इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदन-
सरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायामधिकारिभेदेन
विभूतियोगो नाम दशमोऽध्यायः ॥ १० ॥
श्री०टी०-अथवा किमनेन परिच्छिन्न[३]दर्शनेन सर्वत्र[४] मद्दृष्टिमेव कुर्वित्याह- अथवेति । बहुना पृथक्पृथाग्ज्ञातेन किं तव कार्यं, यस्मादिदं सर्वं जगदेकांशेनैकदेशमात्रेण विष्टभ्य धृत्वा व्याप्येति वा, अहमेव स्थितः । न मद्व्यतिरिक्तं किंचिदस्ति " पादोऽस्य विश्वा भूतानि ” इति श्रुतेः ॥ ४२ ॥
इन्द्रियद्वारतश्चित्ते बहिर्धावति सत्यपि । |
इति श्रीसुबोधिन्या टीकायां श्रीधरस्वामिविरचितायां विभूति-
योगो नाम दशमोऽध्यायः ॥ १० ॥
अथैकादशोऽध्यायः
म०टी०-पूर्वाध्याये नानाविभूतीरुक्त्वा "विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्" इति विश्वात्मकं पारमेश्वरं रूपं भगवताऽन्तेऽभिहितं श्रुत्वा परमोत्कण्ठितस्तत्साक्षात्कर्तुमिच्छन्पूर्वोक्तमभिनन्दन्-
अर्जुन उवाच- |
मदनुग्रहाय शोकनिवृत्त्युपकाराय परमं निरतिशयपुरुषार्थपर्यवसायि गुह्यं गोप्यं यस्मै कस्मैचिद्वक्तुमनर्हमपि अध्यात्मसंज्ञितमध्यात्ममितिशब्दितमात्मानात्मविवेकविषयमशोच्यानन्वशोचस्त्वमित्यादिषष्ठाध्यायपर्यन्तं त्वंपदार्थप्रधानं यत्त्वया परमकारुणिकेन सर्वज्ञेनोक्तं वचो वाक्यं तेन वाक्येनाहमेषां हन्ता मयैते हन्यन्त इत्यादि-