सामग्री पर जाएँ

पृष्ठम्:कालिदाससूक्तिमञ्जूषा.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( 101 ) गौतमी-आर्य, किमपि वक्तुकामास्मि । न मे वचनावसरोऽस्ति । कथमिति । नावेक्षितो गुरुजनोऽनया न खलु पृष्टश्च बन्धुजनः । परम्परस्मिन्नेव चरिते भणामि किमेकैकम् ॥ १६ ॥ शकुन्तला-( आत्मगतम् ) किं नु खल्वार्यपुत्रो भणति ? राजा-किमिदमुपन्यस्तम् ? शकुन्तला -(आत्मगतम्) पावकः खलु वचनोपन्यासः । शार्ङ्गरव-कथमिदं नाम । भवन्त एव सुतरां लोकवृत्तान्तनिष्णाताः। सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तृमतींं विशङ्कते। अतः समीपे परिणेतुरिष्यते प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ॥ १७ ॥ राजा-किं चात्रभवती मया परिणीतपूर्वा ? शकुन्तला-(सविषादम् । आत्मगतम् )हृदय, सांप्रतं त आशङ्का । शाऱ्ङ्गरवः--- किं कृतकार्यद्वेषो धर्मं प्रति विमुखता कृतावज्ञा । राजा-कुतोऽयमसत्कल्पनाप्रश्न: ? शार्ङ्गरवः मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु ॥ १८ ॥ राजा-विशेषेणाधिक्षिप्तोऽस्मि । गौतमी-जाते, मुहूर्त मा लजस्व । अपनेष्यामि तावत्तेऽवगुण्ठनम् । ततस्त्वां भर्ताभिज्ञास्यति । ( इति यथोक्तं करोति ।)