अथ युग्मेनाह---
कलत्रभारेण विलोलनीविना गलद्दुकूलस्तनशालिनोरसा । |
कलत्रेति ॥विलोलनीविनागात्रोन्नमनाद्विश्लिष्टवस्त्रग्रन्थिना कलत्रभारेण श्रोणिभारेण। 'कलत्रं श्रोणिभार्ययोः' इत्यमरः । तथा गलत्स्रंसमानं दुकूलं याभ्यां ताभ्यां स्तनाभ्यां शालत इति तथोक्तेनोरसा तथा बलिव्यपायेन भङ्गिनिवृत्त्या स्फुटा रोमराजिर्यस्मिम्स्तेन निरायत्वादप्रसारितत्वात्ताम्यता तनुभवतोदरेण चोपलक्षितया । स्वभावोक्तिरलंकारः॥
विलम्बमानाकुलकेशपाशया कयाचिदाविष्कृतबाहुमूलया । |
विलम्बमानेति ॥ विलम्बमानो विस्रंसमान आकुलो विलुलितश्च केशपाशो यस्या- स्तयाविष्कृतबाहुमूलया दर्शितकक्षप्रदेशया कयाचित्कान्तया तरुप्रसूनान्यपदिश्य । प्रसूनग्रहणं व्याजीकृत्येत्यर्थः । 'व्याजोऽपदेशो लक्ष्यं च' इत्यमरः । सादरं साभिलाषं मनोधिनाथस्य प्रियस्य मनः समादद आचकृपे । कर्मणि लिट् । सर्वाङ्गसौष्ठव- दर्शनात्सद्योलग्नं प्रियमनस्तत्रेति भावः । अत्र प्रियमनोहरणहेतुभिः कान्ताविशेषण- पदार्थै: काव्यलिङ्गमुत्तिष्ठमानं स्वभावोक्त्या सहाङ्गाङ्गिभावेन संकीर्यते ॥
व्यपोहितुं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः। |
व्यपोहितुमिति ॥ उन्नतौ च पीवरौ च स्तनौ यस्याः सोन्नतपीवरस्तनी।'स्याङ्गाच्च-' इत्यादिना ङीप्। काचिल्लोचनतः स्वनेत्रात्पुष्पजं रजः परागं मुखानिलैः फूत्कारमारुतैर्व्यपोहितुमपनेतुमपारयन्तं किलाशक्नुवन्तं किलेत्यलोके । वस्तुतस्तदा- स्यस्पर्शलोभादपारयन्तमित्यर्थः । प्रियमुन्मना उत्सुका सत्यत एव पयोधरेणोरसि जघान । तत्कपटपरिज्ञानजन्यादौत्सुक्यादिति भावः। हननस्थानत्वादुरसीति-सप्तमी। इयं च प्रगल्भैव ॥
इमान्यमूनीत्यपवर्जिते शनैर्यथाभिरामं कुसुमाग्रपल्लवे। |
इमानीति ॥ यथाभिरामम् । वीप्सायामव्ययीभावः । कुसुमान्यग्रपल्लवानि च कुसुमाग्रपल्लवं तस्मिन् । 'जातिरप्राणिनाम्' इत्येकवद्भावान्नपुंसकत्वम् । इमान्यमूनी- तीत्थम् । निर्देशपूर्वकमित्यर्थः । इदमदसी संनिकृष्टविप्रकृष्टार्थे । शनैरपवर्जितेऽप-
- ↑ 'भूरुहः' इति पाठः