्चसे जीवात्वै पुण्यायेति वा ।

क. ग. च. छ. उ. उ. होसपा । ५५०पटलः ] महादेवकृतवैजयन्तीव्यास्यासमेतम् । २२५

द्वावाग्नीध्रस्य वैकल्पिको।

प्राश्य तूष्णीं मार्जयते ।

भाग्नीध्र इत्यनुवृत्तेः । होतुहॊत्र एव विधिज्ञेयः ।

इडान्तꣳ शंय्वन्तं वा ।

गार्हपत्यसमीपे क्रियमाणं पत्नीसंयाजंसपत्नीयहोमेडाभक्षणं तदिदं परामृश्यते । सदिडान्तमुक्तमेव तदनूद्य शंय्वन्तं वेति विकल्यः । इडान्तमेव कर्म संतिष्ठते । इडाभ- क्षणान्तमिडान्तमित्यर्थः । शंयन्ते विशेषमाह-

शंय्वन्ते वेदात्तृणमपादाय तस्य जुह्वामग्रम- ञ्ज्यात्स्रुवे मध्यमुपभृत्याज्यस्थाल्यां मूलम् ।

अञ्ज्यादित्यर्थः ।

तस्य कल्पो यः प्रस्तरस्य ।

तस्य तृणस्य कल्पो यः प्रस्तरस्य प्रस्तरतृणस्येत्यर्थः । केषांचिदयमभिप्रायः- यदा शंय्वन्तं तस्मिन्पले कर्तव्ये सति प्रस्तरप्रहरणं सूक्तवाकेन साध्यं ततो न तस्यो. त्कर्षोऽपि त्वावृत्तिरेव प्रधानयोः प्रस्तरवेदतृणप्रहरणयोः कालभेदात् । न च प्रस्तर- प्रहरणमप्याकृष्यते तस्य स्वतन्त्रस्य तृणप्रहरणं प्रत्यनङ्गत्वादङ्गत्वाच्च सूक्तवा- कस्याऽऽवृत्तिरेव न्याय्या । न च शंयुवाकं होता प्रतिपद्यते यं परिधिमिति विधाना- च्छंयुवाकस्यापि परिधिप्रहरणं प्रत्यङ्गत्वादावृत्तिरिति वाच्यम् । सूक्तवाको याज्या प्रस्तर आहुतिरिति श्रुतिबलाज्जैमिनिना साधनभावः सूक्तवाकस्यैव साधितः । न च शंयुवाकपरिधिप्रहरणयोः साध्यसाधनभावे श्रुतिरस्ति । शंयुमेव बार्हस्पत्यं भागधेयेन समर्धयतीत्याद्यर्थवादा न साधका अन्यार्थत्वात् । यदपि शंयोर्वाक इति श्रुतिराहुतित्वमाहैकविंशत्याहुतिषु तदपि नोक्तमाहुतित्वेन प्रमाणमपि तु दर्श पौर्णमासे चैक एव शंयुवाक इति तन्त्रेणाङ्गानीत्यत्रार्थे प्रमाणं यथेडाहुतित्वेन परिगणिताऽपि नाऽऽहुतिः । ततः शंयुवाको न दृष्टार्थः किंतु स आरादुपकारक एव । तस्मात्तस्योत्कर्ष एव न्याय्यः । परिधिप्रहरणं संत्रावश्च स्वस्थाने तत्रैव केवलं सूक्त- वाकयुवाकप्रैषपूर्वकाविति विवेको ज्ञेय इति । तदिदं नास्मत्सूत्रारूढं, सूत्रार्थस्तु शंयुवाकार्थ प्रेषितेन शंयुवाकेऽनूक्ततृणमक्तप्रस्तरतृणवत्प्रास्यतीति तावद्गार्हपत्ये । सदुक्तं कात्यायनेन-शंवन्ते वेदतृणमादाय प्रस्तरवदनक्तीत्युक्त्वाऽग्नीदाहानुप्रहरेति प्रास्य तृणादि पूर्ववच्छंय्वन्ते सुक्नुवं प्रगृह्णातीति । एवमस्माकमपि प्रस्तरस्य येन

१ क. ग. च. छ. ट. ठ. वेदतृण । २ ख. °णमादा' । २९ २२६ सत्यापाढविरचितं श्रौतसूत्रं- [२ द्वितीयप्रश्ने-

विधिना थैर्मन्त्रैरञ्जनमेवं सुणस्यापि । तथा प्रस्तरस्य संबन्धि यत्तृणं तद्वदेव प्रहरणेन प्रतिपत्सिरिति कात्यायनेन दर्शितम् । तथाऽऽश्वलायनेनापि शंयोरेवात्र विकल्प उक्तः। प्रकृतमाह -

दक्षिणाग्नाविध्मप्रव्रश्चनान्यभ्याधाय पिष्टलेपफलीकरणहोमौ जुहोति ।

अप्रदक्षिणमावृत्य स्त्रुग्यवायनिवारणाय दक्षिणाग्नेः पवादासीन इध्मस्य संपरणावसरे यानि मूलाग्राण्यवशिष्टानि प्रज्ञातानि निहितानि[तानि] दक्षिणाग्नौ प्रक्षिप्य पिष्टलेपफलीकरणनामको होमौ जुहोति । अन्वर्येयं संज्ञा पदि तें सन्ति ।

चतुर्गृहीताज्ये फलीकरणानोप्याग्नेऽदब्धायो इति जुहोति ।

अवैदिक इतिकरणे परतः सति यो इत्योकारस्य विकल्पेन प्रकृतिभावोऽने दब्धायो इत्यत्र । स्वाहेत्यन्तः । ब्राह्मणमप्येवमेवाऽऽह । तच्छेषस्तु-अतिरिक्तानि पा इध्मसंवृश्चनानि, अतिरिक्ताः फलीकरणाः, अतिरिक्तमाज्योच्छेषणमिति । त्रयस्यानिरिक्तत्वेनार्थवादो होमप्रशंसा संज्ञा तु फलीकरणहोम इति । बौधाय- नादिभिरप्येवमेवोक्तम् । वैखानसस्तु नात्र संज्ञया विधत्तेऽपि तु फलीकरणानोप्य जुहोतीत्येतावदेवाऽऽह । तथाऽपि कलीकरणमाधार एवायं चतुर्गृहीतं न होमद्रव्यं तत्रावधानेन संस्कारो भवति फलोकरणानामतिरिक्त एवातिरिक्तं दधातीति फलीकर- होमस्यैव शेषत्वात् । इध्मसंवृश्चनानामभ्याधानं पूर्वमावितया संस्तुतं तथा चानौ- षधे यागे न फलीकरणहोमस्तेषामभावात् । न चान्यानुपादाय होम इति वक्तुं शक्यम्। अतिरिक्तत्वेन संस्तवाद्विद्यमानानामेव प्रतिपत्तिः । तेषाममावेऽप्यभ्याधानमिध्म . संवृश्चनानां कार्यमेव तस्य होम प्रत्यनङ्गत्वात् । ल्यपा पूर्वभावित्वमात्रत्वाभिधानात् । वैश्वानर्यादावनिधमके कर्मणि तेषामभावेऽपि फलीकरणहोमः । अनौषधे याग आमि- क्षादौ विद्यमानेमसंवृश्चनानामस्त्येव प्रतिपत्तिः । न चाऽऽज्येन केवलेन होमः । तस्य ब्राह्मणेऽप्यविधानात् । फलीकरणहोममेव प्रस्तुत्योक्तमतिरिक्तमाज्योच्छेषण- मिति संस्कारकत्वमात्रेण संस्तवाचापि वस्तुगत्या न स्थालोस्थमुच्छेषणं संज्ञाऽपि मारिष्ठादीनां विद्यमानत्वात् ।

अपरं चतुर्गृहीतं गृहीत्वा पिष्टलेपमोप्योलूखले मुसले यच्च शूर्प आशिश्लेष दृषदि यत्कपाले ।

१५. क. द. "हीत आज्ये। ५५०पटक ] महादेवकृतजयन्तीय्याख्यासमेतम् । २२७

अवप्रुषो विप्रुषः संयजामि विश्वे देवा हविरिदं जुषन्तां यज्ञे या विप्रुषः सन्ति बह्वीरग्नौ ताः सर्वाः स्विष्टाः सुहुता जुहोमीति पिष्टलेपं जुहोति ।

जुहोतिना चोदितत्वात्स्वाहान्तो मन्त्रः । अत्र पिष्टलेपमिति पुनर्वचनं सूत्रान्तरेषुः पिष्टलक्षणलेपस्कन्दननिमित्तो होम इतोष्टं न तु पिष्टानामपि होम इति स्वमते तु तद्धोमोऽपोष्ट इति दर्शनार्थम् । तथैवान्येषां सूत्रकाराणां संमतम् । बौधायनस्ताव- दाह सुचि चतुर्ग्रहीतं गृहीत्वेत्येवं प्रकृत्यान्याहार्यपचने सर्वप्रायश्चित्तं जुहोतीति । भरद्वाजोऽपि-आज्येनैव पिष्टपं जुहोतीति । तयोरेक्मभिप्राया-उलूखल इत्ययं मन्त्रो लिङ्गेनैव विनियुज्यते तद्बलास्पिष्टलेपानामेवायं होमो न किंतु लिङ्गेन पिष्ट- लेपानां तत्र तत्र लग्नानां स्कन्दननिमित्तो होम इति संज्ञाऽपि शाखान्तरीयोपपन्नेति । आचार्यस्तु न तत्प्रतिषेवति । यनैमित्तिकहोमत्वमाज्यहोमस्य किं तु प्राप्ते लेपे होमोऽपि समुच्चयेन कार्य एव । अत एव चतुर्गृहीत आज्ये फलीकरणानोप्येत्यु- क्तम् । अत्र तु चतुर्गृहीतं गृहीत्वेति तावदेव प्राधान्येनोक्तम् । पिष्टलेपानोप्येत्ये- तदपि पूर्वनिरपेक्षमुक्तमत उभयोरपि प्राधान्येनैव होमद्रव्यत्वं न तु पूर्ववत् । यथा. क्रियते फलीकरणहोमः प्रतिपत्त्यर्थोऽयं पुनः प्रतिपत्त्यर्थोऽपि प्रायश्चित्तार्थश्च यथा सोमो विमुनिमित्तक इति । तेम गृहीतलेपाभावेऽपि होम आज्येनैव सोऽपि पिष्टले.. पनिमित्तस्तथासंज्ञक इति संज्ञाप्रवृत्तिमे(रे)तदेवाऽऽचार्यस्येष्टं यदयं पिष्टलेपफलीकर- णहोमो जुहोतीत्युक्त्वा फलीकरणाज्जुहोतीति न वदति संज्ञयैव तेषां होम्यत्वप्राप्ते- स्तथा पिष्टलेपेषु प्राप्तिश्चेत्तत्रापि. न वदेस्पिष्टले जुहोतीति पुनरेव वदति च । तस्मान संज्ञया प्राप्तिः, तस्यास्तत्र तत्रावशिष्टलालेपनिमित्तत्वात् । ततस्तु गृही- तानामहोमः स्यात्त मा भूदिति पुनर्वचनं प्राप्तेषु तेषामपि होम इति भावः । चराफि पिष्टानाममहणे होमो मन्त्रेणेष्ट एव दृषदि यत्कपाल इति पदद्वयलोपेनेति ज्ञेयम् ।

पिष्टलेपं पूर्वमेके समामनन्ति वेदोऽसि वित्तिरसीति वेदꣳ होता पत्न्यै प्रयच्छति ।

सनेयमिति मन्त्रान्तः ।

वेदोऽसि वेदसे त्वा वेदो मे विन्देति वा ।

प्रदाने मन्त्रो वैकल्पिकः ।

घृतवन्तं कुलायिनमिति तꣳ सोपस्थे कृत्वा ।

१५.७.ज. अ. अ. द. होमि स्वाहेति । २ ख. च. छ. ट. ठ. सोमे। ३ क. ख. ग. च. छ. ट, ठ. 'म् । ३.. २२८ सत्यापाढविरचितं श्रौतसूत्र- [२ द्वितीयप्रश्ने-

वाजिनमित्यन्तः । याजमानमप्यनेन । सा पत्नी तं वेदम् ।

अस्यते ।

नानेन मन्त्रः संबध्यते लिङ्गानुगुणत्वाभावादने मन्त्रविधानाच्च । अत्र वैकल्पिक वक्तुं प्रतिज्ञामा क्रियते मन्नस्तु सयोपस्थस्थापने । उपस्थोऽङ्कः । अयं शाखा- । तरीयो विधिगत्पत्त्यै वेदस्य दानं स्वशाखीयमाह ।

होताऽस्यति ।

होताऽस्यतीत्येकेषामग्रिममाकृष्यते प्रयच्छति वाऽस्यति वेत्यर्थः । उपस्थ एव तथाऽऽपस्तम्बे दर्शनात् । अस्यति क्षिपति, तत्र वेदोऽसीति धृतवन्तमिति च द्वाभ्या- मस्यति तथैवाऽऽपस्तम्वेनोक्तम् । प्रदानाभावे वोपस्थे करणमपि पत्न्या नास्ति ।

त्रिरवस्यतीत्येकेषाम् ।

सकृन्मन्त्रः । द्विस्तूष्णी, होताऽस्यतीत्येकेषामित्यपि संबन्धः। अवस्यत्यवसानं प्राप- यति । धात्वन्तरमेतदस्यतेः सकाशात् । अवसान स्थापनं तत्पुभः पुनर्गृहीत्वैव नान्यथा।

निर्द्विषन्तं निररातिं नुदेति वेदं पत्नी निरस्यते ।

यदि गृहीत्वोपस्थे कृतो यदि वाऽङ्क होत्रैवास्तो यदि त्रिवसितो वा तदा गृहीत्ला गृहीत्वा मन्त्रेण निरस्यते प्रास्तं प्रास्तं प्रति निरस्यतीत्यापस्तम्बोक्तः । निर- स्यत इत्यात्मनेपदनिर्देशनाऽऽत्मगामिता निरसनान्तक्रियाजन्यफलस्योक्ता । तेम प्रतिपत्नि वेदादानादीति गम्यते । मन्त्रालिङ्गं च घृतवन्तमित्याद्याशीलक्षणं स्पष्टमेव । निषिन्तमित्यपि प्रतिकूलनिरसनमिष्ट मेवेति पुरुषार्थत्वादावृत्तिः । आदाननिरसनयोः पत्नीसंस्कारत्वात् । वेदोऽसीति योऽध्वर्यमन्त्रः सोऽप्याशीरेव । साऽपि यजमाना गामिनीति न्यायनिश्चयः । ब्राह्मणमपि प्रमापतेर्वा एतानि श्मश्रूणीत्यादि फलमेवाऽ5- हातोऽनेकासां कार्यम् ।

इमं विष्यामीति योक्त्रपाशं विष्यते ।

आत्मनेपदेन पत्नी की, आशीर्मत्रत्वादेव । एवं च ब्राह्मणं विरुध्यते-यो वा अयथादेवतं यज्ञमुपचरत्या देवताभ्यो वृश्चयते पापीयान्भवति यो यथादेवतं न देवताम्य आवृश्चयते वसीयान्भवति वारुणो वै पाशः, इमं विष्यामि वरुणस्य पाश. मित्याह वरुणपाशादेवनां मुश्चतीति । सर्वत्र पुंनिर्देशाकर्तृत्वमध्वर्योरेनामिति कर्तुरन्या कर्मत्वेन निर्दिष्टा पत्नी । तस्मान्न विमोकः पत्नीकर्तृकः । विष्यामीति परस्मैपदाच्च । इदमेव मनसि कृत्वोक्तं वैखानसेन-इमं विष्यामीति पत्नी वाचयतीति । ततस्तु स्योनं मे सह पत्या करोमोत्याहाऽऽत्मनश्च यजमानस्य चानात्यै सत्वायेति | मे मन्त्रवत्तपाऽऽस्मन इति फलादेशोऽपि युज्यते । तथा चाऽऽध्वर्यबसंज्ञा न 1 2 ५५०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २२९

बाधिता सूत्रं च । तत्राधिक प्रविष्टं न तु तद्धानिरधिकप्रवेशोऽङ्गीकृत एव बहुवच- नेन यज्ञं व्याख्यास्याम इत्येतेन । पूर्व पश्वाच्च होतुरधिकारे सति पत्नीति पद नानुवर्तेतत्याशङ्कां निरसितुं मन्त्रे परस्मैपदप्रयोगेऽपि विधावात्मनेपद दर्शितम् ।

तस्याः सयोक्त्रेऽञ्जलौ पूर्णपात्रमानयति ।

योक्त्रसहितेऽञ्जली पत्न्या उदकेन पूर्ण पात्रं पूर्णपात्रं निनयति रेचयति । अत्राऽऽध्वर्यवमित्येव गम्यते । अञ्जली पूर्णपात्रमानयतीति नात्र होतुनिर्देशोऽस्ति । सूत्रेऽपि पूर्व पत्नीत्यनुकृष्टमेव तेन होतेति विप्रकृष्टमग्रे होतुर्महणं च करिष्यति । तस्मादाध्वर्यवमिति भाष्यकारो मन्यते । हो(ही)त्रे च स्वयं न होतुरुक्तवांस्तस्मा- दप्यध्वयोरेव । इयमत्र व्यवस्था बाढच्ये सूत्रे होतुनिनयनविधाने तेनैव कार्यमन्येन याजुषेण हौत्रेऽध्वयुणैवेति ।

समायुषेत्यानीयमाने जपति ।

आनीयमाने पूर्णपात्रे । अत्र जपतीति पूर्व प्रकृतस्याध्वयोः कस्ले प्राप्तेऽपि संनि- धेलिङ्गस्य बलीयस्त्वान्मन्त्रलिङ्गात्पत्नी गम्यते । अत्र पत्नीत्यनुवृत्तावपि तत्सेति तस्या उत्तरसूत्रे निर्देशो ज्ञापयति नियमार्थ सेति सेवेति । ततस्तु पूर्वसूत्रे योक्त्रे विष्यते जपतीत्यनयोः पत्न्याः कर्तृत्वेऽपि निनयनकर्तुरनिर्दिष्टस्य मन्त्रवाचकत्वेन प्रयोजककर्तृत्वमपरस्याः प्रयोज्यकर्तृत्वमिति. पूर्व व्याख्यात एवार्थो ज्ञापितः सूत्र. कृताऽपीति सूत्रान्तरादृढीकृतोऽस्माभिः । ममेति मन्त्रान्तः ।

तत्सा निनीय मुखं विमृज्य यथार्थं गच्छति ।

सा पत्नी स्वाञ्जलिगतमुदकं भूमौ निनीयाऽऽण हस्तेन दक्षिणेनैव तस्यैवानादेशे साधनत्वात् । मुखमार्जनं पत्नीसंस्कारत्वात्प्रतिपत्न्यावर्तते । अञ्जली निनयनमपि तथैव मन्त्रलिङ्गेनाऽऽशीःप्रतिपादनान्मुखमा नमपि स्पष्टः स्वसंस्कारो वाक्यशेषाच्च मुख विमृष्टेऽवभृथस्यैव रूपं कृत्वोत्तिष्ठतीति । यथार्थ गच्छति ब्राह्मणे योऽर्थो वाक्यश उक्तस्तं प्राप्नोतीत्यर्थः । अवभृथस्यैव रूपं कृत्वोत्तिष्ठतीति वाक्यशेषः । तदुक्तं बौधायनेन-अवभृथस्यैव रूपं कृत्वोत्तिष्ठतीति ब्राह्मणमिति । अवभृथस्येत्येतद्व्याख्याने- नोक्तं मुखं विमृज्योत्थाय पुष्टिमती पशुमती यथार्थ गच्छतीति वैखानसेन । मुखं विमृज्योत्तिष्ठति पुष्टिमती पशुमती प्रजावती गृहमेधिनी भूयासमितीत्यापस्तम्बेन । त एतेऽर्था नानाशाखावाक्यशेपादेवावगम्यन्ते ।

घृतवन्तं कुलायिनमिति वेदꣳ होता स्तृणन्नेति गार्हपत्यात्संततमाहवनीयात् ।। १२ ।।

५ क्र. ग, घ, छ. ट, 8. ण. ने च । ५ २३० सत्याषाढविरचितं श्रौतसूत्रं- [२द्वितीय प्रश्ने-

वाजिनमित्यन्तः । वेदस्याग्रे कर्मदर्शनाद्वैदैकदेशं संततिपर्याप्त स्तुणोते वेदसंस्का. रोऽयं द्वितीयानिर्देशात्सोऽप्यदृष्टार्थ एव । दृष्टस्यादर्शनान्मन्त्रे फलस्तवाच्च । गाईप- त्यागार्हपत्यमारभ्येति ल्यलोपे पञ्चमी । आहवनीयादत्राऽऽपर्वत्वं ज्ञेयम् । कियन्ति वेदतृणानि स्तृणन्प्रसारयन्संततमविच्छिन्नमित्यर्थः । रानिरूपेणैव । भत्र होत्रस्याऽऽध्वर्यचे प्रमझेन ब्राह्मणे विधानात्तत्पाठानुसारेण स्वेनापि व्याख्यातं तावत्प- रित्यज्य होतृसूत्रे व्याख्यास्यते । तस्मादिदं न बाढच्येन हौत्रण विकल्पते किंतु याजुषे हौत्र एव संनिवेशो बाहच्य उक्तं तु तेनानुष्ठाने ग्राह्यमेव । ऋग्वेदेन होता करोतीति स्वेनैवक्तित्वात् ।

यथेतमध्वर्युरेत्य ।

भध्ययुग्रहणं होतल्यावृत्यर्थम् । जहां द्विगृहीत्वा-

या सरस्वती यशोभगीना तस्यै ते स्वाहा या सरस्वती वेशभगीना तस्यै ते स्वाहेति सारस्वतौ होमौ हुत्वा ।

सरस्वती देवता ययोस्तो यथार्थनामानौ जुलाऽऽहवनीय इति । अत एवाss. ज्यार्थान् वाया इत्युक्तमेव । यद्यप्येतदादि दविहोमा एव तथाऽपि दर्शपूर्णमास- तत्रान्तर्गतानामनियमो दर्विहोमधर्माणामिति ज्ञापयति । अत्रैव द्विरित्याह प्राप्तमेव तेनेतरधर्मपरिसंख्येति उत्तरतउपचारों विहार इति सामान्यमेव ।

इन्द्रोऽपानस्य केह मनसो वेशान्कुरु सुमनसः सजातान्स्वाहा ।

जुहोतीति शेषः ।

ऋषभं वाजिनं वयं पूर्णमासं यजामहे । स नो दोहताꣳ सुवीर्यꣳ रायस्पोषꣳ सहस्रिणं प्राणाय सुराधसे पूर्ण- मासाय स्वाहेति पौर्णमास्याम् । अमावास्या सुभगा सुशेवा धेनुरिव भूय आप्यायमाना । सा नो दोहताꣳ सुवीर्यꣳ रायस्पोषꣳ सहस्रिणमपानाय सुराधसेऽमावास्यायै स्वाहेत्यमावास्यायाꣳ स्रुवेण पार्वणौ होमौ जुहोति ।

जह्वाहवनीययोः संबन्धेन प्रवृत्तानां दविहोमधर्माणां निवृत्तिः सुवेणेत्यनेन । पार्वणी पर्वणोरेवैकैकस्य समुदायस्य पौर्णमास्यास्यस्यामावास्याख्यस्य च कर्म- णोऽभूता यथा - पौर्णमासीसमुदायस्य वैमृधः । सप्तमीम्यां निर्दिष्टौ समुदायौ तयोः क्रियमाणत्वात्साङ्गदर्शपूर्णमासयोः पर्वण्येव विधानाद्विशेषसंज्ञाविधानमेकैकपर्व- १ क. च. ट. ठ. धणहो । ५५०पटळ:] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

कर्तव्यसमुदायाङ्गस्वरूयापनार्थ तेन न विकृतिषु प्राप्तिः । समुदायरूपाया विकृतेर- भावादिति भावः । साधित न्यायविद्भिः ।

पुरस्तात्स्विष्टकृत एके समामनन्ति ।

पार्वणी विकल्पेते क्रमविशेषेण ।

दश ते तनुवो यज्ञ यज्ञियास्ताः प्रीणातु यजमानो घृतेन । नारिष्ठयोः प्रशिषमीडमानो देवानां दैँव्येऽपि यजमानोऽ- मृतोऽभूत् । यं वां देवा अकल्पयन्नूर्जो भागꣳ शतक्रतू । एतद्वां तेन प्रीणानि तेन तृप्यतमꣳ इहौ । अहं देवानाꣳ सुकृतामस्मि लोके ममेदमिष्टं न मिथुर्भवाति । अहं नारि- ष्ठावनुयजामि विद्वान्यदाभ्यामिन्द्रो अदधाद्भागधेयम् । अदारसृद्भवत देव सोमास्यिन्यज्ञे मरुतो मृडता नः । मा नो विददभिभामो अशस्तिर्मा नो विदद्वृजना द्वेष्या या । ब्रह्म प्रतिष्ठा मनसो ब्रह्म वाचो ब्रह्म यज्ञानाꣳ हविषामाज्यस्य । अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन्स्वाहाकृताहुतिरेतु देवान् । सं ते मनसा मनः सं प्राणे प्राणं दधामि ते सं व्याने समपानं दधामि ते । परिगृह्य यजमानोऽमृतोऽभूच्छं न एधि द्विपदे शं चतुष्पदे स्वाहेति नारिष्ठाञ्जुहोति ।। १ ३।।

पगृहीत्वा नारिष्ठसंज्ञकान्होमाञ्जुहोति । जुहोतिचोदितत्वात्खाहाकारण जुहो. तीति परिभाषणात्माचीनेषु पञ्चस्वपि स्वाहान्तेन होमः । षष्ठे तु पाठेनैवोक्तः स्वाहा- कारो देवताप्रवृत्तिनिमित्तः शब्दस्तत्र त्रिवेव मन्त्रेषु नारिष्ठलिङ्गताऽन्येषु नानालिङ्गं तथाऽपि पूर्वत्रयसहचरिताः सर्वे नारिष्ठा एव । केचिदत्रापि नारिष्ठविशेषणं देवसो. ममरुतां ब्रह्मयज्ञवामनःप्राणव्यानानामिच्छन्ति । अन्ते स्वाहाकारेऽपि नारिष्ठानिति बहुवचनात् । यत्र मन्त्रगणेन कर्म चोद्यते प्रतिमन्त्रं तत्र जुहुयादिति वक्ष्यमाणत्वाच्च प्रतिमन होमः।

इति सत्यापादहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां मयोगवैजयन्त्यां द्वितीयमश्ने पञ्चमः पटलः ॥५॥ २३२ सत्याषाढविरचितं श्रौतसूत्रं- [२ द्वितीयप्रश्ने-

2.6 अथ द्वितीयप्रश्ने षष्टः पटलः ।

अष्टौत्रिंश(स्कृत्वो गृहीत्वा-

इष्टेभ्यः स्वाहा वषडनिष्टेभ्यः स्वाहा भेषजं दुरिष्ट्यै स्वाहा निष्कृत्यै स्वाहा निर्ऋत्यै स्वाहा दौरार्ध्यै स्वाहा दैवीभ्यस्तनूभ्यः स्वाहर्ध्यै स्वाहा समृद्ध्यै स्वाहा ।

एते स्वाहान्ता नव मन्त्राः शाखान्तरीयाः । तत्र नितिनिष्कृत्योरुदक- स्पर्शः मातः ।

अयाश्चाग्नेऽस्यनभिशस्तीश्च सत्यमित्त्वमया असि । अयसा मनसा धृतोऽयसा हव्यमूहिषेऽया नो धेहि भेषजꣳ स्वाहेमं मे वरुण तत्त्वा यापि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयाऽसि प्रजापते भूर्भुवः मुवरिति व्याहृतिभिर्जुहोत्येकैकशः समस्ताभिश्च ।

अयं *स्वाहाकारान्तो यत्पाकत्रेति चरमश्च स्वाहान्तौ पठिती । इष्टादिस्पष्टा ना देवता दशमेऽया अग्निः । इमं में वरुणेति मन्त्र ऋग्वरुणो देवता, तत्त्वा यामीत्यपि सथैव । त्वं नो अग्ने स त्वं नो अग्न इति द्वे, अग्नीवरुणो देवता । त्वमग्ने अयाऽसी- त्यग्निः। प्रजापते न त्वदिति प्रजापतिः। एते षण्मन्त्राः प्रतीकोपात्ताः। तस्यां शाखाया- मन्यत्र पठितानामत्रापि पाठप्रदर्शनार्थमेव प्रतीकेन पठिताः । तथैव सूत्रकृता शाखा- न्तरीयपाठ एव दर्शितः । तत्राऽऽद्यन्तमन्त्रयोः स्वाहापाठ एव मध्येऽनुषङ्गार्थः । यथा ऋताषाऋतधामेत्याद्यन्तयोः स इदमिति पठ्यते । भूरादि पठित्वा संदेहनिवृत्त्यर्थी- कैकशः समस्ताभिश्चेत्युक्तं तत्र व्याहृतिभिरित्यत्र बहुवचनात्प्रत्येक मन्त्रता सिद्धैक- मन्त्राणि कर्माणीति परिभाषया तथाऽपि समस्तायां व्यस्तता न लभ्येतेति द्वयमु. क्तम् । अन्यादिदेवताः।

आश्रावितमत्याश्रावितं वषट्कृतमत्यनूक्तं च यज्ञे । अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन्स्वाहाकृताहुतिरेतु देवान् ।

यज्ञो देवाः।

अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मिथु । अग्ने तदस्य कल्पय त्वꣳ हि वेत्थ यथातथꣳ स्वाहाकृताहुतिरेतु देवान् ।

  • इदं पदमसंबद्धम् ।

१क. स. ग. ट. ट.. चत्वारिंश। । २३३ ६५०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

अग्निदेवाः।

अतिरिक्तं न्यूने जुहोमि न्यूनमतिरिक्ते जुहोमि । समꣳ समे जुहोमि स्वाहाकृताहुतिरेतु देवान्।

देवाः।

यदकर्म यन्नाकर्म यदत्यगाम यन्नात्यगाम यदत्यरीरिचाम यन्नात्यरीरिचाम । तत्त्वं विष्णो यज्ञे यज्ञं प्रतिष्ठापय स्वाहाकृताहुतिरेतु देवान् ।

विष्णुदेवाः।

यत्प्रमत्तान्तरगाम किंचिदस्मिन्यज्ञे मन्त्रतः कर्मतो वा । अनयाऽऽहुत्या तच्छमयामि सर्वं तृप्यन्तु देवा हविषो घृतस्य स्वाहाकृताहुतिरेतु देवान् ।

देवाः ।

ब्रह्म प्रतिष्ठा मनस इत्येषा।

ब्रह्मयज्ञौ देवाः । गन्यत्र पठिता ग्राह्येत्यर्थः । तस्यां शाखायामन्यत्र पाठादेव- मुक्तम् ।

ततं म आपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते । अयꣳ समुद्र उत विश्वभेषजः स्वाहा कृतस्य समु तृप्णुतर्भुवः ।

भवः।

उद्वयं तमसस्पर्युदु त्यं चित्रम् ।

इत्यपि प्रतीकेन द्वे सूर्यों द्वयोः ।

यद्वो देवा अतिपादयानि वाचा चित्प्रयतं देवहेडनम् । अरायो अस्माꣳ अभि- दुच्छुनायतेऽन्यत्रास्मन्मरुतस्तं निधेतन ।

देवा मरुतः।

यत इन्द्र भयामहे ततो नो अभयं कृधि । मघव- ञ्छग्धि तव तन्न ऊतये विद्विषो विमृधो जहि ।

मघवानिन्द्रः ।

स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी । वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयंकरः ।

वृत्रहेन्द्रः।

३० २३४ सत्याषाढविरचितं श्रौतसूत्रं- [द्वितीयप्रश्ने-

आभिर्गीर्भिर्यदतो न ऊनमाप्यायय हरिवो वर्धमानः । यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम ।

हरिवानिन्द्रः।

अव ते हेड उदुत्तमम् ।

द्वे प्रतीकेन पूर्वो द्वयोः ।

पुरुषसंमितो यज्ञो यज्ञः पुरुषसंमितः । अग्ने तदस्य कल्पय त्वꣳ हि वेत्थ यथातथꣳ स्वाहाकृताहुतिरेतु देवान्।

अग्निदेवाः।

यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्तासः । अग्निष्टद्धोता क्रतुविद्विजानन्यजिष्ठो देवाꣳ ऋतुशो यजाति ।

अग्निर्देवाः ।

स्वाहेति जुह्वाऽऽहवनीयेऽध्वर्युः ।। १४ ।। सर्वप्रायश्चित्तानि जुहोति ।

सर्वप्रायश्चित्तसंज्ञकान्होमान् । अथ वा सर्वप्रायश्चित्तानि विच्छिन्नसंधानरूपाणि होमकर्माणि जुहोति । अत्र परिभाषाप्राप्तानामनुवादोऽन्यपरिमाषितदाहोमधर्म- निवृत्त्यर्थम् । तथा हि आपस्तम्बेन जुहा स्वेण वा सर्वप्रायश्चितानि जुहोतीत्युक्तम् । तन्निवृत्त्यर्थे जुह्वेति जुलैव । आहवनीयग्रहणमन्यधर्मपरिसंख्यार्थम् । अध्वर्युग्रहणं ब्रह्मनिवृत्त्यर्थम् । आश्वलायनेन प्रायश्चित्तेषु जुहोतीति चोद्यमाने ब्रह्माणं प्रतीयादि. न्युक्तम् । जुह्वाहवनीयाध्वर्युव्यतिरिक्तानां साधनानां दविहोमत्वेन प्राप्तानां प्रायश्चि - तेषु निवृत्तिः । केषां, समिदाधानमग्रेणाऽऽहवनीयं दक्षिणतोऽतिक्रमणं तिष्ठन्निति च निवर्तते । अत्र स्वशाखायां पठितानि सर्वप्रायश्चित्तानि वैकल्पिकान्यतैयानि । तानि तु ब्रह्म प्रतिष्ठेत्ययमाच्छिद्रिकोऽनुवाकः । वैखानसेनासौ सर्वप्रायश्चित्तत्वेन गृहीतः । आहवनीय गत्त्वा जुह्वा खुवेण वा ब्रह्म प्रतिष्ठेत्येषोऽनुवाको यदकर्मेत्याधु. क्वोक्तं सर्वप्रायश्चित्ताहुतीर्जुहोतीति । तस्मादनुवाक एवं सर्वप्रायश्चित्तार्थोऽन्यथा न विनियोगः स्यात् ।

ध्रुवामाप्याय्य ।

चतुर्ग्रहीतस्य पञ्चगृहीतस्य षड्गृहीतस्य वा न व्ययोऽस्ति तथाऽपि वचनादाप्या- यन समिष्ट यजुरर्थम् ।

देवा गातुविद इत्यन्तर्वेद्यूर्ध्वस्तिष्ठन्ध्रुवयाऽऽहवनीये त्रीणि समिष्टयजूꣳषि जुहोति । १५० पटल:] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २३५ दविहोमत्वेन प्राप्तानां धर्माणां निवृत्तिविशेषणैः क्रियते । याते धाः स्वाहेति मन्त्रान्तः । उर्ध्वग्रहणमार्नवा तिष्ठन्यथा वको न भवेत् । स्पष्टमन्यत् । समिष्टयजुर्नाम- कानि होमकर्माणि जुहोति । अत्र मन्त्रगणेन कर्म चोद्यते यत्प्रतिमनं तत्र जुहुया- दिति परिभाषितत्वान्मन्नत्रयेणाऽऽहुतित्रयं प्राप्तं तथैक मन्त्रविमागेन मरद्वाजेनापि दर्शितम् । तथा च त्रित्वे प्राप्तेऽपि + तथाऽपि पुनर्वचनं स(नात्स)कलस्य मन्त्रस्याऽऽवृत्त्या त्रीणि जुहोति । कुतः, वात एव यज्ञप्रतिष्ठादर्शनाद्वाते धाः स्वाहे- त्यन्तस्यैकमन्त्रताऽवगम्यते तस्मादावृत्तिरित्यतैरनभिधानाच्च । मध्यमे स्वाहाकारे बहि- रनुप्रहरतीत्यविशेषेण त्रिःस्वाहाकारता मन्नेऽन्ते च । तथैवाऽऽपस्तम्बेन सर्वेणः मन्त्रेण सकृदेव होमो विहितोऽतो वाते धाः स्वाहेत्येक एव मन्त्रः । ब्राह्मणमपि वाते था इत्यन्तमेव मन्त्रं सर्व प्रतिपादयति- 'वाताद्वा अध्वर्युर्यज्ञं प्रयुङ्क्तेः । देवा गातु- विदो गातुं वित्त्वा गातुमितेत्याह । यत एवं यज्ञं प्रयुङ्क्ते । तदेनं प्रतिष्ठापयति' इति । वात धा इत्यन्ते खलु वातपदं प्रयुज्यते । तस्मान्नैकपक्षे विभक्तो मन्त्रः । एवं द्विपक्षेऽपि ज्ञेयम् । ननु तथाऽपि कथमावृत्तिनिवृत्तिरिति चेत् । उत्तरसूत्रादितिः ब्रूमः सततं विमाहं वा [इति] ।

एकं द्वे त्रीणि वा संततम् ।

संततं देवा गातुविद इति मन्त्रारम्भेण सहाऽऽज्यधारया. संततया स्वाहाका- रपर्यन्तमेकमेव जुहोति । द्वे वा त्रीणि वा तथैव ।

विग्राहं वा ।

पूर्वसूत्रानर्थक्यं मा मूदिति मरद्वाजोक्तसंग्रहार्थं तत्रैव विकल्पः । त्रीणि मन्त्रवि- आहेण प्रतिस्वाहाकारं त्रीण्येव जुहुयात् । यदि विवाहमिति धाराविच्छेदेन वेति व्याख्यायेत तदाऽत्रत्येन त्रीणीत्यनेनार्थस्य वैकल्पिकस्य सिद्धौ पूर्वसूत्रे तु त्रीणीत्य- मर्थकम् । अथात्रैव त्रिषु स्वाहाकारेण्विति व्याख्यायेत तदा त्वेकं द्वे इत्यनयोरसंबन्धः स्यात् । तस्मात्पूर्वसूत्रेणैव संबन्धः । त्रीणीत्यनेनैव संबध्यते । सतत संतते स्वाहाकारधार यत्र तत्संततं विनाहं वाऽत्र पक्षे प्राप्तावृत्तिविग्रहणं च स्वाभाविकमनुज्ञातम् । यद्यत्र त्रीणीति न क्रियेत तदैकं द्वे इत्येताम्यां प्रसंततनियमः संबध्यते तन्मा भूत्रीणीत्यने- नैव संवध्यतामित्येवमर्थ पुनर्ग्रहणम् । ननु, तहिं प्रथम त्रीणीति सूत्रं माऽस्विति चेत् । न । तदा झेकमित्यादित्रयेण संबध्येत पुनर्ग्रहणसामर्थ्यात्तनै ।

द्वेष्यस्य न्यञ्चं विच्छिनत्ति वा ।

+ तथाऽपीत्यधिकम् ।

१०. द्वितीयप । २ ण, त्तिरि । ण, "मः। ए"। ण, 'ततं विप्राई वा । । ५ क. ग.च. छ. उ. उ. प. 'पूर्वसू' । ६ ण. "ते. स्वा । ७ ग. "प्तावतिवि' । ८ ग. २. ८. 'नैवम् ।। २३६ सत्याषाढविरचितं श्रौतसूत्र- (२द्वितीयप्रश्ने--

न्यश्चमिति पुंलिङ्गे होममिति विशेष्यं ज्ञेयम् । उच्चप्रदेश आहुतिमारम्य नीचया समाप्तिः । विच्छेद आहुतिमध्ये तद्वेष्यस्य भवेन्न यजमानस्येत्यर्थः ।

यं कामयेत प्रमायुकः स्यादिति जिह्मस्तिष्ठञ्जुहुयात् ।

यं यजमानं प्रमायुकं मरणधर्माणमत्रापि पूर्ववत्तथा न जुहुयादित्यर्थः । जिह्मो वक्रः।

मध्यमे स्वाहाकारे बर्हिरनुप्रहरति ।

एकं यदा तदाऽपि मध्यमे द्वे यदा तदा प्रथममन्त्रावृत्तौ मध्यमे स्वाहाकारे, एवं त्रीण्यत्र प्रथमावृत्तावेवेति ज्ञेयम् । बर्हिरिति जात्यभिप्रायेण सर्व, व्यक्त्यभिप्रायेणेकैव दर्भनाडिका ।

बर्हिर्मुष्टिं वा ।

मुष्टिमात्रम् ।

हुते वाऽनुप्रहरति ।

अन्तिमे स्वाहाकारे हुतेऽनुग्रहरति-

प्रहृत्य वाऽभिजुहुयात् ।

प्रथमं प्रहृत्य पश्चाद्यथासंख्यं जुहुयादभि उपरि ।

यदि यजमानः प्रवसेत्प्रजापतेर्विभान्नाम लोक इति ध्रुवायां यजमानभागमवधाय सह समिष्टयजुषा जुहुयात् ।

यजमानेनेत्यन्तः । अवधान एव मन्त्रो लिङ्गात् । होमो हि समिष्टयजुर्मन्त्रेण मन्त्र- द्वयस्य युगपदसंभवाच्च । वातायेदम् । अग्नेऽदब्धायो इति याजमानम् । दिवः खोल इति च । न बहिहोमेन संबध्यतेऽनुपहरणेन प्रतिपत्तिमात्रं भवति ।

अभिस्तृणीहि परिधेहि वेदिं जामिं मा हिꣳसीरमुया शयाना । होतृषदना हरिताः सुवर्णा निष्का इमे यजमानस्य ब्रध्न इति होतृषदनैर्वेदिमभिस्तृणाति ।

होतुरासनददि छादयति । प्राधान्यान्मन्ने प्रतिपादितानामुपयुक्तत्वाद्दर्भाणां वेदेश्च द्वितीयानिर्देशाचोभयोः परस्परेण संस्कारः ।

पोषाय व इत्यग्रेणाऽऽहवनीयं प्रणीताः पर्याहृत्य यो वऽयौक्षीत्स वो विमुञ्चत्वित्यन्तर्वेदि विमुञ्चति ।

प्रणीताः । स्पष्टमन्यत् । सदसि सन्मे भूया इत्यादि याजमान संस्थाजपान्तम् । ब्रह्मा च स्वभार्ग प्राश्याऽऽचम्य समिधमाधाय यथेतं गच्छति ।

  • बहिरनुप्रहराति घ, संज्ञके पुस्तके नास्ति ।

१ क. उ. कारहुतिनु। ६५० पटलः ] महादेवकृतवैजयन्तीब्याख्यासमेतम् । २३७

यं देवा मनुष्येषूपवेषमधारयन् । ये अस्मदपचेतसस्तानस्म भ्यमिहा कुरु । उपवेषोप विड्ढि नः प्रजां पुष्टिमथो धनम् । द्विपदो नश्चतुष्पदो ध्रुवाननपगान्कुर्वित्युपवेषमादाय ।

द्वाम्यामादानम् ।

योपवेषे शुक्साऽमुमृच्छतु यं द्विष्म इत्युत्करे निखनेन्निरस्येद्वा ।

खात्या स्थापयेत्त्यजेद्वा ।

निरमुं नुद ओकसः सपत्नो यः पृतन्यति । निर्बाध्येन हविषेन्द्र एणं पराशरीत् । इहि तिस्रः परावत इहि पञ्चजनाꣳ अति । इहि तिस्रोऽतिरोचना यावत्सूर्यो असद्दिवि । परमां त्वा परावतमिन्द्रो नयतु वृत्रहा । यतो न पुनरायसि शश्वतीभ्यः समाभ्यः । हतोऽसा- ववधिष्मामुमिति यं द्वेष्टि तस्य वधं मनसा ध्यायत्यवसृष्टः परापत शरो ब्रह्मसꣳशित इति वाऽप उपस्पृश्य ।

नित्य एव कल्पोऽभिचरन्नित्यनभिधानात् । असौ पाप्मेति नाम प्रथमं द्वेष्यस्य वा । यद्यस्ति तथाऽमुमत्र द्वितीयान्तं पाप्मनो द्वेष्यस्य वा मन्त्रान्ते ध्यायेत् । केचि- ध्यानमाभिचारे विधेयमापस्तम्बे दर्शनादित्याचक्षते ।

कस्त्वा युनक्ति स त्वा विमुञ्चत्विति यज्ञं विमुञ्चति ।

तस्य व्याख्यानमेवाऽऽह-

सर्वमनुवीक्षते ।

सर्व विहाररूपं यज्ञमनुवीक्षते । अयमेव विमोक इत्यर्थः ।

यानि घर्मे कपालानीति कपालानि ।

विमुञ्चतामिति मन्त्रान्तः । पूर्वपरे च विमोकः कपालानाम् । इति सतिष्ठेते दर्शपूर्णमासौ ।

सꣳस्थितायां पौर्णमास्याम् ।। १५ ।।

पौर्णमासीयागे ब्राह्मणतर्पणान्ते सति ।

वैमृधस्य तन्त्रं प्रक्रमयति ।

पौर्णमासी समुदायस्याङ्गं वैमृधो न तु प्रत्येकाङ्गता तेन विकृतौ समुदायधर्मानति- देशान्न विकृत्यर्थता वैमृधस्येति भावः । न्यायविद्भिः प्रपञ्चितमेवं वैमूधेष्टः कर्मण इन्द्रो वैमृधो देवता यस्य कर्मणो वैमृधो देवता । साऽस्य देवतेति तद्धितान्तत्वान्नाम: - - २३८ सत्याषाढविरचितं श्रौतसूत्र- [२द्वितीयप्रग्ने-

घेयमभेदेन वा देवताहविषोविशिष्टदेवताकर्मकेषु (१) गुणेनैव व्यपदेशो न विशिष्टेन तद्धितानुत्पत्तेविशिष्टात्प्रत्येक विभक्तौ विन्द्रो वैमृध इति देवताद्वयेन कर्मद्वयमापद्येत, कर्मधारयात्प्रत्ययोत्पत्तिर्न मवति । विशिष्टदेवतास विशेष्यं पूर्व निर्दिश्यते विशेषण- मनन्तरं तेन क्रमेण समासे त्वसाधुता । विशेषणं पूर्वमिति पाणिनिस्मृतेः । विशेषणस्यः पूर्वभावित्वे वैमृधेन्द्र इति प्रातिपदिकं देवतान्तरवाचकं स्याद्देवताभिधाने क्रमस्यः विवक्षितत्वाच्छब्दन देवतासमवायात् । तदुक्तं वार्तिकाचार्यैः- 'शब्देन देवतायागे समवैति न रूपतः ' इति । अत एवाग्नान्दाविन्द्वानी वेति देवताभेदेन विकृतौ विकल्पयन्ति | तस्मान समास- विशिष्टदेवताप्रातिपदिकयोर्गुणेनैव व्यवहारो वैश्वानरमित्यादौ नापि तद्धितेन हाँ :- संबन्धी विष्णवे शिपिविष्टायागये वैश्वानरायेन्द्राय वैमृधायेत्यादि दृश्यते । प्रकृते तु वैमृधः पूर्णमासेऽनुनिर्वाप्यो भवति । तेन पूर्णमासः सेन्द्र इति नायमुत्पत्तिविधिः किंतु शास्त्रान्तरमाप्तस्यानुवादः । अर्थवादेन सेन्दत्वसंपादनाय विधि दर्शयिष्यति । प्रकृतेऽनुवादमात्रेण प्राप्तेन गुणनाम्ना व्यवहरति सूत्रकृत् । तन्त्रं साङ्गं कर्म प्रक्रम- यति स्वार्थे णिन् । प्रपूर्वकोऽकर्मको वा प्रादुर्भावार्थः । तस्माद्धेतुमति णिच् । प्रादुर्भा- वयतीत्यर्थः।

तस्यैन्द्राग्नेन कल्पो व्याख्यातः।

कल्पो विधानमनुष्ठानम् । व्याख्यातो दर्शितः । कथं, तत्राऽऽहैन्द्राझेन । नोपदेशे. नापि त्वतिदेशेन । ऐन्द्राग्नेन दार्शिकेन कर्मणा समानानुष्ठान इत्यर्थः । वक्ष्यत्यो प्रकृति- विकृतिभावं तत्र प्रतिदेवतैकदेश इत्यैन्द्राग्नविकारो न त्वाग्नेयविकार इति भावः ।

पञ्चदश सामिधेन्यः सप्तदश वा ।

विकृतौ विकल्पे पूर्वपक्षयित्वोक्तमविकल्सो वेति वक्ष्यमाणमत्र मा भूदिति तर्थमन्त्र वचनम् ।

निर्वपणकाल इन्द्राय वैमृधाय प्रभूतान्व्रीहीन्निर्वपति ।

अन्वाधानादि वेदं वेदिपरिस्तरणं कर्मणे यज्ञस्य सदने पात्राणि प्रयुज्यादि कृत्वा यदा निर्वापकालः प्रकृत्यनुष्ठाने यत्र प्राप्तस्तस्मिन्नित्यर्थः । देवस्य स्वेत्यादिने. न्द्राय वैमृधाय जुष्टं निर्वपामीति निर्वपति प्रभूतान्बहून्परिपूर्णमुष्टीस्तथाऽन्वावापेन प्रभूतत्व संपादनीयम्।

१ क. गच, छ, ट, ठ, शिष्ठा दें । २ क. ग, च, छ, ट, . . "ता यस्य क। ३ का ग. च. छ. ट, उ. प. 'तास्तु नि । ४ ग. च. छ. उ. प. "वतां भे । ५ क. ग. च, छ. 2. 8. 'दर्थे यत्र। ६१० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २२९

दक्षिणाकाले यथाशक्ति दक्षिणां ददाति ।

नान्वाहार्यः । सुवर्ण गुञ्जादिमानेन । न पार्वणहोमः ।

तत्र याथाकामी प्रक्रमे ।

विकल्पेनाथ न तु तदकरणे वैगुण्यम् । पौर्णमासयागस्याधिकगुणतेव परमनुष्ठानात् । तु तत्रोपक्रान्तस्य न त्याग इति प्रथमारम्भे यथा कामना भवति गुणाधिक्याय मया कार्य इति चेत्तदा यावद्दर्शपूर्णमासानुष्ठान तावरकर्तव्य एव । कुतः, न टेकस्यां शाखायां विकल्पः श्रूयतेऽस्मच्छाखायां तु नित्य एव तदनुसारेणोपक्रान्तेन त्यागः । आरब्ध. बाधात् । यदि शाखान्तरे तु निषेधस्तदनुसारेण न क्रियते तदा चानारब्ध उत्तरमारम्भो न कार्यः । अङ्गीकृतशास्त्रप्रामाण्यत्यागप्रसङ्गात् । तस्मात्प्रथमत एवैकं शास्त्रं प्रमा. णत्वेन स्वीकृतं तस्याप्यप्रामाण्यापादनं न कार्यमिति भावः ।

प्रक्रमात्तु नियम्यते ।

उक्ताभिप्रायेण नियमः। एवं दर्शपूर्णमासौ साङ्गो व्याख्याय गुणभेदनिबन्धनप्रयोगमेदान्दर्शपूर्णमाससंस्था- विशेषान्व्याख्यातुं प्रतिजानीते-

दर्शपूर्णमासयोः काम्यान्कल्पान्व्याख्यास्यामः ।

कर्मान्तरत्वशङ्कानिरासार्थ प्रतिज्ञा ।

अनेन दर्शपूर्णमासाभ्यामृद्धिकामो यजेत ।

अनेन वक्ष्यमाणेन गुणविकारेणोपलक्षितदर्शपूर्णमासाभ्याम्राद्धः संपत्तत्कामः । दर्शपूर्णमासशब्दसामानाधिकरण्येन नेयं विकृतिरपि तु गुणविकृती दर्शपूर्णमासावेद शब्दान्तरादिभिः कर्मभेदाभावादिति भावः । प्रयोगमाह-

द्वे पौर्णमास्यौ यजेत द्वे अमावास्ये ।

यजेतेत्युभयत्र । प्राप्तयोरनुवादेनीम्यासो विधीयते । दाक्षायणयज्ञे स्पष्टमुक्तं पूर्वेधुर्थनते वेदिमेव तत्करोति यद्वत्सानपाकरोति सदोहविर्धाने एव समिनोति यद्य- जत इति तद्वदत्रापि द्वे अभ्यस्ते एकः पञ्चदश्यामपक्रान्तो यागो यथाप्रकृति प्रति- पदि समापनीयः पुनः प्रतिपदि प्रारब्धो द्वितीयायां समापनीय आगन्तुकस्यान्ते निवे. शात् । ततः परं नित्यावेव दर्शपूर्णमासौ कार्यों । काम्यस्य गुणस्याभ्यासलक्षणस्यानु. ष्ठितत्वात् । तत्राय प्रयोगः-अभ्यस्ताम्यां दर्शपूर्णमासाम्यामृद्धिकामो यक्ष्य इति १ घ..जझ, ञ, द, नियम्येत । २क, ग, च, छ.ट, ठ, ण."देचाभ्या। २४० सत्यापाढविरचितं औतसूत्र-

[२द्वितीयपने- संकल्पः प्रथमः । सद्यस्कालपौर्णमासीवदनुष्ठाय ब्राह्मणभोजनान्ते पुनरन्वाधानादि प्रतिपदि द्वितीयायां यागसमाप्तिः । अस्ति चेद्वैमृवस्तमपि कुर्यात् । साभ्यासस्थैवाङ्गं सकृदेव तस्य पौर्णमासशब्दवाच्यत्वामावात् । असंनयतोऽमावास्यायामपि तथैव संनयतश्च । इमामूर्भ पञ्चदशीमित्याद्यविकृतं सर्वं पार्वणहोमी च । अत्र प्रयोगान्तरं दर्शयति-

यः कामयेतर्ध्नुयामित्येकेषां पौर्णमासीमेव यजेत ।

शाखान्तरे वाक्यं यः कामयेत यामिति स पौर्णमासीमेव यजेतेत्यर्थः । तदुक्तमाप- स्तम्वेन-यः कामयेतर्नुयामित्युक्त्वा हैकामेव यजेतेति । पौर्णमासीमभ्यस्ता प्रक्रान्ता- मेव, अमावास्यां तु नित्यवदेव कुर्यादित्यर्थः ।

भ्रातृव्यवान्नामावास्यां द्व्यवरार्ध्यं त्र्यवरार्ध्यं वा यजेत संक्रामे संक्रामे वज्रं भ्रातृव्याय प्रहरति ।

ब्राह्मणानुकरणमेतद्वाक्यं सार्थवाद पठितं कामादिपदाभावेन कथं फलमत्रावगन्त. व्यमितिशङ्कानिराकरणार्थ, कामपदाभावेऽपि अप्राप्ते प्रधाने फलमङ्गी क्रियतेऽर्थवादेन यस्य यजमानस्य वैरिणः प्रतिफलाः सन्ति तेनायं यागः कार्य इत्युक्तेरिणामपनयो भवतीति गम्यते । कथमित्यपेक्षायां भ्रातृव्याय संक्रामे [संक्रामेऽ) मावास्याया अति- क्रमेऽतिक्रमे तदेव वज्ररूपं प्रहृतं भवतीत्यर्थः । तस्मादमावास्यां न कुर्यात् । अत्रापि पौर्णमासी साभ्यासैव । भ्रातृव्यं हन्तुकामः ससंक्रामया साभ्यासया पौर्ण. मास्या यक्ष्य इति संकल्पः । व्यवराय द्वे अवरे यस्मिन्नध्ये स्थान यस्यामिति किया- विशेषणम् । अवरशब्दो न्यूनवाची । अर्थशब्दः स्थानवाची । ससंक्रामे द्वे अभ्यस्ते न्यूने यस्मिन्स्थाने ब्यधिकं कार्य न न्यूनमित्यर्थः । एवं व्यधिकं न तु त्रिभ्यो न्यून मित्यपि ज्ञेयम् ।

अग्नीषोमीयाणि प्रधानानि स्युर्भ्रातृव्यवतोऽभिचरतस्तितीरिषतो वा ।

पर्वद्वयेऽपि यानि यानि प्रधानानि पुरोडाशाज्यसांनाय्यरूपाणि तानि यानि यावन्ति यस्य यत्र पर्वणि तानि तावन्ति तस्य तस्मिन्पर्वणि सर्वाण्यग्नीषोमदेवता- कान्येव भवन्तीत्यर्थः । अमावास्यायां पौर्णमास्यां चेत्युक्तमापस्तम्बेन । अग्निदेवताकं गुणं वाधित्वाऽशोषोमाभ्यां जुष्टमभिधारयामीत्यादयोऽन्नादो व्याप्त विरुज्य प्राशित्रं चतुर्धाकरणमेव ज्ञेयम् । अग्नीषोमयोरहं देवयज्ययेन्द्रियाव्यन्नाद इत्याद्यमावास्यायां ज्ञेयम् । कपालोपधानं प्राकृतमेव । भ्रातृव्यक्त इति पूर्ववत् । अमिचरतः परं हन्तु- १८,°त द्वे अमावास्ये सं"। ६ष०पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २४१ कामः । तितीरिषत इत्यत्रेट्छान्दप्सः । तर्तुमिच्छति विपदं व्याध्यादिकां तस्येत्यर्थः । अभिचारशब्दसामर्थ्यादेव परमरणकामना सिध्यति । तितीरिषत इत्यत्रेच्छार्थेन सन्प्रत्ययेनैव कामना।

साकंप्रस्थायीयेन पशुकामो यजेत ।

सार्कप्रस्थायीयलक्षणगुणवता दर्शसारख्थेत कर्मणा यत । अत्राप्रसिद्या गुण- स्येदं कर्मनामधेयमित्यथैष ज्योतिरथैष विश्वज्योतिरितिवन्नामभेदात्कर्मभेवमाशङ्कयं परिहतं गुणप्रसिद्धिं दर्शयदि नैमिनीयैः । साकं कुम्मीभिः प्रस्थानेन यागो विधीय. तेऽत्रातो नामधेयान्तरात्कर्मान्तर मिति । प्रयोगमाह-

बहवः सायं दोहा भवन्ति बहवः प्रातर्दोहास्तैरनन्तरं दोहाद्यजते ।

अमावास्याविकारत्वमेव । तत्र नित्यं सानारयदर्शनासामान्येन न पौर्णमासी. विकारत्वे दाक्षायणयज्ञस्य विकृतमांनापगुणस्य न विकारः, तर्हि (नहि) मिभिक्षु याचत इति न्यायात्, इत्यभिप्रायेणोक्तम् । स्पष्ट माचष्टाऽऽपस्तम्ब:--अमावास्या विक्रियत इति । बहुत्वं त्रित्वे पर्यवस्यति तथाऽपि तथेष्टं चेत्त्रयो दोहा मवन्तीत्येव व्यात्तस्माच्चतुःप्रभृत्यपि दोहा अनुज्ञायन्ते यावता होमः कर्तुं शक्यते । अप्रै. कैकस्य दोहस्यार्थे षट्सवत्सानपाकृत्यैकयैव शाखया शाखापवित्रमेकमेव । सन्निरुह्य विभज्य तेषु कुम्मारविश्रयति एवं यानि विभवन्त्यङ्गानि तानि सकृत् । अविभवन्त्यावर्तन्ते । संक्षालन निनयनान्तं दोहकैकस्यां करोति । ततः परमजान्युद्धा- स-आन्तानि पदार्थानुप्तमयेनैव सायं योहानसंपाद्य तैदोहदोहकर्मसमाप्त्य नन्तरं सायं यजेत । अत्र प्रधानस्यापक पूर्वाङ्गाण्यपकृष्यन्ते यानि तन्त्रेण क्रियन्त आज्यमागः- तान्यारादुपकाराणि यानि च संनिपत्योपकारागपि तन्त्रेणानुष्ठेयानि वैदिकरणस्तर- णादीनि यानि केवलं प्रातदोहार्थानि तेषां नापकर्षस्तेषां क्रमभङ्गमात्र सोदना प्रधान- संनिधाने वाऽनुष्ठानम् । तथा चार्य प्रयोगः-अग्निहोत्रोच्छेषणाभ्यातश्चनान्ते परिस्तर. गान्ते कर्मणे वा यज्ञस्य सदने पात्राणि प्रयुनक्त्यौषधप्रातहिपात्रान्वाहार्यस्थाली- वर्ग जुड़ासादनानन्तरं महत औदुम्बरान्यावन्तो दोहास्तावतश्चमप्तान्प्रयुनक्ति तेषां जुइ- वकल्पः संमार्गे वाजिनं त्वेति विकृतत्वात् । ब्रह्मवरणादि प्रणीताप्रणयनं प्रोक्षणी: संस्कृत्योत्तानानि पात्राणि प्रसूतः प्रोक्षति यजमानवाग्विसर्गः । उत्तरपरिग्राहादीनि कर्माण्यान्यस्थालीमासाद्येत्येतदन्ते दक्षिणोण्यां कुम्भीरासायाऽऽज्यभागान्ते, आवाहने तु अग्निमनआवह, सोममावह, इन्द्रं महेन्द्रं वाऽऽवहाग्निमावहेन्द्रं महेन्द्रं वाऽऽवहे. १ ख, तेऽतो । २ क. हादि यज । २४२ सत्याषाढविरचितं श्रौतसूत्र- [२द्वितीयपने- सादिकमविकृतम् । इन्द्रस्य मध्ये व्यवधान देवतान्तरेणेति पुनरापानमिति न्यायः । भाज्यभागान्ते कुम्भीभिः सह दक्षिणाऽतिकामन्निन्द्राय महेन्द्राय वाऽनुब्रूहीति संप्रे- प्यति । घमसानग्रेणाऽऽहवनीय परिकर्मिण आनयन्ति । यावत्यः कुम्भ्यः स्युस्ता- धन्तो ब्राह्मणा उपवीतिनश्चमसानादायकमध्वर्युरादाय तेषु कुम्भीरानीयाऽऽश्रावणादि चमस हति । तत्राध्वयोराहुतिमन्वये जुह्वति सर्वहुत, स्विष्टकृशक्षाश्च न विद्यन्त इत्या- पस्तम्बोक्तेश्च । ततो विरम्य श्वोभूने प्रातर्दोहपात्रैः सहौषधपात्राणि प्रयुज्य निर्वा- पादि प्रोक्ष्य प्रातर्दोहकाले पूर्ववदोहान्दुग्ध्वाऽप्यलेपं बर्हिषि निनीयाऽऽग्नेयेन प्रचर्य पूर्ववहाहैः प्रचरन्ति । तत आग्नेयात्विष्टकृदिडाद्यविकृतं ब्राह्मणभोजनान्तम् । प्रकारान्तरेणास्यैव प्रयोगमाह-

अपि वा यथाऽमावास्यायाꣳ हविर्दुहन्त्येवं दुग्ध्वाऽऽतंच्य निदध्याद्यत्प्रातः स्यात्तच्छृतं कुर्यात्पात्रसꣳ सादनकाले यथार्थं पात्राणि प्रयुनक्ति जुहुꣳश्चौदु- म्बरान्महतश्चमसाꣳस्तेषां जुह्वा कल्पो व्याख्यातः ।

अत्र पक्षे नापकर्षों यागस्य सार्य दोहान्बहून्दुह्यात्तत्पृथक्पृथग्दधि कृत्वा प्रात- दोहांश्रापि तथैव दोहकाले सायंप्रातोहार्थोश्चमसान्पृथक्पृथक्प्रयुनक्ति जुहूं प्रकृता प्रयुज्य । गतार्थमन्यत् ।

प्रचर्याऽऽग्नेयेन पुरोडाशेनाऽऽग्नीध्रे स्रुचौ निधाय सह कुम्भीभिरतिक्रामन्माहेन्द्रायानुब्रूयाश्रावयेन्द्रं यजेति यावत्यः कुम्भ्यः स्युस्तावन्तो ब्राह्मणा दक्षिणत उपवीतिन उपोत्तिष्ठेयुर्दारुपात्राण्यादाय तेषु कुम्भीरानीय सर्वे युगपज्जुह्वत्यध्वर्योराहुतिमनुजुह्वति ।

गतार्थमेतत् । तत आग्नेयस्य स्विष्टकृदादिकमविकृतं ब्राह्मणभोजनान्तम् । ब्राह्मणेभ्यो यथाशक्ति दक्षिणा देया। सतिष्ठते साकंप्रस्थायीयः ।। अथ दाक्षायणयज्ञः।

दाक्षायणयज्ञेन सुवर्गकामो यजेत ।

नेयं संज्ञाऽपि तु गुणविधिरिति । तदुक्तं पूर्वपलसिद्धान्ताभ्यां कात्यायनेन- नामफलगुणयोगात्कोत्तरं गुणविधानं संनिधिसंपद्वचनाम्यामिति । सनिधिः प्रकर- णम् । अनेन कृतेन दर्शपूर्णमासयागः कृत इति संपवचनं पूर्वेधुर्यजत इत्या- दिना । तस्मादयं फलार्थों गुणविधिस्तदिदं गुणविकारानित्येव स्पष्ट सूत्रितम् । ग.प.ज.म.इ. "तच्य नि। ६५० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । गुणस्त्वग्रिमप्रयोगप्रदर्शने स्पष्ट इति भावः । कथं, दक्षः कुशल उत्साहीति यावत्, तस्येमे प्रयोगास्तेनानुष्ठातुं योग्यास्ते दाक्षास्तेषां प्रयोगाणामयनमावृत्तिः प्रतिमासंस चासौ यज्ञश्चेति विग्रहः । एवमेव जैमिनीयैरपि साधितम् । केचिदापस्तम्बीया कर्मान्तरत्वमाशंसन्ते तयायेन सूत्रेण च विरुद्धम् । प्रयोगमाह-

द्वे पौर्णमास्यौ भवतो द्वे अमावास्ये ।

एवं द्वयोः प्रयोगयोः स्थाने चत्वारः प्रयोगा मवन्तीति तेषां प्रतिमासमावृत्तिर्ने तु काम्यत्वासकृदनुष्ठानमित्यर्थः। द्वे पौर्णमास्याख्यौ प्रयोगकै पूर्णिमाया प्रतिपदिप यथाप्रकृति यजेत ततोऽस्या अस्याभ्यास गुणको यागः प्रतिपद्यन्वाधानादि द्विती- पायां यनेतेत्यर्थः । तथैवामावास्यायामपि भवत भावृत्ते मवतः इति पूर्वेपुर्यजत इत्यस्य फोलितोऽर्य इत्यर्थः। विशेषमाह-

आग्नेयोऽष्टाकपालोऽग्नीषोमीय एकादशकपालः पूर्वस्यां पौर्णमास्यामाग्नेयोऽष्टाकपाल ऐन्द्रं दध्युत्तरस्यामाग्नेयोऽ- ष्टाकपाल ऐन्द्राग्न एकादशकपालः पूर्वस्यायममावास्या- यामाग्नेयोऽष्टाकपालो मैत्रावरुण्यामिक्षोत्तरस्याम् ।

अत्र पूर्वेधुर्यधाप्रकृति परेयुरनीषोमीयस्थान ऐन्द्र दधीति तथैवामावास्यायामपि वक्तव्ये गुरुनिर्देशनेता एवं नोपांशुयानोऽसोमयाजिनोऽप्यनीषोमीयोऽसंनयतोऽपि शृतं संनयतोऽप्यन्द्राग्न इत्येवममिदं वचनम् । अन्येऽग्नीषोमीयस्य ग्रहणं निय. मार्थमेव न तूपांशुयाननिवृत्त्यर्थमुभयनियमे गौरवादिति भवत्यूपांशुयाज इत्याहुः । अत्र प्रयोगः-दाक्षायणयज्ञेन सुवर्गकामो यक्ष्ये पञ्चदश वर्षाणीति संकरप्य पौर्ण- मास्यां प्रतिपदि च तथाऽमावास्यायां प्रतिपदि द्वितीयायां चर्विकामप्रयोगवदेतेई- विनिः प्रयोगो ज्ञेयः । नात्र प्रधानमात्रस्यापकर्षः साकप्रस्थायीयवर्तिकत्वन्वाधानादि- ब्राह्मणभोजनान्तस्य प्रयोगस्याऽऽवृत्तिरिति प्रयोगेऽम्यस्ते संस्थिते वैमृधो न.तूमयेयुः। भैत्रावरुण्यामिक्षा यद्यपि दर्शपूर्णमासगता तथाऽपि वैश्वदेव्यामिक्षाया विकृतिः । अत्रास्मच्छाखायां वाजिनयागान्ताङ्गप्रचारानभिधानात्सूत्रे चातो गुणविकृतस्वेन प्रकृतिरपि विकृतिरियमस्या अतिदेशस्तु साङ्गविहितवैश्वदेवामिक्षात एव । अत्र वाजसनेयिनां मैत्रावरुण्यामिक्षायामेव तप्ते प्रातोह इत्यायामिक्षात्पत्तिविधिरस्ति । स च सर्वशाखाप्रत्ययन्यायेनात्रैव सूत्रकृता ब्याख्येयस्तथाऽप्यामिक्षान्युद्धरणाद्य- १ ख. देव्याऽऽमिक्षयाऽते । . - २४४. सत्याषाढविरचितं श्रौतसूत्रं- [२द्वितीयप्रश्न- शानि बहूनि वैश्वदेव्यामिक्षायामेव तामणानुसारेण व्याख्यास्यन्ते । अत उत्पत्ति- विधिरपि तत्रैव व्याख्यास्यते प्रकृतिगतोऽपि लाघवाय तस्मात्तदतिदेशमेव सर्वा. भिक्षासु वदिष्यति । अतोऽत्रापि प्राप्ती नवप्रयानादिप्राप्तिमने निवारयिष्यामः । अत्र विशेषमाह-

तस्यैतद्व्रतं नानृतं वदेन्न माँसमश्नीयान्न स्त्रियमुपेयान्नास्य पल्पूलनेन वासः पल्पू- लयेयुर्नाञ्जीत नाभ्यञ्जीतर्तौ जायामुपेयात् ।

कर्माणतयाऽनृतवदनमांसमोजनस्त्रीमैथुनानि प्रतिषिध्यन्तेऽन्तरालेऽपि अन्यथा कर्म- वैगुण्यं स्यादित्यर्थः । त्रितयं स्पष्टम् । पल्पूलनं वनपक्षालनसाधनं पाषाणादि यत्प्रसिद्धं तेन नास्य दाक्षायणयज्ञयाजिनो वासो वस्त्रं +न परपूलयेयुः शिष्यभृ- स्यादयः [किंतु] हस्तादिभिरेव । तथा रजकेनापि प्रक्षालन न कार्यम् । प्रकारान्तरे- जैव वस्त्रधावनं कार्यम् । अत्र विशेषानभिधानात्सर्वदैव ब्रतानि स्युः । अञ्जनाम्यञ्जने प्रसिद्ध । तत्र गृहमंधीये विधानाद्भवतः । न स्त्रियमुपेयादित्युक्तस्य संकोचमाह विधिना-प्रती जायामुपेयाद्गच्छेत् । तथा गमने वैधे तु न वैगुण्य क्रतोः । अत्रोक्तं भरद्वाजेन--अन्तराख्नतानि यथा चातुर्मास्येष्विति । भन्येषां गुणविकाराणां यदा कामस्तदा कृत्वाऽन्यदा त्वविकृती यागौ यावनी. वादिपक्षेषु न तथाऽयं कुतो दर्शपूर्णमासप्रकृतप्रयोगेणाऽऽरम्भ एव विकल्पा- दित्याह-

सोऽयं दर्शपूर्णमासयोरादितो विकल्पोऽनेन दर्शपूर्णमासाभ्यां वा यजेत ।

सोऽयं दर्शपूर्णमासाम्यां नित्यप्रयोगाभ्यां काम्यप्रयोगाभ्यां फलितोऽस्य दक्षिा- यणयज्ञस्य विकल्प आदित आरम्म एवाऽऽधानानन्तरकाल एवं ज्ञेयो न विच्छया तयोरारब्धयोरस्य प्रयोगस्तस्मिन्त्राऽऽरब्धे तयोः प्रयोगः। अथ कथमेवमिति चेत्तत्राऽऽह-

तेन पञ्चदश वर्षाणीष्ट्वोत्सृजति दर्शपूर्णमासौ ।। १६ ।।

इति हिरण्यकेशिसूत्रस्य द्वितीयप्रश्ने षष्ठः पटलः ।। ६ ।।

यतोऽयं पाश्चदशवार्षिकः प्रयोगो नियम्यते गतायामपि कामनायां सति जीवने निमित्ते त्यक्तुमशक्यत्वात्स एव नित्यतां गतः काम्यदर्शपूर्णमासवत् । अत्र यनेत

अत्र प्रतिषिद्धमिति क. ग. च. छ. ट, 8. ण. पुस्तषु विद्यते तस्मामादिकमिति प्रतिभाति । नेतिपदमधिकम् । १क. 'भेत।

  • ७० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २४५

चेत्युक्तमापस्तम्बेन । यावज्जोवमित्यर्थः । उभयथाऽपि पुनरारम्भो निषिद्धः प्राकृतयो- दर्शपूर्णमासयोरिति सिद्धम् । उत्सर्गोऽनयोरपि । अथ वा दाक्षायणयज्ञलक्षणौ दर्श- पूर्णमासावुत्सनेदित्यर्थः । अत्रापि न पुनः प्राकृतयोरारम्भ इत्यपि सिध्यत्यर्थादिदम ग्रिम प्रश्ने स्फुटयिष्यते । इति सत्यापाढहिरण्यकशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवे. जयन्त्यां द्वितीयमश्ने षष्ठः पटलः ॥ ६ ॥


2.7 अथ द्वितीयप्रश्ने सप्तमः पटलः ।

समाप्तौ दर्शपूर्णमासौ । एवं सविकारौ सानुनिर्वाप्यौ सविकल्पो दर्शपूर्णमासाख्यौ यागौ व्याख्याय ब्रह्मस्वं व्याख्येयेऽपि दर्शेऽध्वर्युणाऽनुष्ठेयत्वसाम्येन तादृशस्यापि न दर्शाङ्गतेति वक्तुं पिण्डपितृयज्ञाख्यं दर्षिहोमपिण्डदानसमुदायाख्य(यरूपं) कर्म 'तिस्त्र आहुती होति त्रिनिदधाति षट् संपद्यन्ते' इति श्रुतं व्याचष्टे-

अमावास्यायामपराह्णे पिण्डपितृयज्ञेन यजते ।

संज्ञान्तरात्स्थतन्त्रकालविधानासंस्कारेषु पृथगभिधानाञ्च निष्क्रीय प्रतनुत इत्या- दिना नित्यो न्याय्यो नतु काम्यः कर्मान्तरम् । यद्यपि यनतिः श्रूयते तथाऽपि न यागो नितिया संज्ञया यजेरन्यार्थत्वं पिण्डैः पिण्डदानेन सहितः पितृभ्यो देवेभ्यो यज्ञो होमः स पिण्डपितृयज्ञः । पिण्डा मानुषेभ्यः पितृभ्यो दीयन्त इति प्रसिद्धम् । तदिदं पिण्डदानं पिण्डशब्नोपलक्षितं, तेन सहभावो देवरूपपितृहोम- स्योक्तस्तेन पिण्डदानहोमयोरुभयोरपि प्राधान्यमुक्तं, तेनास्य कर्मणो देवत्वं पित्र्यत्वं पास्ति । ततस्तु जीवैपितुः पिण्डदानलोपेऽपि होमेनैव तसिद्धिरसोमयाजिन इवाऽऽ. शेयोपांशुयागाभ्यां पौर्णमाप्तसिद्धिः । अत्र दानहोमात्मके कर्मणि न ददातेः प्रयोगो नापि जुहोतेः । अत एव सूत्रान्तरे श्रुत्यन्तरे च पिण्डपितृयज्ञेन चरन्तीति सामान्यप्रयोगः । अतः सूत्रकृता यज्ञशब्देन सहकृतशाखान्तरीयो यजतिरेव प्रयुक्तः साङ्गयज्ञेविधिवदत्रापि साङ्गकर्मविधानाज्जुहोतिददात्योरनुगतप्रदानमात्रसा- मान्यवाची। तत्रोभयोः प्राधान्येऽङ्गानि कि पित्र्याणि प्राचीनावीतित्वलक्षणानि तद्वि. परीतानि देवानि वेति संदेहे त्वनियमप्राप्तौ प्रयोगेण न्यायमाहऽऽचार्यस्तस्याभिप्रायो वर्यते । तत्र पितृतन्त्रस्य मुखतः प्रवृत्तेस्तस्य बलवत्त्वम् । कथम्, अपां मेध्यमिति बहिराहरणं पित्रर्थमेव । परिस्तरणानि तु पृथगेव परिभोजनीयैर्यदा न पिण्डदान १ ख, ग, च. छ. ठ. ण. 'वपितुः । 1 २४६ सस्याषाढविरचितं श्रौतसूत्र- [२द्वितीयप्रश्ने-

[तदान बहिराहरणं प्रयोजनामावात् । परिस्तरणार्थ परिभोजनीयाहरणं तु कर्तव्य- येव । तस्माद्धोमात्प्राचीनं सर्वमुभार्थमपि पियधर्मेणैव कार्यम् । परिस्तरणा- न्यप्युभयार्थीन्येव देवानामुभयेषां निवासार्थ संस्तवात् । तस्मात्प्राचीनावीती मूत्वाऽध्वर्युः कर्माणि सर्वाण्यपि कुर्यात्समानकर्तृकत्वादनप्रधानयोः प्रथमप्रधानेs- ध्वर्यु होमे कर्तारं वक्ष्यत्यतोऽध्वर्युरेव तत्राङ्गानां कर्ता । दक्षिणापवर्गाण्यप्र- दक्षिणं चेत्यादि दर्शितं ज्ञेयम् । अत एवोक्तं दक्षिणाप्रागौरिति होमार्थमुप- विष्टोऽध्वर्युरुपवीतीत्याद्याह । अपराहशब्दस्य कालवाचित्वात्तत्सममिव्याहतस्तद पेक्षितोऽमावास्याशब्दोऽपि. कालपर एव तत्रैव मुख्यत्वाच । यजति चरती. त्यर्थः । आपस्तम्बेनाप्युक्तं चरन्तीति । अपराहोऽत्र नवधा विमक्तस्यौदोऽष्टमो मागः सवितुः प्रसव इति निरूपितो यदा मासिके श्राद्धेऽधिकारी तदा द्वेधा विभागमाश्रि- त्यापराहो ग्राह्योऽन्यथा पिण्डपितृयज्ञानन्तरं क्रियमाणस्य काललोपः स्यात् । अन्यस्य श्रेधा विभागः।

अधिवृक्षसूर्ये वा ।

वृक्षानधि सूर्यो यत्र स तथा तत्रे यागः । अमावास्याशब्दस्य पञ्चदश्यां प्रतिपदि च प्रवृत्तेनियममाह-

यदहः पुरस्ताच्चन्द्रमसं न पश्यन्ति ।

प्रत्यक्षेण शास्त्रेण वाऽनादिव्यवधाने तत्र संघिमतीत्यर्थः । यदि दृश्यते तदाऽऽह-

दृश्यमाने तूपोष्य श्वोभूते यजते ।

उषित्वा सत्यसति वा पर्वसंधी परदिनेऽपराह्वेऽधिवृक्षसूर्ये वा यजते । प्राचीनावीति-

अपां मेध्यं यज्ञियꣳ सदेवꣳ शिवमस्तु मे । आच्छेत्ता वो मा रिषं जीवानि शरदः शतमिति सकृदाच्छिन्नꣳ समूलं बर्हिराच्छिनत्ति ।

सकृत्प्रयत्नेन मूलैः सह । यत्समूलं तपितृणामिति श्रुतेः सकदाच्छिन्नमिति स्तरणमन्त्रलिङ्गाच्च । उदकस्पर्शः।

दक्षिणाप्रागग्रैर्दर्भैर्दक्षिणाग्निं परिस्तीर्य ।

दक्षिणा च प्राचाग्राणि येषां ते पुरस्तात्पश्चाच्च दक्षिणाया दक्षिणोत्तरतस्तु प्रागना इत्यर्थः । प्रागादिप्रदक्षिणं परिस्तीर्य । - त. म. च. 8. "तस्त्व। २ ख. 'स्या: सप्तमो । ३ क. ट.को देवस्य । च. मधि ५क, ग, च. छ.ट, 8. ण 'म। ७स पटलः] महादेवकृतवैजयन्तीब्याख्यासमेतम् । २४७

उत्तरेणाग्निं दर्भान्सꣳस्तीर्य ।

परिस्तरणसंस्तरणयोः परिभोजनोया एव । संस्तरणे तु न दक्षिणायता विधाना- मावास्पिये ।

एकैकशः पिण्डपितृयज्ञपात्राणि प्रयुनक्ति ।

पिण्डपितृयज्ञाधिकारे पुनः पिण्डपितृयज्ञपात्राणीति वचनं दार्शपौर्णमासिके- भ्योऽन्यत्वख्यापनार्थम् । पिण्डपितृयज्ञारम्भे पात्राणि तदर्थानि कार्याणि । यद्यनाहि. ताग्निस्तदा तु न वक्तव्यमेव सिद्धमेवान्यकरणम् । एकमेकमित्यर्थः । न सह सर्वाणि नापि द्वे द्वे एकमेकर संभरेपितृदेवत्यानीति श्रुतेः ।

स्फ्यꣳ स्थालीं मेक्षणं शूर्पं कृष्णाजिनमुलूखलं मुसलम् ।

प्रागपवर्गाण्युदगपवर्गाणि वा श्रौतत्वात् ।

अपरेणाग्निं व्रीहिमच्छकटमवस्थाप्यैकपवित्रान्तर्हिताꣳ स्थालीं व्रीहिभिः पूरयित्वा निमृज्य पितृभ्यस्त्वा जुष्टं निर्वपामीति सकृदेव शूर्पे निर्वपति ।

निमृन्याधिकानुपरि राशीभूतान्हस्तेन निःसार्य । स्पष्टमन्यत् । शकटामावे स्फ्ये पाच्यां वा।

दक्षिणेन दक्षिणाग्निं दक्षिणापूर्वेण दक्षिणापरेण वा प्रत्यगुदग्ग्रीवं कृष्णाजिनमास्तीर्योलूखलमधिवर्त्य ।

दक्षिणेनाऽऽग्नेयेन नैर्ऋत्येन वेत्यर्थः । वायव्यग्रोवम् । स्पष्टं गतार्थ चान्यत् ।

दक्षिणाप्राची पत्नी तिष्ठन्त्यवहन्ति ।

आझेयाभिमुली।

परापावमविवेकꣳ सकृत्फलीकरोति दक्षिणाग्नौ जीवतण्डुलमिव चरुꣳ श्रपयित्वोत्पूतेन नवनीतेनानुत्पूतेनाऽऽज्येन वाऽऽभिघार्योद्वास्य ।

परापावं णमुल् । पूधातोः परापूय परापूय तुषाणां परापवनं निःसारणं कृत्वा कृत्वेत्यर्थः । अविवेकमयमपि णमुल् । अविविच्याविविच्येत्यर्थः । सतुषवितुषानविविच्य केवलं तुषमेव निर्गमथ्य सकृदेकवारमेव फली करोति कविमोकार्थम् । जीवास्त- घडुला अविशीर्णास्तण्डुला यस्मिंश्चरौ तादृशमनतिपाकमित्यर्थः । एकपवित्रणोत्तेन नवनीतेन ।

क. व. ग. चं. छ. ट. , "धिवृत्ल ।।३ग, च. उ. ग्यामि । ३ घ... ज. झ.प.ट. "तेन चा सपिंषामि'। X २४८ सत्यापाठविरचितं श्रौतसूर्य- [२द्वितीयपने-

अध्वर्युरुपवीती दक्षिणं जान्वाच्य मेक्षणेन स्थालीपाकस्योपहत्य ।

मध्वर्युग्रहणं प्रधानानां भागे कर्तृत्वार्थ भागान्तरे यथा यजमानः स्वधर्मविशिष्टः को स्यादित्येवमर्थम् । कथं, पिण्डपितृयज्ञोऽयं कर्मणां समुदायस्तत्र त्रयो होमास्तिस्त्र आहुती होतीति तेषां जुहोतिना नोदितत्वाद्दविहोमत्व, कतिपयानां दविहोमधर्माणां विशेषविधिना पिण्डपितृयज्ञप्रकरणस्थेन बाधेऽपि कर्तुरध्वयोरवाध स्मारयितुमुक्त. मध्वर्युरिति । यजुर्वेदेनाग्निहोत्रमित्युक्तं तदुपलक्षणं सर्वदविहोमानामिति पिण्डपितृ- यज्ञोऽपि दर्विहोमत्वेनाध्वर्युकर्तृक इत्यर्थम् । किं च नानाध्वर्युरपूर्वो विधीयते किं तु दशेश्यर्थ वृत एवाध्वर्युरित्युक्तं दक्षिणान्तरानुपदेशात्तत्कालान्तर्गतकर्मणोऽपि प्रसकेन सिद्धिः । दक्षिणनानुपातो हि स्मार्ते विकल्पेन तन्नियमार्थमेव । होमस्य दैवत्वादुः पवीतीत्युक्तम् । अत एव दक्षिणं जान्वाच्य भूमि प्रापय्येत्यर्थः । गमनार्थस्याञ्चेणि- मन्तस्याऽऽङ्पूर्वकस्य त्यपि रूपम् । भेक्षणेनोपहत्येति वचनमवदानधर्मनिवृत्त्यर्थ, मेक्षणेन गृहीत्वा स्थालीपाकस्येति तदेकदेशमित्यर्थः । स्थालीपाकस्योमयार्थत्वान्नाव- शिष्टस्य शेषतेति भावः।

सोमाय पितृपीताय स्वघा नम इति प्रथमामाहुतिं जुहोति यमायाङ्गिरस्वते पितृमते स्वधा नम इति द्वितीयामग्नये कव्यवाहनाय स्विष्टकृते स्वधा नम इति ये मेक्षणे तण्डुलास्ताञ्जुहोति ।। १७ ।।

तृतीयामाहुतिमिति अर्थासिध्यति । अत्र दविहोमत्वेन स्वाहाकारप्राप्तावपि नमस्कारेण तदर्थाभिधानादुक्तार्थानामप्रयोग इति न्यायान्न स्वाहाकारः । तथाहि- स्वाहाकारवषट्कारौ दानार्थों स्वाहाकारेण वषट्कारेण वा देवेभ्यो दीयत इति श्रुतेः । स्वधा नम इति वषट्करोतीति श्रुतेर्वषट्कारार्थता स्वधा नम इति शब्दस्यातो दानार्थेनानेन स्वाहाशब्दस्य बाधः । अत एव दपिहोमेऽपि यज्ञशब्दो वषट्कार- प्रदानस्वधर्मत्वेनेति प्रथमामित्यादिसंख्या सोमाय पितृपीताय स्वधा नम इत्येका ब्राह्मणे विहिता द्वितीया न विहिताऽतोऽन्ययोः शाखान्तरीययोनिकश्पो मा मूदिति तृतीयाऽपि स्वशाखाविहिताऽग्नये कन्यवाहनायेति केवला सा स्विष्टकृणकोक्ता शाखान्तरादिति विनिवेशप्रदर्शनार्थं ये मेक्षणे लग्नास्तण्डुलाः सिक्थलक्षणा द्वितीयाहुः तिहोमावशेषितास्तानेव तृतीयामाहुति जुहोतीत्यर्थः ।

तूष्णीं मेक्षणमादधाति ।

सष्टम् ।

ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टानस्मात्प्रणु स०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २४९

नोक्तु लोकादिति दक्षिणाग्नेरेकोल्मुकं धूपायत्परा- चीनꣳ हृत्वा दक्षिणेनैकस्फ्यादेशे निदधाति ।

यदानीतमवाङ्मुखं याऽये चिकीर्पिता वेदिरेकरफ्या तस्या देशेऽन्ते । उल्लिखि- तान्ते निदधातीत्यापस्तम्बः । दक्षिणाः सकाशाद्दक्षिणेन हृत्वेति संवन्धः । इदमट्ट- ष्टार्थमारानुपकारकं कर्म विधीयते संस्कारो वा वेदेः । तदपि पिण्डदानस्याङ्गं तदभावे न स्यात् । मेक्षणप्रहरणानन्तरं प्राचीनावात्यैवाध्वर्युः ।

अपहता असुरा रक्षांसि वेदिषद इत्यवहननदेशे दक्षिणां दक्षिणाप्राचीं वा स्फ्येनैकस्फ्यां वेदिमुल्लिख्य ।

दक्षिणेन दक्षिणाग्निमित्याद्य तेऽवहननप्रदेशे दक्षिणापवर्गामाग्नेय्यपवर्गा वा वेदि- मेकस्मयानामिकामेकः स्फ्यः साधनं यस्या इति विग्रहः । एकरेखयोल्लिखितेत्यर्थः सकृत्स्फ्येनोलिख्येत्युक्तमापस्तम्वेन ।

उदीरतामवर इत्यद्भिरवोक्षति ।

अवाचीनहस्तेन प्रोक्षणमवोक्षणम् । प्रोक्षणीसंस्कारनिवृत्त्यर्थमद्भिरित्युक्तम् ।

सकृदाच्छिन्नं बर्हिरुर्णा मृदु स्योनं पितृभ्यस्त्वा भराम्यहम् । अस्मिन्सीदन्तु मे पितरः सोम्याः पितामहाः प्रपितामहाश्चानुगैः सहेति सकृदाच्छिन्नेन बर्हिषैकस्फ्यास्तृणाति ।

स्पष्टम्।

तस्याꣳ स्थालीपाकं निदधाति ।

म हुतमर्धमेकरफ्यायां निदधाति सादयति ।

दक्षिणत आञ्जनमभ्यञ्जनं कशीपूपबर्हणमुदकुम्भं च प्रतिष्ठापयति ।

आञ्जनं कज्जलम् । अभ्यञ्जनं तैलम् । मस्तु पितृणामिति श्रुतेर्दधिमण्ड उपरितन- स्नहो वा । कशिपु मञ्चः । सतूलिक इति केचित् । उपबर्हणं शिरस्युपधानम् । उद- केन युक्तं पूर्णकुम्भम् । एतावताऽध्वर्युविरमति ।

यजमानः प्राचीनावीती सव्यं जान्वाच्य सकृदाच्छिन्नेऽ- वाचीनपाणिर्दक्षिणापवर्गाꣳस्त्रीनुदकाञ्जलीन्निनयति ।

सकृदाच्छिन्ने स्तीर्णे बहिषीत्यर्थः । अवाचीनौ तिर्यगावर्तितौ पाणी कृताञ्जली येन निनयनवेलायामञ्जलिना सेचनं पित्र्येण तीर्थन कार्यमित्यर्थः । अथवाऽवाचीनो

है १ प. अ. ज, झ, म. ढ, 'देश नि। ३३ 'सत्याषाढविरचितं श्रौतसूत्रं- [२द्वितीयप्रश्ने-

दक्षिणः पाणिर्यस्येति निनयनवेलायामञ्जलिभूतस्य पाणेर्दक्षिणस्यावाचीनताऽधरता कार्येति स एवार्थः । उदकेन पूर्णानञ्जलीन्निनयति रेचयति । स्पष्टमन्यत् ।

तत्र विकल्पेन मन्त्रद्वयमाह-

मार्जयन्तां पितरः सोम्यासो मार्जयन्तां पितामहाः सोम्यासो मार्जयन्तां प्रपितामहाः सोम्यास इत्यसाववनेनिङ्क्ष्वासाववनेनिङ्क्ष्वेति वा ।

अत्रैकेनेतिकरणेनैकमन्त्रता सकृन्मन्त्रो द्विस्तूष्णीमिति स्यात् । मध्ये विभागे कारणं नास्ति तथाऽपि विनियोगं प्रदर्श्य मन्त्रं प्रदर्शयत्याचार्यस्तज्ज्ञापयति त्रयोऽञ्जलयः पृथक्स्थानसंस्कारार्था इति स्यात्प्रत्येकं मन्त्रो मन्त्रलिङ्गाद्विभागेनैव तेष्विति निनयनप्रदेशान्पृथङ्निर्दिशति । ते च पित्रादित्रयस्य क्रमेणेति मन्त्रविभागेन त्रित्वं प्रत्येकं क्रियासद्भावाच्च । असावित्यस्य स्थाने पित्रादीनां क्रमेण नामानि लौकिकानि संबुद्ध्यन्तानि मध्यमपुरुषनिर्देशाद्गृह्णाति न तु पितस्तातेति नापि द्वयं विधानाभावान्नापि अध्वर्युर्वाऽऽन्तरैर्हि पिण्डदानं क्रियत इति। तत्र त्रयं त्रयमेकैकस्येति गम्यते । कृष्णावनेनिङ्क्ष्वेत्यादि कृष्णशर्मन्नवनेनिङ्क्ष्वेत्यादि वा

तेष्ववाचीनपाणिर्दक्षिणापवर्गाꣳस्त्रीन्पिंडान्ददाति ।

निदधाति परस्वत्वापादनरूपस्य दानस्यात्रासंभवात् । अत एव त्रिर्निदधातीत्येव श्रुतिः। अत्र देवतात्रयनिरूपितमेकं कर्म तथाऽपि तस्य प्रतिदेवतमभ्यासस्त्रिरिति श्रुतावभ्यासार्थ एव । तथा होमभक्तिरियम् । तेषु निनयनेन संस्कृतेषु स्थानेष्वेव क्रमेण त्रींश्चरोः पिण्डान्कृतान्ददाति । अवाचीनो दक्षिणः पाणिर्यस्याङ्गुष्ठभागपार्श्वमधो यस्य पाणेः सोऽवाचीनः । दक्षिणसमाप्तीन्क्रमेण ददाति । दानक्रियायामधिकरणं यद्यपि न संभवति तस्या यागवन्मानसत्वात्परं तु परस्वत्वापादनेनांशेन प्रक्षेपान्तताऽप्यस्ति होमवदिति कृत्वाऽधिकरणमुक्तं प्रक्षेपं प्रति पूर्वमस्माभिर्दानस्य परस्वत्वापादनापवर्गतोक्ता, सा तु सर्वदानानुयायिनी । न हि पृथ्व्यादिदानेषु दीयमानस्य प्रक्षेपः संभवति प्रकृतेऽयं न धात्वर्थः किं तु प्रक्षेपो धात्वन्तरस्य निदधातेरर्थ उत्पत्तिविधौ हि त्रिर्निदधातीति श्रवणात्तेनोपलक्षितं दानमत्र तथा पर्यवसन्नमिति न विरोधः।

मन्त्रमाह-

एतत्ते ततासाविति पित्रे पिण्डं ददाति ।

एतत्ते तत ये च त्वामन्विति मन्त्रस्य प्रतीकम् । असाविति शाखा(स्त्रा)न्तरलब्धं पूरितं मध्ये । अत एवोक्तमापस्तम्बेन-एतत्ते ततासौ ये च त्वामन्वित्येतैरिति । पित्र्येष्ट्यां च तथैव पठितमेतत्ते तत ये च त्वामन्विति । तथा च पिण्डं गृहीत्वा- एतत्ते ततामुकश७स०पटल महादेवकृतवैजयन्तींव्याख्यासमेंतम् ।

मन्ये च त्वामन्वित्येतनिदधाति विण्डम् । नात्र गोत्रवसुरूपादिशब्दोच्चारणमविधानात् । स्मार्ने तथाविधागृह्यते । केचित्रापि कुर्वन्ति तत्सूत्रभाष्यसूत्रान्तरमाध्यान्तरविरोधानु- पेक्ष्यं याज्ञिकैः ।

एतत्ते पितामहासाविति पितामहायैतत्तै प्रपितामहासाविति प्रपितामहाय।

पूर्ववव्याख्या ।

तूष्णीं चतुर्थम् ।

पिण्डमिति पूर्ववत् ।

स कृताकृतः ।

एकस्यां शाखायां विहितोऽपरस्यां निषिद्धोऽन्यतरस्यां विकल्पित इत्यर्थः । कर्तव्ये तस्मिंस्तूष्णीम् ।

अथ यदि नामधेयानि न विन्द्यात्स्वधा पितृभ्यः पृथिविषद्भ्य इति पित्रे पिण्डं दद्यात्स्वधा पितृभ्योऽन्तरिक्षसद्भ्य इति पितामहाय स्वधा पितृभ्यो दिविषद्भ्य इति प्रपितामहाय ।

पित्रादिनामाज्ञाने त्वेतैरेव मन्त्रैर्यथापूर्वं दद्यात् । पित्रोमरणे स्वयं बाल एव पश्चा- दन्येनोपनयनादिना संस्कृतस्तत्र पित्रादिनामधेयानि नाज्ञासीदिति तवाल्ये मृतपि- त्रादिविषयं प्रवसति यजमानेऽध्वर्युविषयं च । पृथिविषद्भय इति पृथिवीशब्दे ह्रस्वत्वं छान्दप्तम् ।

यदि द्विपितैकैकस्मिन्पिण्डे द्वौ द्वावुपलक्षयेत् ।

दत्तकीतादिढिपिता स एकस्मिपिण्डे द्वौ पितरौ पितामहपिण्डे द्वौ पितामही प्रपि. तामहपिण्डे द्वौ प्रपितामहावुचारयेद्हेनेत्यर्थः । एतद्वा ततो विष्णुकृष्णशर्माणौ ये च वा मनु । एवमुत्तरत्रापि । अत्रापि नामाज्ञाने स्वधा पितृभ्य इत्यादिभिरेव दानम् ।

जीवपिता पितामहाय प्रपितामहायेति दद्यात् ।

जीवः पिता यस्येति तथा स द्वौ पिण्डौ दद्यात् । इतिकरणः प्रकारवाची । तेन जीवपितामहः पित्रे प्रपितामहाय जीवप्रपितामह इतरयो? जीवतस्तदन्यस्मै सर्वेषु न कस्मा अपीतिकरणार्थः ।

  • सूत्रपुस्तके वेद यदीति विद्यते ।

घ.ज.म.न, ददाति स्वधा। २५२ सत्याषाढविरचितं श्रौतसूत्रं- [ २ द्वितीयप्रश्ने-

न जीवन्तमति ददातीत्येकेषाम् ।

उभयोर्मध्ये यो जीवति तमतिक्रम्य न ददातीत्यर्थः । प्रपितामहे जीवति पूर्वाभ्यां द्वयोर्जीवतोः पित्रे दातव्यमेवातिक्रमणमात्रप्रतिषेधात्पूर्वं यस्मै देयस्तस्मिञ्जीवति परस्मै दीयते तत्रैव प्रतिषेधः पूर्वसूत्रप्राप्तस्य । तत्र यावति कर्मण्यनधिकारस्तावदेव त्याज्यं न पिण्डपितृयज्ञ एव न ददातीति दानमात्रप्रतिषेधात्कार्यमेवेत्यभिप्रायेणाऽऽह-

होमान्तमेव कुर्यात् ।

मेक्षणप्रहरणान्तमित्यर्थः।

जीवपितुः पिण्डदानप्रभृत्युत्तरं लुप्यते ।

किमर्थमिदमुच्यते गतार्थत्वात् । उच्यते-द्विपितुरेकस्मिञ्जीवति तत्प्रभृति तत्प्रमुखं द्वयं लुप्यते नत्वन्यदपीत्येवमर्थमिदमिति ब्रूमः । प्रकृतं वक्तुं स्मारयति-

निधाय पिण्डान्

अनुवादः।

आपो देवीः स्वधया वन्दमानास्ता वो गच्छन्तु पितरः स्योनाः । ऊर्जं वहन्ती सतमक्षितोदकाः क्षीरमुदकं घृतं मधु पयः कीलालं परिस्रुतꣳ स्वधा स्थ तर्पयत मे पितॄनिति त्रीनुदपातान्निनयति ।

पिण्डेषु निनयनं प्रत्येकमेकमेकं संस्कारोऽयं यद्यपि प्रत्येकं प्राप्तस्तथाऽपि बहुव- चनेन सर्वेषु धारया सकृत्पातो मा भूदिति त्रीनित्युक्तम् । एकमेव पूर्णोदकं पात्रमुदकु- म्भाद्गृहीत्वा प्रत्येकं पिण्डेषु पातयेद्द्रव्यपृथक्त्वेऽभ्यावर्तत इति न्यायात् ।

अत्र पितरो यथाभागं मन्दध्वमनुस्वधमावृषायध्वमित्युक्त्वा वा पराङावर्तते ।

प्रदक्षिणं परावर्तते । मन्त्रस्तु पूर्वमेव जप्यः पिण्डानां पराङ्मुखस्तिष्ठेदित्यर्थः ।

ओष्मणो व्यावृत्त उपास्ते स्वाहोष्मणो व्यथिष्या इत्यूष्माणमुद्यन्तमनुमन्त्रयते ।

पराङ्मुख एवोद्यन्तं पिण्डेभ्य ऊष्माणमनुमन्त्रयते ।

  • सूत्रपुस्तकेषु निनयतीत्यत्र निनीयेति विद्यते।

१ क. ग. च. छ. ट. ठ. यः । स्वा । ७प्त० पटल: ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २५३

व्यावृत्त ऊष्मण्यव्यावृत्ते वाऽमीमदन्त पितरोऽनुस्वधमावृषायीषतेत्युक्त्वोपपर्यावर्तते ।

व्यावृत्त इति स्वशाखाविकल्पितविध्यन्तरसद्भावादस्मच्छाखाविधिः। ओष्मणो व्यावृत्त उपास्त इति यावदूष्मणो व्यावृन्निर्गमनं पिण्डेभ्यस्तावत्परावृत्त एवोपास्त इति शाखान्तरीयस्तु तद्विपरीतस्तदर्थं विकल्पः । अमीमदन्तेति मन्त्रमुक्त्वा यथेतं पिण्डसंमुखो भवेदित्यर्थः ।

यः स्थाल्याꣳ शेषस्तमवघ्रेण भक्षयति ।

भक्षणबुद्धिकरणं कार्यम् । उदकस्पर्शः ।

उपस्पृशति वा ।

बहिर्निष्कास्य हस्तेन स्पृशति । नोदकस्पर्शः ।

आमयाव्यन्नाद्यकामो वा प्राश्नीयाद्यो वाऽलमन्नाद्याय सन्नान्नमद्यात्तेन प्राश्य ।

रोगी रोगनिवृत्तयेऽन्नमदनीयं योग्य कामयते स वा प्राश्नाति । यः पुमानन्नाद्याय समर्थों नान्नमद्यादरुचिदोषेण तेन प्राश्य श्रुत्यनुसारेण क्रियाद्वयं प्रयुक्तम् ।

अत्राऽऽञ्जनाभ्यञ्जने वासश्चानुपिण्डं ददाति ।

अत्रेति वचनं सूत्रान्तरेऽञ्जलिनिनयनानन्तरमुक्तं तेन विकल्पो मा भूदिति । प्रतिज्ञेयम् । विधिमाह-

आङ्क्ष्वासावाङ्क्ष्वासाविति त्रिराञ्जनमभ्यङ्क्ष्वासावभ्यङ्क्ष्वासाविति त्रिरभ्यञ्जनम् ।

प्रत्येकं त्रिः सकृन्मन्त्रेण द्विस्तूष्णीमेवं प्रत्येकमिति भाष्यकृत् । त्रिर्ग्रहणं चतुर्थपिण्डनिवृत्त्यर्थमित्यन्ये । तदा सकृदेव ।

एतानि वः पितरो वासाꣳस्यतो नोऽन्यत्पितरो मा यूढ्वमिति दशामूर्णास्तुकां वा छित्त्वा न्यस्यति पूर्वे वयसि ।

स्ववस्त्रदशामविलोमपुञ्जं वाऽविस्थं छित्त्वा नतु पतितं पिण्डेषु क्षिपति सकृन्मन्त्रेण सर्वेषु निधाने सकृन्मन्त्रः संभवेदित्येवमर्थं न्यस्यतीत्युक्तम् । पूर्वं वयः पुरुषायुषस्य शतस्य पूर्वमर्धं पञ्चाशद्वर्षाणि । पञ्चाशद्वर्षताया ऊर्ध्वं स्वं लोमेत्याश्वलायनः । तस्मात्पूर्वं पूर्वं वयः । अथवा त्रेधा विभक्तस्य पूर्वौ द्वौ भागौ पूर्वं वयः । तदाह बौधायन:- षट्षष्टेश्च वर्षेभ्योऽष्टभ्यश्च मासेभ्यश्चेति । - १५. रु.ज.म. म. द. वजिने । २५४ सत्याषाढविरचितं श्रोतसूत्र- [२ द्वितीयप्रश्ने-

स्वं लोम च्छित्त्वोत्तरे ।

नाभेरूर्ध्वं वै पुरुषस्य नाभ्या इति श्रुतेः । गतम् ।

नमो वः पितरो रसायेति नमस्कारैरुपतिष्ठते ।

नमःशब्दपूर्वकाः सप्त मन्त्रा एतैः सप्तभिः प्रत्येकं सप्तोपस्थानानि कार्याणि । दृष्टार्थेषु विकल्पो भवेत् । अदृष्टार्थत्वान्मन्त्रावृत्त्या क्रियाभ्यासेऽपि न दोष इति वक्तुं नमस्कारैरित्युक्तम् ।

ऊर्जस्वतीः स्वधया वन्दमानास्ता वो गच्छन्तु पितरः स्योनाः । ऊर्जं वहन्तीः सतमक्षितोदकाः क्षीरमुदकं घृतं मधु पयः कीलालं परिस्रुतꣳ स्वधा स्थ तर्पयत मे पितॄनिति त्रीनुदपातान्निनयति यथा पुरस्तात् ।। १९ ।।

गतार्थम् । यथा पुरस्तादिति वचनं लेपनिनयनं सूत्रान्तर उक्तं तन्मा भूदिति ।।

उत्तिष्ठत पितरः प्रेतपूर्वे यमस्य पन्थामनुयाता पुराणम् । धत्तादस्मासु द्रविणं यच्च भद्रं प्र णो ब्रूताद्भागधान्देवतास्विति पितॄनुत्थापयति ।

पितॄणामुत्थापन[सं]भाव्य जपतीत्यर्थः । पिण्डान्वोत्थापयति ।

परेत पितर इति प्रवाहयति ।

प्रवाहणं समीचीनैर्यानैः पितृलोकं प्रति नयनम् । मन्त्रः पूर्ववत् । मदन्तीति मन्त्रान्तः।

यन्तु पितरो मनसा जवेनेति पितॄन्सम्प्रसाधयति ।

पितृलोकं प्रापयति पूर्ववत् ।

मनो न्वा हुवामह इति तिसृभिर्मनस्वतीभिरुपतिष्ठते ।

मनःशब्दवतीभिः । आ न एत्विति द्वितीया । पुनर्न इति तृतीयर्क् । स्वलोकस्था- न्पितॄनुपतिष्ठते ।

अक्षन्नमीमदन्त प्रजापत इति पङ्क्तिप्राजापत्याभ्यां प्रत्येति ।

पङ्क्तित्वेन ज्ञानं कर्माङ्गमन्यथा यजुष्टो यज्ञभ्रेषप्रायश्चित्तं दक्षिणाग्नौ । हरी इति प्रथमा । रयीणामिति द्वितीया । उपवीती भूत्वोपस्थानार्थं गार्हपत्यं प्रति गच्छति ।

यदन्तरिक्षमिति पङ्क्त्या गार्हपत्यमुपतिष्ठते ।

मनेनसमिति मन्त्रान्तः । अक्षरगणनया शक्वरी तस्यां पङ्क्त्युपासना कार्येति भावः ।

१ स. ग. च. छ. ट. ठ, ण, 'सादय। २ घ. ह. ज. स.न. ह. तिच प°। ७स पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २५५

अभून्नो दूतो हविषो जातवेदा अवाड्ढव्यानि सुरभीणि कृत्वा । प्रादाः पितृभ्यः स्वधया ते अक्षन्प्रजानन्नग्ने पुनरप्येति देवानित्येकोल्मुकं प्रत्यपिसृज्य ।

स्थापितमुल्मुकं पुनर्दक्षिणाग्नौ मेलयित्वा ।

अभ्युक्ष्य द्वंद्वं पात्राणि प्रत्याहरति ।

पिण्डपितृयज्ञपात्राणि अद्भिरभ्युक्ष्य पश्चाद्द्वे द्वे प्रत्यवहरति आसादनस्थानात्प्र- वाहयति ।

स्थाल्यां पिण्डान्प्रत्यवदधाति ।

चरुस्थाश्यां पिण्डान्निक्षिपति ।

अपां त्वौषधीनाꣳ रसं प्राशयामि भूतकृतं गर्भं धत्स्वेति मध्यमं पिण्डं पत्न्यै प्रयच्छति ।

स्पष्टम् ।

आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पुरुषोऽसदिति पत्नी प्राश्नाति ।

पुरुषसंस्कारत्वान्मन्त्रलिङ्गाच्च पुरुषार्थत्वावगतेर्विभज्य प्रतिपत्नि देयः सर्वाभिर्मन्त्रेण भक्षणीय इति स्थितिः। तदर्थमेवार्थवादं पठति-

पुमाꣳसं जनयति ।

पुत्रमिति शेषः । न कामना कामपदाभावात् ।

ये समानाः समनसः पितरो यमराज्ये । तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् । ये सजाताः समनसो जीवा जीवेषु मामकाः । तेषाम् श्रीर्मयि कल्पतामस्मिँल्लोके शतꣳ समा इति सकृदाच्छिन्नानभ्युक्ष्याग्नावादधाति ।

अभ्युक्ष्य मन्त्राभ्यामादधाति दक्षिणाग्नौ ।

अपः पिण्डानभ्यवहरति ब्राह्मणं वा भोजयति ।

अपोऽभिलक्षीकृत्य निक्षिपति । स्पष्टम् ।

सोऽयमेवं विहित एवानाहिताग्नेः ।

सोऽयं पिण्डपितृयज्ञ एवंप्रकारेणोक्त एवानाहिताग्नेरपि भवति । .. २५६ सत्याषाढविरचितं श्रौतसूत्रं- [२ द्वितीयप्रश्ने-

तत्र यानि श्रपणसंयुक्तानि तान्यौपासने क्रियन्ते ।

होमस्त्वतिप्रणीतेऽपि न तत्र पाकः । स तत्समवेतनिपिपात्रासादनानि तान्यौपा- सने नियम्यन्ते ।

अतिप्रणीत आहुतीर्जुहोति ।

एकोल्मुके प्रणीते तत्रैव होमः । तथाच होमसमय एव प्रणयनम् ।

यस्मिञ्जुहोति तमुपतिष्ठते ।

अतिप्रणीतमेवोपतिष्ठत इत्यर्थः । भाष्यकृता व्याख्यातं यस्मिञ्जुहोतीति गुरुनिर्दे- शाद्विकल्प इति गुरुनिर्देशस्यास्ति फलं दक्षिणाग्नौ पिण्डपितृयज्ञे कृतेऽपि गार्हपत्यस्यो- पस्थानवदौपासनस्य मा मूदित्येवमर्थ यस्मिन्नित्याद्युक्तम् ।

अत्र गार्हपत्यप्रवादः परिलुप्यते ।। २० ।।

इति हिरण्यकेशिसूत्रस्य द्वितीयप्रश्ने सप्तमः पटलः ।। ७ ।।

गार्हपत्यपदं लुप्यते नोह एतस्यापि पिण्डपितृयज्ञस्य प्रकृतित्वात् । नापि लक्ष. णया व्याख्या प्रकृते गार्हपत्यमुपतिष्ठत इति सति विधौ छैन्या गार्हपत्यमुपतिष्ठत इति द्वितीयाश्रुतिबलेन व्याख्या प्रकृते यस्मिञ्जुहोति तमुपतिष्ठत इत्येव विधौ द्वाराभावालोप एव गार्हपत्यपदस्येति युक्तम् । इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोग- वैजयन्त्यां द्वितीयप्रश्ने सप्तमः पटलः ॥७॥

2.8 अथ द्वितीयप्रश्नेऽष्टमः पटलः ।

अहं भूपतिरहं भुवनपतिरहं महतो भूतस्य पतिर्देवेन सवित्रा प्रसूत आर्त्विज्यं करिष्यामि देव सवितरेतं त्वा वृणते बृहस्पतिं दैव्यं ब्रह्माणं तदहं मनसे प्रब्रवीमि मनो गायत्रियै गायत्री त्रिष्टुभे त्रिष्टुब्जगत्यै जगत्यनुष्टु- भेऽनुष्टुग्बृहत्यै बृहती पङ्क्त्यै पङ्क्तिः प्रजापतये प्रजापति- र्विश्वेभ्यो देवेभ्यो विश्वे देवा बृहस्पतये बृहस्पतिर्देवानां ब्रह्माऽहं मनुष्याणां भूर्भुवः सुवरिति वृतो ब्रह्मा जपति ।

पजमानेन भूपत इति वृतो जपति । अत्राऽऽचमनं ब्रह्मणो विहितं वैखानसेन । घ. छ, ज, झ. म, द, 'कान्यौपासने तानि की। २ घ. क. ज. स. म. द. ति ब्रह्मा वृतो ज। (भ० पटळ:] महादेवकृतवैजयन्तीव्याख्यासमेतम् । २५७

वाचस्पते यज्ञं गोपायेत्यपरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्य ।

अत्र ब्राह्मणपठितस्य वाचस्पते यज्ञं गोपायेत्यनेन विकल्पः । यजमानः पूर्वमेवा- तिक्रामतीति वैखानसेनोक्तम् ।

अहे दैधिषव्येति ब्रह्मसदनात्तृणं निरस्याप उपस्पृश्य ।

पाकतर इति मश्रान्तः । श्रौत उदकस्पर्शः ।

उन्निवत उदुद्वतश्च गेषमित्युपविशति ।

इदमुपवेशनं प्राङ्मुखत्वेन पश्चादाहवनीयाभिमुख्येनोपवेशनान्तरस्य विधानात् । अया इति मन्त्रान्तः ।

इदमहमर्वाग्वसोः सदने सीदामि प्रसूतो देवेन सवित्रा बृहस्पतेः सदने सीदामि तदग्नये प्रब्रवीमि तद्वायवे तत्सूर्याय तत्पृथिव्या इत्याहवनीयमभिमुख उपविशति ।

पूर्व प्राङ्मुख उपविष्ट इदानीमाहवनीयाभिमुखो मन्त्रेणोपविशति ।

आसꣳस्थानादन्वास्ते ।

न चक्रम्यत इत्यर्थः ।

कर्मणि कर्मणि वाचं यच्छति ।

आरब्धे कर्मणि यावत्समाप्ति न ब्रूयात् ।

मन्त्रवत्सु वा कर्मसु तूष्णीकेषु च याथाकामी ।

सष्टम् ।

अपि वा सामिधेनीषु प्रयाजानूयाजेपु च वाचं यच्छति ।

सामिधेन्यारम्भप्रभृति समाप्तिपर्यन्तमेवमन्यत्रापि ।

यदि प्रमत्तो व्याहरेद्वैष्णवीमृचं जपित्वा व्याहृतीश्च पुनर्वाचं यच्छति ।

योऽङ्गीकृतो नियमपक्षस्तत्र प्रमादेन नियमत्याग इहं विष्णुरिति तित्रो व्याहसीश्च नपेत् ।

ब्रह्मन्नपः प्रणेष्यामीत्युच्यमाने प्रणय यज्ञं देवता वर्धयैता नाकस्य पृष्ठे यजमानो

क स. न. च. छ. ट, ठ "पू या'। ३३ सत्याषाढविरचितं श्रौतसूत्र- [ द्वितीयप्रश्ने-

अस्तु । सप्तर्षीणाꣳ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेह्यों प्रणयेति प्रसौति ।

असौति पृष्टेऽनुमोदनं प्रसवः । स्पष्टम् ।

सर्वेष्वामन्त्रणेष्वोंकारेण प्रसौति ।

आगामिष्वप्यामन्त्रणेषु ओंकारपूर्वकं प्रसौत्युचितानुमोदनक्रियापदात्पूर्वमोकारमु- चार्य क्रियापदमुच्चारयति ॐ प्रोक्षेत्यादि ।

येन येन कर्मणाऽऽमन्त्रयते सर्वत्र तेन तेन प्रसौति ।

येनेति तृतीयेत्थंभावलक्षणे । येन कर्मणोपलक्षितमामन्त्रयते ब्रह्मन्प्रोक्षिण्यामीत्यादि- प्रोक्षणेन कर्मणाऽऽमन्त्रयते ब्रह्माऽपि तेन तेनैव प्रोक्षेति प्रसौतीत्यर्थः ।

ब्रह्मन्प्रोक्षिष्यामीत्युच्यमाने प्रोक्ष यज्ञमिति हविष इध्माबर्हिषश्च प्रोक्षे ।

प्रोक्षे प्रोक्षणकर्ममि । इध्माबर्हिषः प्रोक्षणेनोक्तमामन्त्रणं तदध्वर्युप्रत्ययं यस्य स्यात्तत्रैव प्रसौति'नास्मत्सूत्रानुसारेण । देवता वर्धयेत्याद्यनुषङ्गः सर्वत्र वक्ष्यते ।

ब्रह्मन्नुत्तरं परिग्राहं परिग्रहीष्यामीत्युच्यमाने बृहस्पते परिगृहाण वेदिꣳ स्वगावो देवाः सदनानि सन्तु । तस्यां बर्हिः प्रथताꣳ साध्वन्तरहिꣳ स्राणः पृथिवी देव्यस्त्वित्युत्तरस्मिन्परिग्राहे ।

अत्रापि देवता इत्यनुषङ्गः ।

ब्रह्मन्सामिधेनीरनुवक्ष्यामीत्युच्यमाने प्रजापतयेऽनुब्रूहि यज्ञमिति सामिधेनीषु ।

इदं होतृप्रत्ययं यदि स आमन्त्रयते । अत्रापि देवता इत्यनुषङ्गः ।

ब्रह्मन्प्रवरायाऽऽश्रावयिष्यामीत्युच्यमाने ।। २१ ।। वाचस्पते वाचमाश्रावयैतामा- श्रावय यज्ञं देवेषु मां मनुष्येष्विति प्रवरे ।

पूर्ववदनुषङ्गः।

देवता वर्धयेति सर्वत्रानुषजत्योमाश्रावयेति प्रसौति ।

पूर्वाक्तेष्वनुषङ्गं करोति । धेहीत्यन्ततः परमोंकारेण तत्तत्कर्मणा प्रसौत्युक्तमेव ।

मित्रस्य त्वा चक्षुषा प्रेक्ष इति प्राशित्रमवदीयमानं प्रेक्षते ।

अध्वर्युणा प्राशिवावदान आरब्ध एव प्राश्यत इति प्राशित्रं प्रकर्षेण पश्यति ।

१ घ. 'प्स कंपीणा५ । २ क. ख. ग. च. छ. ट. ठ. 'जति ।। ८०पटल महादेवकृतवैजयन्तीव्याख्यासमेतम् । २५९

ऋतस्य पथा पर्येहीति पर्याह्रियमाणम् ।

आमोघेणाणाऽऽहयनीयं परि परित आनेतुमारब्धमेवेशानदिग्पागगतं. प्रतीक्षत इत्यनुषङ्गः।

सूर्यस्य त्वा चक्षुषा प्रतिपश्यामीत्याह्रियमाणं प्रतीक्षते ।

स्वाभिमुखतयाऽऽहियमाणमाग्नेयदिमागगतं. प्रतीक्षतेऽभिमुखो मूत्वेक्षते. पूर्व तु पन्सनिवेशेनाऽऽहवनीयाभिमुखस्थितस्तथैव प्रेक्षतेऽत्र तु प्राशिवाभिमुखो भूत्वेक्षत इति विशेषः.

देवस्य त्वेति प्रतिगृह्य ।

प्राशिवमित्यनुषङ्गः । प्रतिगृह्णामीति मन्त्रान्तः ।

पृथिव्यास्त्वा नाभौ सादयामीडायाः पद इत्यपरेणाऽऽ हवनीयं व्यू(व्यु)ह्य तृणानि प्राग्दण्डꣳ सादयति ।

न्यू(न्यू)ह्यापसार्य तृणानि बहिष. आस्तीर्णस्य प्राग्दण्ड सादयति । प्राग्दण्डो यस्यः पात्रस्य साशं पनि यस्य । प्राशित्रहरणप्राशिवयोरभेदविवक्षयोक्तं. प्राग्द- ण्डमिति।

सुपर्णस्य त्वा गरुत्मतश्चक्षुषाऽवपश्यामीत्यवेक्ष्य ।

अवनम्पावनतो भूत्वोपरीक्षत इति. विशेषः । गरुत्मत इति विशेषणावधो दृष्टिं वकुमवेक्ष्येत्युक्तम् ।

देवस्य त्वेत्यङ्गुष्ठेनोपमध्यमया चाङ्गुल्याऽऽदाय ।

सष्टम् ।

अग्नेस्त्वाऽऽस्येन प्राश्नामीति प्राश्नाति ।

मुखे निक्षिपति । वैखानसेनोक्तं जिह्वाग्रे निधायेति ।

ब्राह्मणस्योदरेणेत्यसंम्लेत्यावगिरति ।

मन्त्रेणावगिरति अधस्तान्नयति । असंम्लेत्य म्लानि ग्लानिमप्रापथ्याचवर्णममेलयित्वा पूर्व जिह्वाग्रे स्थापितः तथैवानवच्छिद्यैवावस्तात्प्रवेशयतीत्युक्तम् । प्राशित्रमा- दायान्तर्विहारं प्राश्नाति ।

न दतो गमयति ।

दन्तान प्रापयति निक्षेपवेलायां प्रसनवेलायां च ।

क.. प्रा। २६० सत्याषाढविरचितं श्रौतसूत्रं- [२द्वितीयप्रश्भे-

या अप्स्वन्तर्देवतास्ता इदꣳ शमयन्तु स्वाहाकृतं जठरमिन्द्रस्य गच्छेत्यद्भिरभ्यवहरति ।

अपो गृहीत्वा ताभिर्मन्त्रेण कण्ठनालेनाधस्तादुदरं प्रापयति तावत्पूर्व कण्ठे धार- यतीत्यवगम्यते ।

आचम्य।

भौतमाचमनम् । आदौ स्मार्त कृत्वा श्रौतं कार्य कर्मालम् । अथवा श्रौतेनैवोम- यसिद्धिः । स्मात धर्मेषूक्तं-त्रिः प्राश्य द्विस्त्रिोऽङ्गुष्ठमूळेन परिमृज्य सकृविs. गुल्यग्रैरुपस्पृश्य सव्यं पाणि पादौ प्रोक्ष्य शिरश्च प्रोक्ष्य, श्रौते त्वालम्येति विशेषः । चक्षुषी नासिके श्रोत्रे सकृत्सकृत्सोदकाङ्गुष्ठतर्जनीभ्यामालभ्य, श्रौते तु हृदयं हस्त. तलेनेत्यधिकम् । शिरसः प्रोक्षणं स्मार्ते, श्रौते त्वालम्भ एवेति ज्ञेयम् ।

घसिना मे मा संपृक्था ऊर्ध्वं मे नाभेः सीदेन्द्रस्य त्वा जठरे सादयामीति नाभिदेशमभिमृशति ।

स्पृष्ट्वा अपति-

वाङ्म आसन्नसोः प्राण इति यथारूपं प्राणायतनानि संमृशति ।

सम्यङ्मृशति स्पृशति सोदकाङ्गुलिभिः । यस्य मन्त्रस्य यद्रूपं लिङ्गं तेन मन्त्रेण सस्य तस्य प्राणस्येन्द्रियस्याऽऽयतनम् । बाहुवोर्बलमिति हस्तद्वयेन सहैव बाहुद्वयं पूर्वमपि सकृदेवोभयोरुभयोर्वाङ्म इति मुखं सलोमकम् ।

अरिष्टा विश्वान्यङ्गानीति सर्वाण्यङ्गानि ।

मा मा हिसीरिति मन्त्रान्तेन हस्तद्वयेन शिरःप्रभृति पादपर्यन्तम् ।

पात्रं प्रक्षाल्य पूरयित्वा दिशो जिन्वेति पराञ्चं निनयति ।

प्राशिवहरणपात्र प्रक्षाल्याद्भिः पूरयित्वोदकं निनयति पातयति पराञ्चमात्मानं कृत्वा । निनयनावसरे पात्रेणोर्ध्वदण्डेन बहिबिलेन निनयने कृते पात्रस्य पृष्ठत आत्मा भवति । क्रियाविशेषणत्वे पराङ्निनयतीति स्यात्पराञ्चमिति पुंलिङ्गानुपपत्तिः ।

अपरं पूरयित्वा मां जिन्वेत्यभ्यात्मं निनयति ।

आत्मानमभिमुखं क्रियाविशेषणमभ्यात्ममिति समासान्तप्रत्ययेनाकारान्तता।

ब्रह्मभागं परिहृतं न पुरा सꣳस्थानात्प्राश्नाति ।

पुरा पूर्व संस्थानान्न प्राश्नातीति प्रतिषेध इतरेषामृत्विनां स्वस्वभागपरिहारानन्त- रमेव प्राशनं तन्मा भूदिति ।

ब्रह्मन्ब्रह्माऽसि ब्रह्मणे त्वाहुताद्य मा मा हिꣳसीरहुतो मह्यꣳ शिवो भवेत्यन्तर्वेद्यन्वा

१ क. ट. °ति तथा कि । २ क. ग, घ ङ, छ. ज. झ. न. ट. ठ. ढ. पुनरा। अ०८पटलः] महादेवकृतवैजयन्तीष्याख्यासमेतम् । २६१

हार्यमासन्नमभिमृशति प्रजापतेर्भागोऽसीति च ।

उभयोः समुच्चयो न प्रत्येक जपो भवत्यदृष्टार्थत्वात् ।

ब्रह्मन्प्रस्थास्याम इत्युच्यमाने देव सवितरेतत्ते प्राह तत्प्र च सुव प्र च यज बृहस्पतिर्ब्रह्मा स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाह्यों प्रतिष्ठेत्यनूयाजसमिधि ।

प्रसौतीति विप्रकष्टमयाकृष्यते ।

भूमिर्भूमिमगान्मातामातरमप्यगात् । ऋध्यास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति यत्किंच यज्ञे मृन्मयं भिद्येत तदभिमन्त्रयेत ।

प्रायश्चित्तार्थमेतत् । यज्ञे प्रयोगकाले ।

सार्वत्रिकमेके समामनन्ति ।

प्रयोगकालादन्यत्रापि । अन्यदाऽपि भिन्नं मृन्मयमागामिप्रयोग वृतो ब्रह्माऽमिम- नयते । तस्याऽऽदावेव प्रतिनिधि ह्यः ।

ब्रह्मभागं प्राश्य ।

दिवो भागोऽसीति पूर्वमेव प्रदर्शितेन मन्त्रेण ।

अयाडग्निर्जातवेदा अदब्धोऽन्तरः पूर्वो अस्मिन्निषद्य । सुन्वन्सनिꣳ स विमुचानो विमुञ्च धेह्यस्मासु द्रविणं जातवेदो यच्च भद्रं प्र णो यच्छाभिवस्यो अस्मान्सन्नः सृज सुमत्या वाजवत्येति समिधमाधाय हुत्वोपस्थाय वा ।

आधाने तु न स्वाहाकारः । होमेऽस्त्येव स्वाहाकारो दविहोमधर्मत्वात् । तदाऽग्रे- णाऽऽहवनीयं गत्वा जुहां स्थाल्याज्यं सकृद्गृहीत्वा । त्रितयं विकल्पते । अत एवं ज्ञायते यत्र जुहोतिचोदना नास्ति तत्र स्वाहाकारः कुत्रापि नास्तीति । यत्रास्ति पाठेन स्वाहाकारः सोऽपि दविहोम एवान्यत्र स्वाहाकारे श्रद्धाजाड्यमनेन परिहतम् । सूत्रान्तरे किंचिन्मूलं दृष्ट्वा करपयन्ति । यथाऽऽपस्तम्बे सूक्तवाके न स्वाहाकार इत्यु. क्तम् । तदस्मत्सूत्रकारस्य पक्षे तु नचाऽऽशङ्का न चोत्तरमिति ।

यथेतं प्रतिनिष्क्रामति ।

गतम् ।

१ ग, घ, छ. 3. 'लं परिहृतं दु । २६२ सत्यापाढविरचितं श्रौतसूत्र- [ स्तृतीयप्रश्न-

एवं विहितमिष्टिपशुबन्धानां ब्रह्मत्वं ब्रह्मत्वम् ।। २२ ।।

इति हिरण्यकेशिसूत्रे द्वितीयप्रश्नेऽष्टमः पटलः ॥ ८॥

इति.हिरण्यकेशिसूत्रे द्वितीयः प्रश्नः ॥२॥

आध्वर्यवेऽतिदेशो व्याख्यास्यते । त(अ) तादृग्व्याख्येयं नास्तीति सूचयति । द्विरुक्तिः प्रश्नपरिसमाप्त्यर्थी । इति हिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैजयन्त्यां द्विती यप्रश्नेऽष्टमः पटलः ॥८॥ सत्याषाढमुनर्जयन्ति विपुला वाचो विमर्शेन या पायंपायममीक्ष्णशोऽमृतरतास्तृप्तिं न जग्मुर्बुधाः । तुष्टा यामिरुदारबुद्धय इमे सूत्रेऽपदेशैर्जना- नुद्धतुं नडतापसंतमसतो देवस्य गुप्त्यै स्थिताः ॥ १ ॥ स्मारस्मारमनेकशो मुनिवरान्व्याख्यानसंस्फूर्तये प्राप्ता ह्यल्पधियाऽपि संस्फुटतरा व्याख्याऽस्य सूत्रस्य सा। विष्णौ यज्ञतनौ पुराणपुरुषे प्रत्यर्पिता नांहसा योज्याऽमितिभिः प्रसादविशदैः सद्धिः पुनदृश्यताम् ॥ २ ॥ इति दर्शपूर्णमासौ पिण्डपितृयज्ञो ब्रह्मत्वं च तयोः समाप्तानि । इति हिरण्यकेशिसूत्रव्याख्यायां द्वितीयः प्रश्नः ॥२॥


3.1 अथ तृतीयप्रश्ने प्रथमः पटलः ।

यदर्पितं कर्म फलाय कल्पते यदर्पित बन्धविमुक्तयेऽपि च । सञ्चित्सुखानन्तमनन्तमीश्वरं नमामि विष्णु दुरितेमदारणम् ॥१॥ वेदत्रयात्मन्ननलत्रयात्मन्नीशत्रयात्मन्प्रकृतेर्गुणात्मन् । जन्तोरवस्थात्रितयानुबिम्बविम्बत्रयात्मन्नक मामनर्थात् ॥ २॥ ओंकारप्रतिपादितं सुरनुतं भक्तानुकम्पायुतं दोःपझे दधतं दतं हरसुतं श्वैत्यं भजन्तं तनौ । ज्ञानाच्छादितमोपहं कविमहं सोहंधिया गां(ग)मनौ । ध्येयै देहभृतां भयच्छिदमज लक्ष्म्या मनामीश्वरम् ॥ ३ ॥