सामग्री पर जाएँ

पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 118 ) अक्लिष्टबालतरुपल्लवलोभनीयं पीतं मया सदयमेव रतोत्सवेषु । बिम्बाधरं स्पृशसि चेद्भ्रमर प्रियाया- स्त्वां कारयामि कमलोदरबन्धनस्थम् ॥ २० ॥ विदूषकः-एवं तीक्ष्णदण्डस्य किं न भेष्यति ? (प्रहर अत्मगतम् ) एष तावदुन्मत्तः । अहमप्येतस्य सङ्गेनेदृशवर्ण इव संवृत्तः मोः, चित्रं खल्वेतत् । राजा-कथं चित्रम् ! सानुमती-अहमपीदानमिवगतार्था, किं पुनर्यथालिखितानु माव्येषः ? राजा---वयस्य, किमिदमनुष्ठितं पौरोभाग्यम् ? दर्शनसुखमनुभवतः साक्षादिव तन्मयेन हृदयेन । स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता ॥ २१॥ ( इति बाष्प विहरति ।) सानुमती—पूर्वापरविरोध्यपूर्व एष विरहमार्गः । राजा-वयस्य, कथमेवमविश्रान्तदुःखमनुभवामि ? प्रजागरात्खिलीभूतस्तस्याः स्वप्ने समागमः । बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि ॥ २२ ॥ सानुमती--सर्वथा प्रमार्जितं त्वया प्रत्यादेशदुःखं शकुन्तलायाः । शाकुन्तले षष्ठोऽङ्कः ।