रहवार्चिभिर्विरहपीडां सूचयद्भिरङ्गैः स्वावयवैः कुसुमरूपस्य शरस्य मदनबाणस्येत्यर्थः। शरव्यं वेध्यं प्रति सूचिता ज्ञापिता । ब्रह्मणा तस्याः स्वयंवरश्चित्ते धृतः, वियोगपीडां दृष्ट्वा पित्राप्यारब्ध इत्यर्थः । शृणातीति शरुहिनस्तस्मै हिता शरव्या, 'उगवादिभ्यो यत्' । 'शरव्यम्' इत्येव पाठो युक्तः[१]॥
मन्मथाय यदयादित राज्ञां हूतिदूत्यविधये विधिराज्ञाम् ।
तेन तत्परवशाः पृथिवीशाः संगरं गरमिवाकलयन्ति ॥३१॥
मन्मथायेति ॥ अथानन्तरं विधिः राज्ञां हृतिदूत्यविधये आकारणार्थं दूतत्वविधये दूतत्वव्यापाराय मन्मथाय 'त्वं सर्वानाकारय' इत्याज्ञां यद्यतः अदित दत्तवान् तेन हेतुना तत्परवशाः कामाज्ञापराधीनाः सन्तः पृथिवीशाः संगरं सङ्ग्रामं गरमिव विषतुल्यमाकलयन्ति मन्वते । अपकारित्वाद्विषं यथा त्यज्यते तथा सङ्ग्राममपि । भैमीपरवशा जाता इति भावः । अथच सम्यक् सुतरां गरो विषम् । गरं योऽत्ति तमेव नाश- नाशयति संगरस्तु सर्वान् । दूत्य इति, 'दूतवणिग्भ्यां च' इति भावे यः [२]॥
येषुयेषु सरसा दमयन्ती भूषणेषु यदिवापि गुणेषु ।
तत्रतत्र कलयापि विशेषो यः स हि क्षितिभृतां पुरुषार्थः ॥ ३२॥
येष्विति ॥ दमयन्ती येषुयेषु भूषणेषु यदिवा अथवा येषुयेषु गुणेषु औदार्यादिषु सरसा सादारा, तत्रतत्र भूषणेषु गुणेषु वा कलयापि लेशेनापि परस्परापेक्षया वा यो विशेष आधिक्यं स हि स एव क्षितिभृतां राज्ञां यस्मात्पुरुषार्थो धर्मादिरूपः । भूषणगुणाधिक्यमेव पुरुषार्थत्वेनार्जयन्ति भैमीप्रीतिहेतुत्वान्न तु सङ्ग्रामवासनामिति भावः[३] ॥
तदेवाह-
शैशवव्ययदिनावधि तस्या यौवनोदयिनि राजसमाजे ।
आदरादहरहः कुसुमेषोरुललास मृगयाभिनिवेशः ॥ ३३ ॥
शैशवेति ॥ कुसुमेषोः कामस्य मृगयायामभिनिवेश आदरो यौवनोदयिनि यौवनोन्मुखे राज्ञां समूहे विषये तस्या भैम्याः शैशवव्ययदिनं बाल्यापगमदिनमवधिर्यस्यां क्रियायां तथा यौवनोदयमारभ्य अहरहः प्रत्यहमादरादतितरामुल्ललास प्रकटीबभूव । आदरादहरह इति कामपीडाधिक्यं तेषां सूच्यते । तत्प्राप्तिमेव पुरुषार्थत्वेन मन्यन्ते इति भावः॥[४]
प्रकृतमुपसंहरन्नाह-
इत्यमी वसुमती कमितारः सादरास्वदतिथीभवितुं न।
भीमभूसुरभुवोरभिलाषे दूरमन्तरमहो नृपतीनाम् ॥ ३४ ॥