एतद्गन्धगजस्तृषाम्भसि भृशं कण्टान्तमज्जत्तनुः |
एतदिति ॥ एतस्य गन्धगजः यः सप्तसु स्थानेषु स्त्रवति स गन्धगजः । स्वदानमलमूत्रादिगन्धेन जितान्यकरी विरोधिकरिगन्धमसहमान इति वा गन्धगजः। कराम्भोवमिव्याजाच्छुण्डादण्डाग्रेण मुखधृतगण्डपजलवमनमियादम्बुधेः समुद्रस्य अभ्रमुनाम्न्याः करिण्याः वल्लभस्य ऐरावणस्य विरहं पुत्रवियोगजनितं शोकं निर्वापयति शमयति । किंभूतः-भृशं नितरां तृषा पिपासया सफेनत्वात्क्षीरबुद्ध्या पुरःपुरः प्रसर्पणेन कण्ठान्तं ग्रीवां मर्यादीकृत्य मज्जन्ती जले क्रीडन्ती जलप्रवेशाददृश्यमाना तनुर्देहो यस्य एवंभूतः । तथा-स्वकीया दिक् प्राची तस्याः करी ऐरावणः, अन्ये वा तत्रत्याः करिणस्तेषां जयक्रीडा तया उपार्जितैः यशोभिः सह स्पर्धिभिः तद्वदुज्ज्वलैः फेनैः जलावगाहनोद्गतैर्निमग्नदेहोर्ध्वदेशे पाण्डुरितो धवलितः। तथा-दन्तद्वन्द्वस्य दन्तद्वयस्य जलेऽनुबिम्वनं प्रतिबिम्बस्तेन कृत्वा चत्वारो दन्ता यस्य सः। जलमध्ये विद्यमानत्वाद्धवलत्वाच्चतुर्दन्तत्वाच्च ऐरावण एवायमिति भ्रान्त्या समुद्रः सुखी भवतीत्यर्थः । आसमुद्रं दिग्विजयीत्यर्थः॥
अथैतदुर्वीपतिवर्णनाद्भुतं न्यमीलदास्वादयितुं हृदीव सा । |
अथेति ॥ अथ सा भैमी न्यमीलदक्षिपक्ष्मसंकोचं चकार । किंभूता-अतिप्रीत्या मधुस्रजा वरणमधुकमालया नैषधस्य नाम जपति तच्छीला । अत एव स्फुटीभवन्प्रत्यक्षायमाणः ध्यानेन चिन्तनातिशयेन पुरःस्फुरन्नग्रस्थिततयावभासमानो नलो यस्याः सा। तत्रोत्प्रेक्षते-एतस्योर्वीपतेर्वर्णनया समुत्पन्नमद्भुतमाश्चर्यं हृदि विद्यमानं आस्वादयितुमनुभवितुमिव । आश्चर्यस्य चेतसि वर्तमानत्वात्तदनुभवार्थं नेत्रेप्यन्तः प्रविष्टे इवेत्यर्थः । नले एवानुरक्ता सती नेत्रनिमीलनेनैव तं नृपं निराचकारेति भावः । अन्योऽपि जपमालयाभीष्टदेवतामन्त्रजपं कुर्वस्तां साक्षात्कर्तुं नेत्रे निमील्य ध्यानेन तां साक्षात्करोति ॥
प्रशंसितुं संसदुपान्तरञ्जिनं श्रिया जयन्तं जगतीश्वरं जिनम् । |
प्रशंसितुमिति ॥ दिनान्तसंध्यासमयस्य देवता सरस्वती पुरावदेव पूर्ववदेव ताः अतिगम्भीरमधुरा गिरः प्रतस्तार उवाच । किं कर्तुम्-संसदः सभाया उपान्तावुभ-
- ↑ 'सापह्ववोत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या' इति 'जीवातुः।