श्री०टी०-तत्र हेतुः-नाहमिति । स्पष्टार्थः ॥ १३ ॥
म० टी०-यदि वेदतपोदानेज्याभिर्द्रष्टुमशक्यस्त्वं तर्हि केनोपायेन द्रष्टुं शक्योऽसीत्यत आह-
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ॥ |
साधनान्तरव्यावृत्त्यर्थस्तुशब्दः । भक्त्वैवानन्यया मदेकनिष्ठया निरतिशयप्रीत्यैवंविधो दिव्यरूपधरोऽहं ज्ञातुं शक्यः शास्त्रतो हेऽर्जुन । शक्य अहमिति च्छान्दसो विसर्गलोपः पूर्ववत् । न केवलं शास्त्रतो ज्ञातुं शक्योऽनन्यया भक्त्या किं तु तत्त्वेन द्रष्टुं च स्वरूपेण साक्षात्कर्तुं च शक्यो वेदान्तवाक्यश्रवणमनननिदिध्यासनपरिपाकेण । ततश्च स्वरूपसाक्षात्कारादविद्यातत्कार्यनिवृत्तौ तत्त्वेन प्रवेष्टुं च मद्रूपतयैवाऽऽस्तुं चाहं शक्यो हे परंतप, अज्ञानशत्रुदमनेऽतिप्रवेशयोग्यतां सूचयति ॥ ५४ ॥
श्री०टी०-केनोपायेन तर्हि त्वं द्रष्टुं शक्य इति तत्राऽऽह-भक्त्येति । अनन्यया मदेकनिष्ठया भक्त्या तु एवंभूतो विश्वरूपोऽहं तत्त्वेन परमार्थतो ज्ञातुं शक्यः शास्त्रतो द्रष्टुं प्रत्यक्षतः प्रवेष्टुं च तादात्म्येन शक्यो नान्यरुपायैः ॥ १४ ॥
म० टी०-अधुना सर्वस्य गीताशास्त्रस्य सारभूतोऽर्थों निःश्रेयसार्थिनामनुष्ठानाय पुञ्जीकृत्योच्यते-
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ॥ |
इति श्रीमहाभारते शतसाहत्यां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपद-
र्शनं नामैकादशोऽध्यायः ॥ ११ ॥
मदर्थ कर्म वेदविहितं करोतीति मत्कर्मकृत् । स्वर्गादिकामनायां सत्यां कथमेवमिति नेत्याह मत्परमः, अहमेव परमः प्राप्तव्यत्वेन निश्चितो न तु स्वर्गादिर्यस्य सः । अत एव मत्प्राप्त्याशया मद्भक्तः सर्वैः प्रकारैर्मम भजनपरः । पुत्रादिषु स्नेहे सति कथमेवं स्यादिति नेत्याह सङ्गवर्जितः, बाह्यवस्तुस्पृहाशून्यः । शत्रुषु द्वेषे सति कथमेवं स्यादिति नेत्याह निर्वैरः सर्वभूतेषु अपकारिष्वपि द्वेषशून्यो यः स मामेत्यभेदेन हे