सामग्री पर जाएँ

शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)/दशमः सर्गः(सुरतवर्णनम्)

विकिस्रोतः तः
← नवमः सर्गः(प्रदोषवर्णनम्) शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्)
दशमः सर्गः(सुरतवर्णनम्)
माघः
एकादशः सर्गः(प्रत्यूषवर्णनम्) →


दशमः सर्गः।

 आचार्यत्वं रतिषु शीधवश्चक्रुरित्युक्तं तत्प्रपञ्चनायास्मिन् सर्गे मधुपानं तावद्व- र्णयति-

 सज्जितानि सुरभीण्यथ यूनामुल्लसन्नयनवारिरुहाणि ।
 आययुः सुघटितानि सुरायाः पात्रतां प्रियतमावदनानि ॥१॥

 सजितानीति ॥ अथ पानगोष्ठीप्रस्तावानन्तरं सज्जितानि यावकक्षालनादिना संस्कृतानि सुरभीणि यथायोगं स्वभावसंस्काराभ्यां सुगन्धीनि नयनानि वारि- रुहाणीव, अन्यत्र नयनानीव वारिरुहाणि वासनार्थं क्षिप्तानि तान्युल्लसन्ति येषु तानि तथोक्तानि सुघटितानि सुष्टु मुखैर्योजितानि शोभनसंस्थानवत्तया निर्मि- तानि वा प्रियतमावदनानि यूनां कामिनां सुरायाः पात्रतां पानभाजनतां ययुः । प्रियामुखसंपर्कजनितरसास्वादलोभात्तासां मुखसुरामेव पपुरिति भावः । अत्र वदनेष्वारोप्यमाणायाः पात्रतायास्तादात्म्येन तेषां पानसाधनतापादनेन कृतवद- नोपयोगात्परिणामालंकारः। 'आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः' इति लक्षणात् । तेन श्लेषसंकीर्णेनोपमा व्यज्यते । अस्मिन् सर्गे स्वागता वृत्तम् । 'स्वागतेति रनभा गुरुयुग्मम् ॥ १॥

 सोपचारमुपशान्तविचारं सानुतर्षमनुतर्षपदेन ।
 ते मुहूर्तमथ मूर्तमपीप्यन् प्रेम मानमवधूय वधूः स्वा: ॥२॥

 सोपचारमिति ॥ अथ पात्रीकरणानन्तरं ते युवानः सोपचारं सप्रार्थनमु- पशान्तविचारं निवृत्तशङ्कम् । 'विवादम्' इति पाठे मानमवधूयेति पुनरुक्तिः । चारं चारमित्यनुप्रासक्रमभङ्गश्च स्यात् । सानुतर्षं सतृष्णं च यथा तथा अनुतर्ष- त्यनेनेत्यनुतर्षो मद्यम् । 'मद्येऽनुतर्षं तत्पाने पात्रे तृष्णाभिलाषयोः' इत्युभय- त्रापि विश्वः । तस्य पदेन छलेन मूर्तं मूर्तिमत् स्वाः स्वीया वधूर्मुहूर्तं क्षणं मान कोपमवधूयापीप्यन् पाययन्ति स्म । पिबतेर्णौ चङि. 'लोपः पिबतेरीच्चाभ्यासस्य (७।४।४) इति धात्वाकारलोपः ईकारोऽभ्यासस्य । 'न पादमि-' (१|३|८९) इत्यादिना निगरणार्थत्वात्परस्मैपदनिषेधेऽपि ‘णिचश्च' (१॥३७४) इत्यात्मने- पदविकल्पात्पाक्षिकं परस्मैपदम् । 'गतिबुद्धि'- (१।४।५२) इत्यादिना वधूरि- त्यणिकर्तुः कर्मत्वम् । अनुतर्षपदेनेत्यनुतर्षापह्नवेन मूर्तप्रेमत्वोत्प्रेक्षणात् व्यञ्जका- प्रयोगाच्च प्रतीयमाना सापह्नवोत्प्रेक्षा ॥२॥

 क्रान्तकान्तवदनप्रतिबिम्बे भग्नवालसहकारसुगन्धौ ।
 स्वादुनि प्रणदितालिनि शीते निर्ववार मधुनीन्द्रियवर्गः॥३॥

 क्रान्तेति ॥ क्रान्तं संक्रान्तं कान्तवदनप्रतिबिम्बं यसिंस्तस्मिन् । नेत्रनिर्वृति- कर इत्यर्थः । भग्ना: क्षिप्ताः बालसहकाराश्चूतविशेषपल्लवाः । 'आम्रश्चूतो रसा- लोऽसौ सहकारोऽतिसौरभः' इत्यमरः । तैः सुगन्धौ सुरभिणि । घ्राणतर्पण इत्यर्थः । 'तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य' (७।१|७४) इति पुंवद्भावः । स्वादुनि मधुरे रसनाकर्षिणीत्यर्थः । प्रणदितालिनि गुञ्जन्मधुकरे । श्रुतिसुख इत्यर्थः । शीते । स्पर्शसुखे इत्यर्थः । एवं पञ्चविषयसमष्टौ मधुनि मद्ये इन्द्रियवर्गश्चक्षुरा- दिपञ्चकं निर्ववार निर्वृतमभूत् । अत्र रूपरसादिपदार्थानां मधुविशेषणभावेन निर्वृतिहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥ ३ ॥

 कापिशायनसुगन्धि विघूर्णन्नुन्मदोऽधिशयितुं समशेत ।
 फुल्लदृष्टि वदनं प्रमदानामब्जचारु चषकं च षडङ्घ्रि: ॥४॥

 कापिशायनेति ॥ उन्मद उद्रिक्तमदः अत एव विघूर्णन् भ्रमन् षडङ्घ्रि: षट्पदः कापिशायनेन सुगन्धि सुरभि । 'कश्यं कल्यं तथा मद्यं मैरेयं कापि- शायनम्' इति वैजयन्ती । फुल्लदृष्टि विकसितनेत्रं प्रमदानां वनितानां वदनं अधि- वासनार्थेन अब्जेन चारु चषकं पानपात्रं च । 'चषकोऽस्त्री पानपात्रम्' इत्यमरः । अधिशयितुमधिष्ठातुं समशेत । इदं भजामि इदं भजामि वेत्युभयलोभार्थं दोलाय- मानमानस आसीदित्यर्थः । अत्र प्रकृतयोरेव वदनचषकयोः षट्पदाभिलाषास्प-

दत्वरूपैकधर्मयोगादौपम्यस्य गम्यतायां तुल्ययोगिताभेदः ॥ ४ ॥

 विम्बितं भृतपरिस्रुति जानन् भाजने जलजमित्यबलायाः।
 घ्रातुमक्षि पतति भ्रमरः स भ्रान्तिभाजि भवति क्व विवेकः ५

 विम्बितमिति ॥ भृता परिस्रुद्वारुणी यस्मिंस्तस्मिन् । 'परिस्रुद्वरुणात्मजा' इत्यमरः । भाजने पानपात्रे बिम्बितं प्रतिबिम्बितमबलाया अक्षि जलजमिति जानन् । सादृश्यात्तथा भ्राम्यन्नित्यर्थः । भ्रमरः घ्रातुं पतति स्म । तथा हि- भ्रान्तिभ्रंमणं, विपरीतज्ञानं च तद्भाजि विवेको विचारः क्व भवति । न क्वापीत्यर्थः । अत्र भ्रमरस्याक्षिजलजभ्रान्तेर्भ्रान्तिमदलंकारः । तत्समर्थकत्वाच्छ्लेषमूलातिशयो- क्त्युत्थापितोऽर्थान्तरन्यासः । तेन सहाङ्गाङ्गिभावेन संकरः ॥ ५॥

 दत्तमिष्टतमया मधु पत्युर्बाढमाप पिबतो रसवत्ताम् ।
 यत्सुवर्णमुकुटांशुभिरासीच्चेतनाविरहितैरपि पीतम् ॥ ६॥

 दत्तमिति ॥ इष्टतमया दत्तं मधु मद्यं कर्तृ पिबतः पत्युः रसवत्तां प्रेयसी- करस्पर्शादतिस्वादुतामाप । अतिशायने मतुप् । बाढं ध्रुवमित्युत्प्रेक्षा । कुतः । यद्यस्माच्चेतनाविरहितैरचेतनैः सुवर्णमुकुटांशुभिरपि । मधुनि प्रसृतैरिति भावः । पीतं पीतवर्ण पीतं चासीत् । अत्र पीतमिति श्लेषमूलातिशयोक्त्या पीतिम्नः क्रियाभेदाध्यवसायेनाचेतनांशुकर्तृकपानक्रियानिमित्ता प्रेयसीस्वहस्तदानाहितरस- वत्तोत्प्रेक्षा । तथा च यदचेतनानामपि पेयं तच्चेतनानां किं वक्तव्यमित्यर्थाप- त्तिध्वननादलंकारेणालंकारध्वनिः ॥ ६॥

 खादनेन सुतनोरविचारादोष्ठतः समचरिष्ट रसोऽत्र ।
 अन्यमन्यदिव यन्मधु यूनः स्वादमिष्टमतनिष्ट तदेव ॥ ७ ॥

 स्वादनेनेति ॥ सुतनोः कर्त्र्या: स्वादनेनास्वादनेन ओष्ठतः ओष्ठाद्रसः स्वादोऽत्र मधुनि अविचारादसंशयात् समचरिष्ट संक्रान्तः । संपूर्वाञ्चरतेर्लुङ् । 'समस्तृतीयायुक्तात्' (१|३।५४) इत्यात्मनेपदम् । कुतः । यद्यस्मात्तदेव पूर्वभु- क्तमेव मधु अन्यदिवापूर्वमिवान्यमपूर्वमिष्टं प्रियं स्वादं रसं यूनोऽतनिष्ट । तनोते- र्लुङि तङ् । ओष्ठस्पर्शानन्तरमेव रसान्तरप्रादुर्भावादनन्तरन्यायात्तद्रससंक्रमणो- त्प्रेक्षा । सा चाविचारादिति व्यञ्जकप्रयोगाद्वाच्या ॥ ७ ॥

 बिभ्रतौ मधुरतामतिमात्रं रागिभिर्युगपदेव पपाते ।
 आननैर्मधुरसो विकसद्भिर्नासिकाभिरसितोत्पलगन्धः ॥ ८॥

 विभ्रताविति ॥ रागिभिः कामिभिरतिमात्रं मधुरतां स्वादुतां प्रियत्वं वा विभ्रतौ 'मधुरं रसवत्स्वादु प्रियेषु मधुरोऽन्यवत्' इति विश्वः । तस्य भावस्ताम् । विकसद्भिर्विकसन्तीभिश्च विकसद्भिः तृष्णया विजृम्भमाणैः । 'नपुंसकमनपुंस- केनैकवच्चास्यान्यतरस्याम्' (१।२।६९) इति नपुंसकैकशेषः । आननैः मधुरसो मद्यरसः नासिकाभिर्घ्राणैरसितोत्पलगन्धश्च युगपदेव पपाते पीतौ । भिन्नेन्द्रिय- । ग्राह्यावपि गन्धरसौ युगपत्स्वेन्द्रियसंबन्धाद्युगपद्गृहीतावित्यर्थः । अत्र मनस आशु- संचाराद्यौगपद्याभिमानः । शतपत्रशरव्यतिभेदवदित्यणुपरिमाणवादिनः । वास्तव- मेव यौगपद्यमिति मध्यमपरिमाणवादिनः । सार्वपथीनास्तु कवय इत्यलमतिपल्लवि- तेन । अत्र रसगन्धयोः प्रकृतयोरेकपानक्रियासंबन्धात्तुल्ययोगिताभेदः ॥ ८ ॥

 पीतवत्यभिमते मधुतुल्यस्वादमोष्ठरुचकं विदङ्घौ ।
 लभ्यते स्म परिरक्ततयात्मा यावकेन वियतापि युवत्याः॥९॥

 पीतवतीति ॥ विददङ्घौ विदंष्टुमिच्छौ । उपदंशेच्छावतीत्यर्थः । दंशेः सन्न- न्तादुप्रत्ययः । अभिमते वल्लभे मधुना तुल्यस्वादं तुल्यरसं । तुल्यत्वं च हृद्यता- मात्रेण नान्यथा विलक्षणरसस्य अनुपदंशत्वात् ओष्ठो रुचकमाभरणमिवेत्युप- मितसमासः । रोचनायां तु रुचकमश्वाभरणमाल्ययोः' इति विश्वः । तमोष्ठ- रुचकमोष्ठश्रेष्ठं पीतवति सति वियता अपगच्छतापि । इणो लटः शनादेशे 'इणो यण' (६|४|८१) इति यणादेशः । युवत्याः युवतेः । 'ङिति ह्रस्वश्व' (१।४।६) इति वा नदीत्वादाडागमः । यावकेनालक्तकेन परिरक्ततया दन्तनि- ष्पीडनकृतेन रागेण हेतुना आत्मा स्वरूपं लभ्यते स्म लब्धः । पुनरुद्भूतमित्यर्थः । अत्राधरपानादपगतस्यापि यावकस्य रागप्रादुर्भावनिमित्ता विरोधगर्भा पुनरुद्भवो- त्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या च ॥ ९ ॥

 कस्यचित्समदनं मदनीयप्रेयसीवदनपानपरस्य ।
 स्वादितः सकृदिवासव एव प्रत्युत क्षणविदंशपदेऽभूत् ॥१०॥

 कस्यचिदिति ॥ समदनं यथा तथा मदयतीति मदनीयं मदकारि । 'कृत्य- ल्युटो बहुलम्' (३।३।११३) इति कर्तर्यनीयप्रत्ययः । तस्य प्रेयसीवदनस्य पानं परं प्रधानं यस्य तस्य कामुकत्वात् प्रियामुखपानासक्तस्य कस्यचित्कामिनः सकृदिव स्वादितोऽबाहुल्येन पीतः । इवशब्दो वाक्यालंकारे । आसव एव, प्रत्युत वैपरीत्ये इति गणव्याख्याने । क्षणं विदंशपदे उपदंशस्थानेऽभूत् । अन्येषां मधुपानलोलुपानामधरास्वाद उपदंशः । अस्य त्वधरपानैकपरस्य मध्येवोपदंश इत्यर्थः । अधरपानस्योपदंशत्वसंबन्धेऽप्यसंबन्धः आसवस्य तदसंबन्धेऽपि संबन्ध इत्यतिशयोक्त्योरसापेक्षत्वात्संसृष्टिः ॥ १० ॥

 पीतशीधुमधुरैर्मिथुनानामाननैः परिहृतं चषकान्तः ।
 व्रीडया रुददिवालिविरावैर्नीलनीरजमगच्छदधस्तात् ॥ ११ ॥

 पीतेति ॥ पीतशीधूनि पीतमद्यानि अत एव मधुराणि मनोज्ञानि तैमिथु- नानां स्त्रीपुंसानामाननैः चषकान्तः पानपात्राभ्यन्तरे । 'चषकोऽस्त्री पानपा- त्रम्' इत्यमरः । परिहृतं त्यक्तं नीलनीरजं वासनार्थे निक्षिप्तं नीलोत्पलं ब्रीडया परिहारलज्जया अलिविरावैः रुददिवाधस्तादगच्छत् । अत्र मद्यापगमनिमित्तस्य नीलनीरजाधोगमनस्य रोदनविशिष्टलज्जाहेतुकत्वोत्प्रेक्षा । सा चालिविरावैरिति व्यधिकरणकारिपरिणामोजीवितेति संकरः ॥ ११ ॥  अथ मदानुभावान् वर्णयति-

 प्रातिभं त्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः।
 गूढसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः ॥ १२ ॥

 प्रातिभमिति ॥ त्रयाणां सरकाणां समाहारस्त्रिसरकं त्रिवारमधुपानम् । "सरकं शीधुपात्रे स्याच्छीधुपाने च शीधुनि' इति विश्वः ।‘तद्धितार्थ-' (२।१।५१) इत्यादिना समाहारे द्विगुः पात्रादित्वान्नपुंसकत्वम् । तेन त्रिसरकेण निपानं मदातिभूमिरिति पानप्रसिद्धिः । प्रतिभैव प्रातिभं प्रतिभाविशेषः । प्रज्ञादित्वात्स्वार्थेऽण्प्रत्ययः । यद्वा 'ज्ञानबीजभूतः संस्कारविशेषः प्रतिभा' इति काव्यप्रकाशकारः। तत्र भवं प्रातिभं ज्ञानप्रभाविशेष एव । भवार्थेऽण्प्रत्ययः । तत्प्रातिभं गतानाम् । त्रिवारमधुपानोत्कटमदोद्बुद्धसंस्कारप्रभावितप्रगल्भमतीनामित्यर्थः । सुभ्रुवां स्त्रीणां वक्रवाक्यरचनारमणीयः प्रतिकूलवाक्यप्रयोगरम्यः। गूढानि पूर्वं लज्जया संवृतानि सूचितानि संप्रति मदेन प्रकाशितानि रहस्यानि ग्राम्यावयवचेष्टाप्रलपितानि यस्मिन् स गूढसूचितरहस्यः स चासौ सहासश्चेति विशेषणसमासः वैवक्षिकविशेषणविशेष्यभावात् । 'हासो हास्यम्' इत्यमरः । परिहासो नर्मकेलिरुपहासक्रीडेति यावत् । 'द्रवकेलिपरीहासाः' इत्यमरः । प्रववृते प्रवृत्तः । इतः परं मदः संचारी ॥१२॥

 हावहारि हसितं वचनानां कौशलं दृशि विकारविशेषाः ।
 चक्रिरे भृशमृजोरपि वध्वाः कामिनेव तरुणेन मदेन ॥ १३ ॥

 हावेति ॥ तरुणेनोत्कटेन यूना च मदेन कामिनेव ऋजोर्मुग्धाया अपि वध्वाः । किमुत प्रौढानामिति भावः । हावहारि विलासमनोहरं हसितं हासः वचनानां कौशलं प्रागल्भ्यं दृशि विकारविशेषाः विलासविशेषाश्चक्रिरे कृतानि । पुंसेव मौग्ध्यं त्याजयित्वा प्रौढ्यं नीतेत्यर्थः । अत्र हसितकौशलविकाराणां यौगपद्योक्त्या समुच्चयः । 'गुणक्रियायौगपद्यं समुच्चयः' इति लक्षणम् । तस्यौपम्ययोगेन संकरः । तेन ऋजोरपीत्यत्र किमुत प्रौढानामित्यर्थापत्तिर्व्यज्यते ॥ १३ ॥

 अप्रसन्नमपराद्धरि पत्यौ कोपदीप्तमुररीकृतधैर्यम् ।
 क्षालितं नु शमितं नु वधूनां द्रावितं नु हृदयं मधुवारैः ॥ १४ ॥

 अप्रसन्नमिति ॥ अपराद्धरि आगस्कारिणि । राधेस्तृच्प्रत्ययः । पत्यौ विषये अप्रसन्नं कलुषम् । क्षुभितमित्यर्थः । कोपदीप्तं कोपेन ज्वलितम् , उररीकृतधैर्यमङ्गीकृतकाठिन्यम् । 'ऊरीकृतमुररीकृतम्' इत्यमरः । 'ऊर्यादिच्विडाचश्च' (१।४।६१) इति गतित्वात् 'कुगतिप्रादयः' (२।२।१८) इति समासः । वधूनां हृदयं मधुवारैर्मद्यपर्यायैः । 'मधुवारा मधुक्रमाः' इत्यमरः । क्षालितं धौतं नु । शमितं निर्वापितं नु । गावितं गवीकृतं नु । अन्यथा कथं तादृगप्रसन्नतादीप्तताकठिनतानां हठान्निवृत्तिरिति भावः । अत्र क्षालितत्वादीनामेकत्राविरोधात्सादृश्याच्च न संशयालंकारः । सति सादृश्ये विरुद्धानेककोटिगोचरत्वात्तस्य, किंत्वप्रसन्नत्वादिनिरासनिमित्तकं क्षालितत्वाद्युत्प्रेक्षात्रयं नुशब्दानुवृत्तेः तच्चाप्रसन्नत्वाद्युद्देशिनां क्षालितत्वाद्यनुदेशिभिर्यथासंख्येनान्वयमपेक्षत इति यथासंख्यालंकारेण संकीर्यते ॥ १४ ॥

 सन्तमेव चिरमप्रकृतत्वादप्रकाशितमदिद्युतदङ्गे ।
 विभ्रमं मधुमदः प्रमदानां धातुलीनमुपसर्ग इवार्थम् ॥ १५ ॥

 सन्तमिति ॥ मधुमदः प्रमदानामङ्गे वपुषि अन्यत्र 'यस्मात्प्रत्ययविधि:-' (१।४।१३) इत्युक्तलक्षणे प्रकृत्याख्ये शब्दरूपे । चिरं सर्वदा सन्तमेव । एकत्र स्वभावात् , अन्यत्र त्वनेकार्थत्वाद्धातूनामिति भावः । किंचाप्रकृतत्वादप्रस्तुतत्वात् । अप्रसक्तत्वादिति भावः । अप्रकाशितमव्यञ्जितं विभ्रमं विलासं धातौ भूवादिके लीनं गूढमर्थमभिधेयं उपसर्गः प्रादिरिव अदिद्युतद्द्योतयति स्म । श्रुतेः ‘णौ चङ्युपधाया ह्रस्वः' (७।४।१) 'द्युतिस्त्राप्योः संप्रसारणम्' (७।४।६७) इत्यभ्यासस्य संप्रसारणमिकारः । उपसर्गस्य धातुलीनार्थद्योतकत्वमादानसंदानादावनुसंधेयम् । उपमालंकारः ॥१५॥

 सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु ।
 गन्तुमुत्थितमकारणतः स द्योतयन्ति मदविभ्रममासाम् ॥ १६ ॥

 सावशेषमिति ॥ सावशेषाण्योक्तानि पदानि यस्मिंस्तदुक्तमुक्तिर्वाक्यं स्रस्तेषु माल्यवसनाभरणेषूपेक्षाऽनादरः अकारणतोऽकस्मादेव गन्तुमुत्थितमुत्थानं च आसां स्त्रीणां मदविभ्रमं मदविकारं द्योतयन्ति स्म । एतैरनुभावैरासां मदसंचारो ज्ञात इत्यर्थः । अत्रार्थोक्तादीनां खलेकपोतिकया मदद्योतने प्रवृत्तत्वात्कारणाख्यो द्वितीयसमुच्चयः । 'खलेकपोतन्यायेन बहूनां कार्यसाधने । कारणानां समुद्योगः स द्वितीयः समुच्चयः ॥ इति लक्षणात् ॥ १६ ॥

 मद्यमन्दविगलत्त्रपमीषच्चक्षुरुन्मिषितपक्ष्म दधत्या ।
 वीक्ष्यते स शनकैर्नववध्या कामिनो मुखमधोमुखयैव ॥ १७ ॥

 मद्येति ॥ मद्येन मद्यपानेन मन्दमल्पं विगलन्ती त्रपा यस्य तत् । अत एवेषदुन्मिषितानि पक्ष्माणि लोमानि यस्य तच्चक्षुर्दधत्या नववध्वा नवोढया कामिनः प्रियस्य मुखमधोमुखयैव नमितवदनयैव । 'स्वाङ्गाच्चोपसर्जनात्-' (४।१।५४) इति विकल्पादनीकारः । शनकैरसंभ्रमेण वीक्ष्यते स्म । तिर्यगीक्षितमित्यर्थः । अत्रापि मदमानाभ्यां त्रपैव बलीयसीति मौग्ध्यातिशयोक्तिः । 'समुद्यद्यौवना मुग्धा लज्जापिहितमन्मथा' ॥ १७ ॥

 या कथंचन सखीवचनेन प्रागभिप्रियतमं प्रजगल्भे ।
 व्रीडजाड्यमभजन्मधुपा सा स्वां मदात्प्रकृतिमेति हि सर्वः॥१८॥

 येति ॥ या स्त्री कथंचन कृच्छ्रेण सखीवचनेन सखीप्रेरणया प्राक् मदात्पूर्वम् अभिप्रियतमं प्रियतमसमक्षम् । आभिमुख्येऽव्ययीभावः । प्रजगल्भे प्रगल्भते स्म । सा स्त्री मधु पिबतीति मधुपा । 'आतोऽनुपसर्गे कः' (३।२।३) व्रीडं जाड्यं मौग्ध्यमभजत् । विहायागन्तुकं धर्मं स्वभावमभजन्मदादित्यर्थः । तथा हि-सर्वो जनो मदाद्धेतोः स्वां स्वकीयां प्रकृतिमेति स्वभावं गच्छति । स्वाभाविकधर्मप्रकाशनं मदधर्मः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ १८ ॥

 छादितः कथमपि त्रपयान्तर्यः प्रियं प्रति चिराय रमण्याः ।
 वारुणीमदविशङ्कमथाविश्चक्षुषोऽभवदसाविव रागः ॥ १९ ॥

 छादित इति ॥ रमण्या यः प्रियं प्रति रागो विषयाभिलाषः चिराय त्रपया व्रीडयाऽन्तश्छादितः संवृत असावयमेव रागोऽथास्मिन्नवसरे वारुणीमदविशङ्कं मद्यमदेन निःशङ्कं चक्षुषो नेत्रादाविरभवदिव आविर्भूतः किम् । अत्र रतिरागमदरागयोरभिलाषपाटलिमरूपयोः श्लेषप्रतिभोत्थापिताभेदाध्यवसायमूलातिशयोक्तिमहिम्ना योऽन्तर्गतो रागः स एव चिरनिरुद्धः संप्रति मदोद्घाटितत्रपाकपाट्या चक्षुर्द्वारा बहिरुद्भिन्न इत्युत्प्रेक्षते । आविर्भुवोर्व्यवधानं कविस्वातन्त्र्यात् ॥ १९ ॥

 आगतानगणितप्रतियातान् वल्लभानभिसिसारयिषूणाम् ।
 प्रापि चेतसि सविप्रतिसारे सुभ्रुवामवसरः सरकेण ॥ २०॥

 आगतानिति ॥ आगतान् स्वयंप्राप्तान् तथाप्यगणिताश्च ते प्रतियाताश्चेति । स्नातानुलिप्त इतिवत्पूर्वकाले समासः । तान्वल्लभानभिसिसारयिषूणां संप्रति चन्द्रोदये स्वयमेवाभिसारयितुमभिसर्तुमिच्छूनाम् । अभिसारयतेः स्वार्थण्यन्तात्सन्नन्तादुप्रत्ययः । सुभ्रुवां स्त्रीणां चेतसि सविप्रतिसारे कष्टमस्माभिरकार्यं कृतमिति पश्चात्तापयुक्ते सति । 'पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि' इत्यमरः । सरकेण मधुना मधुपानेन वा । 'सरकं शीधुपात्रे स्याच्छीधुपाने च शीधुनि' इति विश्वः । अवसरः प्रापि प्राप्तः । स्वयं गमनसौकर्याय मधुपानं चक्रुरित्यर्थः । अत्राभिसारणस्य पश्चात्तापकरणकस्य मदयोगात्सौकर्योक्तेः समाध्यलंकारः। 'समाधिः सुकरं कार्यं कारणान्तरयोगतः' इति काव्यप्रकाशे ॥ २० ॥

 मा पुनस्तमभिसीसरमागस्कारिणं मदविमोहितचित्ता ।
 योषिदित्यभिललाप न हालां दुस्त्यजः खलु सुखादपि मानः॥२१॥

 मा पुनरिति ॥ मदेन विमोहितचित्ता भ्रमितचित्ता सती । अहमिति शेषः । आगस्कारिणमपराधकृतम् । 'अतः कृकमि-' (८।३।४६) इत्यादिना विसर्जनीयस्य सत्वम् । तं पुनर्भूयो माभिसीसरं नाभिसारयाणि । सरतेः स्वार्थे 'णौ चङ्युपधाया ह्रवः' (७।४।१) 'दीर्घो लघोः' (७।४।९४) इत्यभ्यासस्य दीर्घः । इति । इत्यालोच्येत्यर्थः । गम्यमानार्थत्वादप्रयोगः अन्यथा पौनरुक्त्त्यमित्यालंकारिकाः । योषित् काचित्स्त्री हालां सुराम् । 'सुरा हलिप्रिया हाला' इत्यमरः । नाभिललाप । तथा हि-सुखादपि मानो दुस्त्यजः खलु । अतोऽल्पकारणादधिकार्थहानिरिति नाशङ्कनीयमित्यर्थान्तरन्यासः ॥ २१ ॥

 ह्रीविमोहमहरदयितानामन्तिकं रतिसुखाय निनाय ।
 सप्रसादमिव सेवितमासीत्सद्य एव फलदं मधु तासाम् ॥२२॥

 ह्रीति ॥ सप्रसाद मनःप्रसादपूर्वकम् । ममेदं श्रेयस्करमिति भावनापूर्वकमित्यर्थः । अन्यथा फलोदय एव न स्यात् । 'दैवज्ञे भिषजे गुरौ' इति वचनादिति

भावः । सेवितमुपभुक्तमिति हेतोर्मधु तासां सद्य एव फलदमासीत् । कुतः । ह्रीविमोहं व्रीडाजाड्यमहरत् रतिसुखाय सुरतसुखाय दयितानामन्तिकं निनाय । अत्र ह्रीहरणान्तिकनयनवाक्याभ्यां फलदानवाक्यार्थसमर्थनादनेकवाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥ २२ ॥

 दत्तमात्तमदनं दयितेन व्याप्तमातिशयिकेन रसेन ।
 सस्वदे मुखसुरं प्रमदाभ्यो नाम रूढमपि च व्युदपादि ॥ २३ ॥

 दत्तमिति ॥ आत्तमदनमाहितमदनं यथा तथा दयितेन दत्तम् । अत एवातिशयिकेनातिशयप्रचुरेण । विनयादिभ्यष्टक् । रसेन स्वादेन व्याप्तम् । स्वादुतरमित्यर्थः । मुखस्य सुरा मुखसुरं गण्डूपमद्यम् । 'विभाषा सेनासुराच्छायाशालानिशानाम्' (२।४।२५) इति नपुंसकत्वम् । प्रकृष्टो मदो यासां ताभ्यः प्रमदाभ्यः स्त्रीभ्यः । 'रुच्यर्थानां प्रीयमाणः' (१।४।३३) इति संप्रदानसंज्ञा । सस्वदे रुरुचे । प्रीतिकरमभूदित्यर्थः । कर्तरि लिट् । अत एव तदेव तासां मदकरं चासीदित्याह । नामेति रूढं प्रागश्वकर्णादिवदव्युत्पन्नं नामापि प्रमदेति नामधेयं च व्युदपादि व्युत्पन्नं जातम् । यथा प्रकृष्टमदयोगात्प्रमदेत्यन्वर्थनामत्वं भवेत्तथा तास्तेनामाद्यन्नित्यर्थः । पद्यतेरण्यन्तात्कर्तरि लुङ् 'चिण् ते पदः' (३।१।६०) इति चिण्प्रत्यये चिणो लुक् । 'प्रमदाभिः' इति पाठे सस्वदे । स्वदयांचक्रे इत्यर्थः । 'स्वादनमशनं भक्षणमाहारो भोजनं स्वदनम्' इति हलायुधे । स्वदिस्वाद्योरेकार्थत्वाभिधानात्कर्मणि लिट् । अत्र पूर्ववाक्यार्थस्योत्तरवाक्यार्थहेतुत्वात्काव्यलिङ्गम् ॥ २३ ॥

 लब्धसौरभगुणो मदिराणामङ्गनास्यचषकस्य च गन्धः ।
 मोदितालिरितरेतरयोगादन्यतामभजतातिशयं नु ॥ २४ ॥

 लब्धेति ॥ लब्धसौरभगुणो मेलनात्प्राप्तसौरभोत्कर्षः । अत एव मोदितालिः आनन्दितभृङ्गः मदिराणां मद्यानां अङ्गनास्यमेव चषकं तस्य च गन्धो गन्धगुणः इतरेतरस्य योगान्मिश्रणादन्यतामपूर्वतामतिशयं नु तत्रैवोत्कर्षं वाऽभजत् । यक्षकर्दमादौ घृताक्तकुङ्कुमादौ चोभयथा दर्शनादयं संशय इति भावः । अत एव संशयालंकारः॥ २४ ॥

 मानभङ्गपटुना सुरतेच्छां तन्वता प्रथयता दृशि रागम् ।
 लेभिरे सपदि भावयतान्तर्योषि तः प्रणयिनेव मदेन ॥ २५ ॥

 मानेति ॥ मानभङ्गपटुना कोपशमनसमर्थेन सुरतेच्छां तन्वता मदनोद्दीपकेन दृशि रागमारुण्यं प्रीतिं च प्रथयता प्रकाशयता अन्तरन्तःकरणं भावयता

रञ्जयता मदेन प्रणयिनेव योषितः स्त्रियो लेभिरे प्राप्ताः । रागमिति श्लेषमूलातिशयोक्तिसंकीर्णेयमुपमा ॥ २५ ॥

 पानधौतनवयावकरागं सुभ्रुवो निभृतचुम्बनदक्षाः ।
 प्रेयसामधररागरसेन स्वं किलाधरमुपालि ररञ्जुः ॥ २६ ॥

 पानेति ॥ उपालि आल्याः समीपे । समीपार्थेऽव्ययीभावः । 'आलिः सखी वयस्या च' इत्यमरः । अत एव निभृतचुम्बनदक्षाः गूढचुम्बनचतुराः सुभ्रुवः पानधौतनवयावकरागं मधुपानक्षालितलाक्षारागं स्वमधरं प्रेयसामधरेषु यो रागरसस्ताम्बूलरागद्रवस्तेन ररञ्जुः किल । अन्यगुणस्यान्यत्राधानमिह रञ्जेरर्थः । किलेत्यपरमार्थे । तेन पानधौतरागेषु स्वाधरेषु प्रेयोधररागसंक्रमणनाटितकेन सखीसमक्षमेव प्रियांश्चुम्बनं कारयामासुरित्यर्थः । अत्रागन्तुना रञ्जनेन सहजचुम्बननिगूहनान्मीलनालंकारभेदः । 'मीलनं वस्तुना यत्र वस्त्वन्तरनिगूहनम्' इति लक्षणात् ॥ २६ ॥

 अर्पितं रसितवत्यपि नामग्राहमन्ययुवतेर्दयितेन ।
 उज्झति स्म मदमप्यपिबन्ती वीक्ष्य मद्यमितरा तु ममाद ॥ २७॥

 अर्पितमिति ॥ दयितेनान्ययुवतेः सपत्न्या नामग्राहं नाम गृहीत्वा । 'नान्या दिशिग्रहोः' (३।४।५८) इति णमुल् प्रत्ययः । अर्पितं दत्तं मद्यं रसितवत्यास्वादितवत्यपि । रसतेरास्वादनार्थात् क्तवतौ 'उगितश्च' (४।१।६) इति ङीप् । काचिदिति शेषः । मदमुज्झति स्म, न ममादेत्यर्थः । इतरा तु सपत्नी तु मद्यमपिबन्त्यपि वीक्ष्य दृष्ट्वैव ममाद मत्ता। मनोनिर्वृतिरेव मदहेतुरिति भावः । अत्र पूर्वार्धे रसितवत्यपि न ममादेति विशेषोक्तिः । उत्तरार्धे त्वपिबन्त्यपि ममादेति विभावना । 'कारणेन विना कार्यस्योत्पत्तिः स्याद्विभावना । तत्सामाग्र्यामनुत्पत्तिर्विशेषोक्तिर्निगद्यते ॥' तयोः संकरः ॥ २७ ॥

 अन्ययान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या ।
 पीतभूरिसुरयापि न मेदे निर्वृतिर्हि मनसो मदहेतुः ॥२८॥

 अन्ययेति ॥ चित्तनाथं भर्तारमन्यवनितागतचित्तं सपत्नीसंक्रान्तचेतसमभिशङ्कितवत्या तस्मिन्नविश्वसत्या अन्यया कयाचित्स्त्रिया पीतभूरिसुरयापि न मेदे न मत्तम् । माद्यतेर्भावे लिट् । तथा हि-मनसो निर्वृतिर्मदहेतुर्हि । सामान्येन विशेषसमर्थनादर्थान्तरन्यासः । एषा नवोढा भीरुश्च, अन्यथा साशङ्कायाः पानाघटनादिति ॥२८॥

 कोपवत्यनुनयानगृहीत्वा प्रागथो मधुमदाहितमोहा ।
 कोपितं विरहखेदितचित्ता कान्तमेव कलयन्त्यनुनिन्ये ॥ २९ ॥

 कोपवतीति ॥ प्राक् प्रथमं कोपवती सरोषा अत एवानुनयान् प्रियप्रार्थनानि अगृहीत्वा अनादृत्य । अथो संप्रति विरहखेदितचित्ता पश्चात्तापतप्ता काचिन्मधुमदेनाहितमोहा कृतचित्तविभ्रमा सती कान्तमेव कोपितमात्मना रोषितं कलयन्ती

पाठा०-१ 'भर्तुरोष्ठदल०". जानती अनुनिन्ये । सापराधाहं क्षमस्वेति प्रार्थितवती । मत्तेषु किं न संभावितमिति भावः । एषा कलहान्तरिता ॥ २९॥

 कुर्वता मुकुलिताक्षियुगानामङ्गसादमवसादितवाचाम् ।
 ईर्ष्ययेव हरता ह्रिअयमासां तद्गुणः स्वयमकारि मदेन ॥ ३०॥

 कुर्वतेति ॥ मुकुलिताक्षियुगानामवसादितवाचां कुण्ठितगिरामासां स्त्रीणां अङ्गसादं अङ्गसादरूपशरीरनिश्चेष्टतां कुर्वता ह्रियं हरता मदेन ईर्ष्ययेवेत्युत्प्रेक्षा । तस्या ह्रियो गुणस्तद्गुणः अक्षिनिमीलनवाक्सादाङ्गसादरूपः । स्वयमकारि कृतः । ह्रीमदयोस्तुल्यानुभाविकत्वादिति भावः ॥ ३०॥

 गण्डभित्तिषु पुरा सदृशीषु व्याजि नाश्चितदृशां प्रतिमेन्दुः।
 पानपाटलितकान्तिषु पश्चाल्लोध्रचूर्णतिलकाकृतिरासीत् ॥३१॥

 गण्डेति ॥ प्रतिमेन्दुः प्रतिबिम्बचन्द्रः सदृशीषु स्वसमानवर्णास्वञ्चितदृशां सुदृशां गण्डभित्तिषु पुरा सुरापानात्पूर्वं न व्याञ्जि नाभेदि । तदेकतापत्त्या तद्विविक्ततया न गृहीत इत्यर्थः । अत एव सामान्यालंकारः । 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता' इति लक्षणात् । विपूर्वादलेः कर्मणि लुङ् 'आडजादीनाम् (६।४।७२) इत्याडागमः । पश्चात् पानानन्तरं पानेन पानमदेन पाटलिता पाटलीकृता कान्तिर्यासां तासु गण्डभित्तिषु लोध्रचूर्णस्य लोध्रपरागस्य तिलकश्चित्रकम् । 'तमालपत्रतिलकचित्रकाणि विशेषकम् । द्वितीयं च तुरीयं च न स्त्रियाम्' इत्यमरः । तस्याकृतिरिवाकृतिर्यस्य स आसीत् । वैवर्ण्याद्विविक्त एवासीदित्यर्थः । तिलकाकृतिरिति निदर्शना पूर्वोक्तसामान्यसंसृष्टा ॥ ३१ ॥

 उद्धतैरिव परस्परसङ्गादीरितान्युभयतः कुचकुम्भैः ।
 योषितामतिमदेन जुघूर्णुर्विभ्रमातिशयपुंषि वपूंषि ॥ ३२॥

 उद्धतैरिति ॥ उद्धतैर्दृप्तैरिव कुचकुम्भैः परसरसङ्गादन्योन्यसंघर्षादुभयत ईरितान्याकृष्टानि तथा विभ्रमातिशयं विलासविशेषं पुष्णन्ति तानि । 'नपुंसकस्य झलचः' (७।१।७२) इति मुमागमः । योषितां वपूंषि । पूर्ववन्नुमागमः । 'सान्तमहतः संयोगस्य' (६।४।१०) इति दीर्घ इति विशेषः । अतिमदेन जुघूर्णः भ्रेमुः । दृप्तसंघर्षस्तटस्थपीडाकरः । यथा वृषभकलहाद्वत्सपादभङ्ग इति भावः ॥ ३२॥

 चारुता वपुरभूषयदासां तामनूननवयौवनयोगः ।
 तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितसंगमभूषः ॥ ३३ ॥

 चारुतेति ॥ आसां योषितां वपुश्चारुता सौन्दर्यमभूषयत् । तां चारुतामनूननवयौवनयोगः संपूर्णयौवनसंपत्तिरभूषयत् । तं पुनर्नवयौवनयोगं तु मकरकेतनलक्ष्मीर्मदनसंपत्तिरभूषयत् । तां मकरकेतनलक्ष्मीं दयितसंगम एव भूषा यस्य स मदोऽभूषयत् । तां मदः तं च दयितसंगम इत्यर्थः । प्रक्रमानुसारात्तां मदस्तमपि वल्लभसङ्ग इति प्रयोक्तव्ये विशेषणत्वेन प्रयोगो महाकवीनामनुद्वेगात् । यथा भारवेः प्रयोगः 'शुचि भूषयती'त्यादौ (किरातार्जुनीये २।३२) श्लोके 'स नयाङ्कः स च सिद्धिभूषणः' इति वक्तव्ये 'स नयापादितसिद्धिभूषणः' इति । अत्रोत्तरोत्तरस्य पूर्वपूर्वविशेषकत्वादेकावली । 'यत्रोत्तरोत्तरेषां स्यात् पूर्वपूर्वं प्रति क्रमात् । विशेषकत्वकथनमसावेकावली मता ॥' इति लक्षणात् ॥३३॥

 क्षीबतामुपगतास्वनुवेलं तासु रोषपरितोषवतीषु ।
 अग्रहीन्नु सशरं धनुरुज्झामास नूज्झितनिषङ्गमनङ्गः ॥ ३४ ॥

 क्षीबतामिति ॥ क्षीबतां मत्तताम् । 'मत्ते शौण्डोत्कटक्षीबाः' इत्यमरः । 'क्षीबृ मदे' इत्यस्माद्धातोः 'अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः' (८।२।५५) इति निष्ठान्तो निपातितः । उपगतासु प्राप्तासु । अत एवानुवेलं प्रतिक्षणं रोषपरितोषवतीषु तासु स्त्रीषु विषये अनङ्गः सशरं धनुरग्रहीन्नु, उज्झितनिषङ्गं त्यक्ततूणीरं यथा तथोज्झामास नु तत्याज किम् । उज्झतेर्लिट् 'इजादेव गुरुमतोऽनृच्छः' (३।१।३६) इत्याम्प्रत्ययः । रुष्टासु धनुर्ग्रहणं परितुष्टासु त्यागश्च रोषपरितोषाभ्यामुत्प्रेक्ष्यते । अन्यथा रोषानन्तरं परितोषः परितोषानन्तरं रोषश्च न स्यादिति भावः । रोषपरितोषयोर्धनुर्ग्रहणाग्रहणाभ्यां यथासंख्येनान्वयाद्यथासंख्यालंकारभेदः । तेनोत्प्रेक्षयोरङ्गाङ्गिभावेन संकरः ॥ ३४ ॥

 शङ्कयान्ययुवतौ वनिताभिः प्रत्यभेदि दयितः स्फुटमेव ।
 न क्षमं भवति तत्त्वविचारे मत्सरेण हतसंवृति चेतः ॥३५॥

 शङ्कयेति ॥ वनिताभिरन्ययुवतौ सपत्न्यां शङ्कया तत्सङ्गशङ्कामात्रेण दयितः स्फुटमेव निश्चितवदेव प्रत्यभेदि । सिद्धवत्कृत्वोद्घाटित इत्यर्थः । अनुचितोऽयमविमृश्य मिथ्याभियोग इति शङ्कां परिहरति-नेति । मत्सरेण वैरेण हता संवृतिर्गोप्यगोपनं यस्य तच्चेतस्तत्त्वविचारे भूतार्थचिन्तायां क्षमं सहिष्णु न भवति । मत्सरग्रस्तचेतसामेष स्वभाव इति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ३५॥

 आननैर्विचकसे हृषिताभिर्वल्लभानभि तनूभिरभावि ।
 आर्द्रतां हृदयमाप च रोषो लोलति स्म वचनेषु वधूनाम् ॥३६॥

 आननैरिति ॥ वल्लभानभि । वल्लभसमक्षमित्यर्थः । 'अभिरभागे' (१।४।९१) इति लक्षणार्थकर्मप्रवचनीयत्वाद्द्वितीया । वधूनामाननैर्विचकसे विकसितम् । भावे लिट् । तनूभिरङ्गैर्हषिताभिः पुलकिताभिः । 'हृषेर्लोमसु' (७।२।२९) इतीडागमः । अभावि भूतम् । भावे लुङ् । हृदयं चार्द्रतामाप । काठिन्यं जहावित्यर्थः । वचनेषु रोषो लोलति चलति स्म । वचनगतो रोषो वक्रतापि निवृत्तेत्यर्थः । अत्र वधूष्वाननविकासाद्यनेकक्रियायौगपद्यात्समुच्चयालंकारः । 'गुणक्रियायौगपद्यं समुच्चयः' इति लक्षणात् ॥ ३६ ॥

 रूपमप्रतिविधानमनोज्ञं प्रेम कार्यमनपेक्ष्य विकासि ।
 चाटु चाकृतकसंभ्रममासां कार्मणत्वमगमन्रमणेषु ॥ ३७॥

 रूपमिति ॥ अप्रतिविधानमप्रतियत्नमेव मनोज्ञम् । स्वभावसुन्दरमित्यर्थः ।

रूपमाकृतिः । कार्यं प्रयोजनमनपेक्ष्य विकासि वर्धमानम् । अनौपाधिकमित्यर्थः । प्रेम अकृतकसंभ्रममकृत्रिमसंरम्भं चाटु प्रियवचनं चासां स्त्रीणां रमणेषु विषये कार्मणत्वं वशीकरणकर्मत्वम् । 'वशक्रिया संवननं मूलकर्म तु कार्मणम्' इत्यमरः । तद्युक्तात्कर्मणोऽण् । अगमन् प्राप्तानि । गमेर्लुङ् च्लेरङादेशः । अत्र रूपादिष्वारोप्यमाणस्य कार्मणस्य प्रकृतोपयोगात्परिणामालंकारः ॥ ३७ ॥

 लीलयैव सुतनोस्तुलयित्वा गौरवाढ्यमपि लावणिकेन ।
 मानवञ्चनविदा वदनेन क्रीतमेव हृदयं दयितस्य ॥ ३८ ॥

 लीलयेति ॥ लावण्यं कान्तिविशेषोऽस्यास्तीति लावणिकं लावण्यवत् । 'अत इनिठनौ' (५।२।११५) इति ठन्प्रत्यये 'ठस्येकः' (७।३।५०) 'यस्येति च' (६।४।१४८) इत्यल्लोपे 'हलस्तद्धितस्य' (६।४।१५०) इति यकारलोपः अन्यत्र तु लवणं पण्यमस्यास्तीति लावणिको लवणव्यवहारी । लवणाट्ठञ् प्रत्ययः । तेन लावणिकेन मानवञ्चनविदाऽहंकारहरणदक्षेण, अन्यत्र परिमाणप्रतारणपटुना सुतनोः स्त्रियाः वदनेन का गौरवाढ्यं गाम्भीर्यसंपन्नमपि,अन्यत्र गुरुत्वयुक्तमपि दयितस्य हृदयं लीलया विलासेनैव तुलयित्वा, अन्यत्रानायासेनैवोन्माय । गुर्वपि लघुतया मीत्वेत्यर्थः । क्रीतं वशीकृतमेव अन्यत्र दानेन स्वीकृतमेव । अत्र विशेषणमहिम्नैव वदने लावणिकत्वस्य, हृदये पण्यत्वस्य च प्रतीतेः समासोक्तिरलंकारः । हृदयस्य प्रतीयमानपण्याभेदेन क्रीतत्वोक्तेरलौकिकहृदयावर्जने लौकिकक्रयव्यवहारसमारोपः ॥ ३८ ॥

 एवं मदानुभावं वर्णयित्वा संप्रति सुरतकेलिवर्णनं प्रस्तौति । तत्र सुरतं द्विविधं-बाह्यमाभ्यन्तरं चेति । बाह्यं च प्रेक्षणभाषणाश्लेषणचुम्बनाद्यनेकभेदभिन्नम् । तत्र दृष्टिविशेषं तावदाह-

 स्पर्शभाजि विशदच्छविचारौ कल्पिते मृगदृशां सुरताय ।
 संनतिं दधति पेतुरजस्रं दृष्टयः प्रियतमे शयने च ॥ ३९ ॥

 स्पर्शति ॥ स्पर्शभाजि सुखस्पर्शे विशदा विमला शुभ्रा च या छविः कान्तिस्तया चारौ रम्ये सुरताय कल्पिते रतिसुखदानाय सृष्टे विहारयोग्यतया सज्जीकृते च संनतिमानुकूल्यं सर्वतः साम्यं च दधति दधाने प्रियतमे, शयने च मृगदृशां दृष्टयोऽजस्रमविच्छिन्नं पेतुः पतिताः । युगपदुभयावलोकनादभिलाषं व्यायामासुरित्यर्थः । अत्र प्रियतमशयनयोः प्रकृतयोरेव धर्मसाम्यादौपम्यप्रतीतेः केवलप्रकृतगोचरा तुल्ययोगिता ॥ ३९ ॥

 यूनि रागतरलैरपि तिर्यक्पातिभिः श्रुतिगुणेन युतस्य ।
 दीर्घदर्शिभिरकारि वधूनां लङ्घनं न नयनैः श्रवणस्य ॥४०॥

 यूनीति ॥ रागेण तरलैश्चपलैरपि । दर्शनोत्सुकैरपीत्यर्थः । यूनि प्रिये तिर्यक्पातिभिस्त्रपया साचि विप्रसारिभिः दीर्घदर्शिभिरायतान्तैः । आलोकनव्यापारपरैरित्यर्थः । अन्यत्र रागद्वेषचपलैः अत एव तिर्यक्पातिभिः कुटिलवृत्तिभिरपि दीर्घदर्शिभिः । आगामिकार्यज्ञैरित्यर्थः । वधूनां नयनैः श्रुतिगुणेन शब्दग्रहणपाटवेन युतस्य श्रूयतेऽनेनेति श्रवणं श्रोत्रं तस्य लङ्घनमतिक्रमो नाकारि न चक्रे । कर्णान्ते विश्रान्तमित्यर्थः । अन्यत्र तु श्रुतिः श्रवणम् । अभ्यास इति यावत् । सैव गुणस्तेन युतस्य श्रूयत इति श्रवणं शास्त्रं तस्य लङ्घनं नाकारि । रागद्वेषग्रस्तोऽपि शास्त्रज्ञः कदाचिच्छास्त्रातिक्रमाद्बिभेतीति भावः । अयं च व्यवहारो नयनेषु रागतरलैरित्यादिश्लिष्टविशेषणमहिम्ना गम्यत इति समासोक्तिभेदः । इयं च रागदृष्टिरौत्सुक्यानुभावः ॥ ४० ॥

 संकथेच्छुरभिधातुमनीशा संमुखी न च बभूव दिदृक्षुः।
 स्पर्शनेन दयितस्य नतभ्रूरङ्गसङ्गचपलापि चकम्पे ॥ ४१ ॥

 संकथेति ॥ नतभ्रूः स्त्री संकथायां संभाषणे इच्छुरिच्छावत्यपि । 'विन्दुरिच्छुः' (३।२।१६९) इत्युप्रत्ययान्तो निपातः । अभिधातुं संभाषयितुमनीशा अक्षमा बभूव । अप्यर्थश्चशब्दः । दिदृक्षुर्द्रष्टुमिच्छुरपि । दृशेः सन्नन्तादुप्रत्ययः । संमुखी अभिमुखी न बभूव । अङ्गसङ्गचपला गात्रस्पर्शचपलापि दयितस्य स्पर्शनेन चकम्पे कम्पितवती । एते कम्पादयो लज्जासाध्वसानुभावाः । लज्जाविजितमन्मथेयं मुग्धा ॥ ४१ ॥

 अथालिङ्गनं वर्णयति-

 उत्तरीयविनयात्रपमाणा रुन्धती किल तदीक्षणमार्गम् ।
 आवरिष्ट विकटेन विवोढुर्वक्षसैव कुचमण्डलमन्या ॥ ४२ ॥

 उत्तरीयेति ॥ अन्या स्त्री उत्तरीयविनयात् कुचांशुकाकर्षणात् । त्रपमाणा तदीक्षणमार्गं तस्य वोढुर्दृष्टिपथं रुन्धती किल आवृण्वतीव, न तु वस्तुत इति किलार्थः । विकटेन विशालेन । 'विशङ्कटं विशालं स्यात्करालं विकटं तथा' इति वैजयन्ती । 'संप्रोदश्च कटच्' (५।२।२९) इति चकाराद्वेः कटच् प्रत्ययः । विवोढुः परिणेतुः वक्षसैव कुचमण्डलं आवरिष्ट आवृतवती कुचावरणव्याजेनालिङ्गितवती । वृञो लुङि तङ् इडागमः । अत्र कुचसंवरणेनालिङ्गनेच्छानिगूहनान्मीलनभेदः । एषा लज्जामन्मथमध्यस्था मध्यमा ॥ ४२ ॥

 अंशुकं हृतवता तनुबाहुस्वस्तिकापिहितमुग्धकुचाग्रा ।
 भिन्नशङ्खवलयं परिणेत्रा पर्यरम्भि रभसादचिरोढा ॥ ४३ ॥

 अंशुकमिति ॥ अंशुकमुत्तरीयं हृतवता परिणेत्रा भर्त्रा तन्वोः कृशयोः बाह्वोः स्वस्तिको बन्धविशेषः तेनापिहिते आच्छादिते मुग्धे सुन्दरे कुचाग्रे यस्याः सा तथोक्ता । अचिरोढा नवोढा । भिन्नानि शङ्खस्य वलयानि यस्मिन्कर्मणि तद्यथा तथा रभसाद्वेगात्पर्यरम्भि । गाढमाश्लिष्टेत्यर्थः । रभेर्ण्यन्तात्कर्मणि लुङ् । 'रभेरशब्लिटोः' (७।१।६३) इति नुमागमः । एषा तिरोहितमुग्धा ॥ ४३ ॥

 संजहार सहसा परिरब्धप्रेयसीषु विरहय्य विरोधम् ।
 संहितं रतिपतिः स्मितभिन्नक्रोधमाशु तरुणेषु महेषुम् ॥४४॥

 संजहारेति ॥ तरुणेषु युवसु विरोधं प्रणयकलहं विरहय्य विहाय । रहयतेः स्वार्थण्यन्तात् क्त्वा तस्य ल्यप् 'ल्यपि लघुपूर्वात्' (६।४।५६) इत्ययादेशः।

सहसा परिरब्धाः प्रेयस्यो यैस्तेषु परिरब्धप्रेयसीषु आश्लिष्टवधूकेषु सत्सु । 'ईयसश्च' (५।४।१५६) इति कपोऽभावः । 'ईयसो बहुव्रीहौ प्रतिषेधो वक्तव्यः' (वा०) इत्युपसर्जनस्य ह्रस्वनिषेधः । रतिपतिः कामः संहितं प्रागारोपितं महेषु महान्तं शरं स्मितभिन्नक्रोधं स्वयत्नसाफल्यात् स्मितेनोज्झितपूर्वरोषं च यथा तथा आशु संजहार । सिद्धेऽर्थे साधनानवकाशादित्यर्थः । परिरम्भान्तो यूनां विरह इति भावः ॥४४॥

 स्रंसमानमुपयन्तरि वध्वाः श्लिष्टवत्युपसपत्नि रसेन ।
 आत्मनैव रुरुधे कृतिनेव स्वेदसङ्गि वसनं जघनेन ॥४५॥

 स्रंसमानमिति ॥ उपयन्तरि भर्तरि रसेन । रागान्धतयेत्यर्थः । उपसपत्नि सपत्नीसमीपे । समीपार्थेऽव्ययीभावे नपुंसकह्रस्वत्वम् । श्लिष्टवति आश्लिष्टवति सति स्रंसमानं स्पर्शसुखपारवश्याद्भ्रश्यमानं तथापि स्वेदसङ्गि स्वेदेन सात्विकेन सक्तं वध्वा वसनं कृतिना कुशलेन । स्वस्येदं लाघवमिति जानतेवेत्यर्थः । जघनेन कर्त्रा आत्मनैव स्वयमेव रुरुधे रुद्धम् । सा तु न वेत्तीति भावः । स्वेदहेतुकस्य वसनरोधस्य स्वलाघवज्ञानहेतुकत्वमुत्प्रेक्ष्यते ॥ ४५ ॥

 पीडिते पुर उरःप्रतिपेषं भर्तरि स्तनयुगेन युवत्याः।
 स्पष्टमेव दलतः प्रतिनार्यास्तन्मयत्वमभवद्धृदयस्य ॥ ४६ ॥

 पीडित इति ॥ युवत्या युवतेः स्तनयुगेन भर्तरि प्रतिनार्याः पुरोऽग्रे समक्षमेव उरःप्रतिपिष्य उरःप्रतिपेषम् । 'परिक्लिश्यमाने च' (३।४।५५) इति णमुल् 'कृन्मेजन्तः' (१।९।३९) इत्यव्ययसंज्ञा । वक्षः प्रतिपीड्येत्यर्थः । पीडिते सति दलतः ईर्ष्यया दीर्यमाणस्य प्रतिनार्याः सपत्न्या हृदयस्य तन्मयत्वं भर्तृतादात्म्यं स्पष्टमभवदेव । अन्यथा कथमन्यपीडनादन्यदलनमिति भावः । अत एवेयमसंगत्यलंकारोपजीविनी तन्मयत्वोत्प्रेक्षेति संकरः। 'कार्यकारणयोर्भिन्नदेशत्वे स्यादसंगतिः ॥ ४६॥

 दीपितस्मरमुरस्युपपीडं वल्लभे घनमभिष्वजमाने ।
 वक्रतां न ययतुः कुचकुम्भौ सुभ्रुवः कठिनतातिशयेन ॥४७॥

 दीपितेति ॥ वल्लभे दीपितस्मरमुद्दीपितकामं यथा तथा उरस्युपपीडमुरस्युपपीड्य । 'सप्तम्यां चोपपीडरुधकर्ष-' (३।४।४९) इति णमुल् । 'तत्पुरुषे कृति बहुलम्' (६।३।१४) इत्यलुक् । घनं गाढमभिष्वजमाने परिरम्भमाणे सति । 'परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम्' इत्यमरः । सुभ्रुवः कुचकुम्भौ कठिनतातिशयेन वक्रतां परिमण्डलता न ययतुर्न प्राप्तौ । अत्र गाढालिङ्गनात् कुचकुम्भयोर्वक्रत्वसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिरलंकारः ॥ ४७ ॥

 संप्रवेष्टुमिव योषित ईषुः श्लिष्यतां हृदयमिष्टतमानाम् ।
 आत्मनः सततमेव तदन्तर्वर्तिनो न खलु नूनमजानन् ॥४८॥

 संप्रवेष्टुमिति ॥ योषितः श्लिष्यतामालिङ्गतामिष्टतमानां हृदयं संप्रवेष्टुमीषुरिच्छन्ति स्मेव इति गाढालिङ्गननिमित्ता क्रियास्वरूपोत्प्रेक्षा गुणस्वरूपोत्प्रेक्षा

वा विवक्षाभेदात् । अत एवात्मनः स्वान् सततमेव तदन्तर्वर्तिनस्तेषामिष्टतमानां अन्तर्हृदयेष्वेव स्थितान्नाजानन्नूनम् । अन्यथा कथं पुनः प्रवेशेच्छेति भावः । इयमज्ञानोत्प्रेक्षा पूर्वोत्प्रेक्षासापेक्षेति सजातीयसंकरः ॥४८॥

 स्नेहनिर्भरमधत्त वधूनामार्द्रतां वपुरसंशयमन्तः ।
 यूनि गाढपरिरम्भिणि वस्त्रकोपमम्बु ववृषे यदनेन ॥ ४९ ॥

 स्नेहेति ॥ स्नेहनिर्भरं प्रेमरसपूर्णं तैलादिकद्रवद्रव्यपूर्णं च । 'स्नेहोऽस्त्री द्रवहार्दयोः' इति वैजयन्ती । अत एव वधूनां वपुरन्तरार्द्रतां द्रवत्वमधत्त । स्नेहद्रव्यसंपूर्णमन्तराद्रं भवतीति भावः । असंशयं संशयस्याभावः । अर्थाभावेऽव्ययीभावः । कुतः । यद्यस्माद्यूनि पुंसि गाढं परिरम्भत इति परिरम्भिणि गाढाश्लेषिणि सति अनेन वपुषा का वस्त्रं नोपयित्वा परिषिच्य वस्त्रक्नोपम् । क्नूयीधातोर्ण्यन्तात् 'अर्तिह्री-' (७।३।३६) इत्यादिना पुगागमे, 'चेले क्नोपेः' (३।४।३३) इति णमुल् । अम्बु ववृषे । वृषेः कर्मणि लिट् । अन्तरार्द्रस्य निष्पीडनाद्बहिरम्बुस्रावसंभवात्तन्निमित्तेयमन्तरार्द्रत्वोत्प्रेक्षा । प्रियाङ्गसङ्गात् ताः स्विन्ना इति सात्विकोदयोक्तिः ॥ ४९ ॥

 न स्म माति वपुषः प्रमदानामन्तरिष्टतमसंगमजन्मा ।
 यद्बहुर्बहिरवाप्य विकासं व्यानशे तनुरुहाण्यपि हर्षः ॥५०॥

 न स्मेति ॥ प्रमदानामिष्टतमसंगमेन जन्म यस्य सः । जन्माद्युत्तरपदत्वाद्व्यधिकरणबहुव्रीहिरिति वामनः । बहुर्विपुलः । 'विपुलानेकयोर्बहुः' इति वैजयन्ती। हर्षो वपुषोऽन्तर्न माति स्म । अत्युद्वेकान्नान्तः संमित इत्युत्प्रेक्षा । कुतः । यद्यस्माद्बहिर्वपुषो बहिर्विकासं वृद्धिमवाप्य तनुरुहाणि रोमाण्यपि व्यानशे व्याप । कर्तरि लिट् । 'अश्नोतेश्व' (७।४।७२) इति नुडागमः । अत्र बहिर्विकासननिमित्तकान्तरमानोत्प्रेक्षा आनन्दरोमाञ्चयोः श्लेषमूलाभेदाध्यवसायातिशयोक्त्यनुप्राणितेति संकरः ॥५०॥

 यत्प्रियव्यतिकरावनितानामङ्गजेन पुलकेन बभूवे ।
 प्रापि तेन भृशमुच्छसिताभिर्नीविभिः सपदि बन्धनमोक्षः॥५१॥

 यदिति ॥ वनितानां स्त्रीणां प्रियस्य भर्तुः व्यतिकरात्संपर्कात् संगमाच्चाङ्गजेनाङ्गव्यापिना पुत्रेण च पुलकेन बभूवे भूतमिति यत् । भावे लिट् । तेन पुलकोदयेन पुत्रोदयेन च भृशमुच्छसिताभिरुच्छिन्नाभिर्मोक्षाशया आश्वसिताभिश्च नीविभिः लक्षणया कटिवस्त्रैः अन्यथा बन्धनशब्देन पौनरुक्त्यात् । सपदि बन्धनमोक्षो ग्रन्थिभेदो निगडमोचनं च प्रापि प्राप्तः । कर्मणि लुङ् । अभ्युदयेषु राजानो बद्धान् मोचयन्तीति भावः । अत्र प्रकृतपुलकनीविगताङ्गजत्वोच्छ्वसितत्वादिविशेषणसाम्यावन्धनमोक्षणसंबन्धाच्च अप्रकृतपुत्रकारागतिप्रतीतेः समासोक्तिरलंकारः ॥५१॥

पाठा०-१ 'प्रमदानां'.  अथ चुम्बनक्रीडां वर्णयति-

 ह्रीभरादवनतं परिरम्भे रागवानवटुजेष्ववकृष्य ।
 अर्पितोष्ठदलमाननपद्मं योषितो मुकुलिताक्षमधासीत् ॥ ५२ ॥

 ह्रीति ॥ परिरम्भे आलिङ्गने ह्रीरेव भरस्तस्मादवनतम् । भाराक्रान्तं नमतीति भावः । अर्पितं स्वमुखे निहितमोष्ठ एव दलं पत्रं यस्य तद्योषित आननमेव पद्मं रागवान् रागी अवटुजेषु चरमशिरोरुहेषु । 'अवटुर्घाटा कृकाटिका' इत्यमरः । अवकृष्य । अवटुजाकर्षणेनोन्नमय्येत्यर्थः । मुकुलिताक्षं निमीलितनेत्रं यथा तथा । 'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्पच्' (५।४।११३) इति पच् प्रत्ययः । अधासीत् पपौ । धेटो लुङ् 'आदेच-' (६।१।४५) इत्यात्त्वम् । 'विभाषा घ्राधेट्-' (२।४|८७) इति सिचो वैकल्पिके लुगभावे 'अस्तिसिचोऽपृक्ते' (७|३।९६) इतीडागमः । अत्राननोष्ठस्य पद्मदलत्वरूपणात्तत्रानुरागिणो मधुपत्वं च गम्यत इत्येकदेशविवर्ति रूपकम् ॥ ५२ ॥

 पल्लवोपमितिसाम्यसपक्षं दष्टवत्यधरबिम्बमभीष्टे ।
 पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण ॥ ५३॥

 पल्लवेति ॥ पल्लवेनोपमित्या सादृश्येन यत्साम्यं तेन सपक्षं उभयोरपि पल्लवैकोपमानत्वसाधर्म्यात्सुहृद्भूतमधरो बिम्बमिव तदधरबिम्बमभीष्टे प्रियतमे दष्टवति सति । सह रुजा सरुक् । 'तेन सह-' (२।२।२८) इति बहुव्रीहिः । सहस्य सः । तेन सरुजेव सव्यथेनेव । 'स्त्री रुग्रुजा चोपताप' इत्यमरः । ताराण्युच्चैः क्रोशन्ति । कुतः । लोलानि चलानि वलयानि कङ्कणानि यस्य तेन तरुण्याः करेण पर्यकूजि परिकूजितम् । भावे लुङ् । सुहृद्दुःखाद्दुःखायन्ते सुहृद इति भावः । अत्र कङ्कणद्वारकस्य करकूजनस्य विधूननहेतुकस्य सरुजेवेति रुग्घेतुकत्वमुत्प्रेक्ष्यते ॥ ५३॥

 केनचिन्मधुरमुल्बणरागं बाष्पतप्तमधिकं विरहेषु ।
 ओष्ठपल्लवमपास्य मुहूर्तं सुभ्रुवः सरसमक्षि चुचुम्बे ॥ ५४ ॥

 केनचिदिति ॥ केनचिद्रागिणा मधुरं रसवन्तमुल्बणरागमतिरक्तं तथापि विरहेष्वधिकं बाष्पेण विरहोष्मणा तप्तं सुभ्रुव ओष्ठपल्लवमपास्य सरसं सान्द्रशीतमक्षि चुचुम्बे चुम्बितम् । अत्र तप्तत्वरसवत्त्वयोर्विशेषणगत्याधरत्यागाक्षिचुम्बनहेतुकं काव्यलिङ्गद्वयं सापेक्षत्वात्संकीर्यते ॥ ५४ ॥

 एवं बाह्यसुरतमुक्त्वाभ्यन्तरसुरतवर्णनं प्रस्तौति-

 रेचितं परिजनेन महीयः केवलाभिरतदंपति धाम ।
 साम्यमाप कमलासखविष्वक्सेनसेवितयुगान्तपयोधेः॥५५॥

 रेचितमित्यादि ॥ परिजनेन रेचितं रिक्तीकृतम् । अत एव केवलावेकाकिनावभिरतौ दंपती जायापती यस्मिंस्तत् । 'दंपती जंपती जायापती भार्यापती च तौ' इत्यमरः । राजदन्तादिषु जायाशब्दस्य जंभावो दंभावश्च विकल्पान्निपातितः । महीयो महत्तरं धाम केलिगृहं कमलासखेन लक्ष्मीभर्त्रा विष्वक्सेनेन जनार्दनेन विष्णुना सेवितस्याधिष्ठितस्य युगान्तपयोधेः साम्यमाप इत्युपमालंकारः । युगान्तविशेषणं विविक्तताद्योतनार्थम् । एतेनेच्छाविहारतोक्ता ॥ ५५ ॥

 अथ विश्रम्भविहाराण्येवाह-

 आवृतान्यपि निरन्तरमुच्चैर्योषितामुरसिजद्वितयेन ।
 रागिणामित इतो विमृशद्भिः पाणिभिर्जगृहिरे हृदयानि ॥५६॥

 आवृतानीति ॥ उच्चैरुन्नतेनोरसिजद्वितयेन निरन्तरं नीरन्ध्रमावृतानि संवृतान्यपि योषितां हृदयानि वक्षांसि, चेतांसि च इत इतो विमृशद्भिरितस्ततः परामृशद्भिः रागिणां पाणिभिर्जगृहिरे गृहीतानि । निगूढं वस्तु हस्तपरामर्शाल्लभ्यत इति एकत्र भावः, अन्यत्र कृच्छ्रलब्धः प्रियकरस्पर्शस्तासां हृदयग्राह्योऽभूदिति भावः । नैरन्तर्येण प्रतिबध्नतोरपि कुचयोः कथंचिदन्तरं संपाद्य हृदयानि स्पृष्टान्येवेति वाक्यार्थः । अत्र द्वितयानामपि हृदयानां प्रकृतत्वात्केवलप्रकृतश्लेषः ॥५६॥

 कामिनामसकलानि विभुग्नैः खेदवारिमृदुभिः करजाः ।
 अक्रियन्त कठिनेपु कथंचित्कामिनीकुचतटेषु पदानि ।। ५७ ॥

 कामिनामिति ॥ स्वेदवारिणा सात्विकेनाङ्गुलीस्वेदेन मृदुभिः कोमलतां गतैरत एव विभुग्नैर्विनम्रैः कामिनां करजाग्रैर्नखाग्रैः कठिनेषु कामिनीकुचतटेषु असकलान्यसमग्राणि पदानि क्षतानि कथंचिदक्रियन्त कृतानि कठिनेषु मृदूनां पदलाभो दुःसंपाद्य इति भावः । नखक्रिया प्रवृत्तेत्यर्थः । अत्र कुचानामीदृक्काठिन्यासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः ॥ ५७ ॥

 सोष्मणः स्तनशिलाशिखराग्रादात्तधर्मसलिलैस्तरुणानाम् ।
 उच्छ्वसत्कमलचारुषु हस्तैर्निम्ननाभिसरसीषु निपेते ॥ ५८ ॥

 सोष्मण इति ॥ सोष्मणो यौवनोष्मयुक्तात् स्तनावेव शिलाशिखरे तयोरग्रादुपरिभागादात्तघर्मसलिलैरुष्णदेशविहारात् प्राप्तस्वेदैः तरुणानां हस्तैरुच्छ्वसत्कमलवद्विकचकमलैश्च चारुषु निम्ननाभिष्वेव सरसीषु निपेते निपतितम् । ऊष्मस्विन्नानां कुतश्चिदुन्नतात्पयसि पातो युक्त इति भावः । प्रथमं कुचौ स्पृष्ट्वा ततो नाभिदेशमस्पृशन्नित्यर्थः । अत्र कुचयोः शिलाशिखरत्वेन नाभीनां सरसीत्वेन च रूपणाद्धस्तानामापातिपुरुषत्वरूपणं गम्यत इत्येकदेशविवर्ति रूपकम् ॥ ५८ ॥

 आमृशद्भिरभितो वलिवीचीर्लोलमानवितताङ्गुलिहस्तैः ।
 सुभ्रुवामनुभवात्प्रतिपेदे मुष्टिमेयमिति मध्यमभीष्टैः॥ ५९ ॥

 आमृशद्भिरिति ॥ वलयो वीचय इव वलिवीचीरभित आमृशद्भिः लोलमानाश्चलनशीलाः । 'ताच्छील्यवयोवचनशक्तिषु चानश्' (३।२।१२९) इति चानश् प्रत्ययः । न तु शानच् । लोलतेः परस्मैपदित्वात् । अत एव 'लोलमानादयश्चानशि' इति वामनः । लोलमाना वितताः प्रसारिताश्चाङ्गुलयो येषां ते तथाविधा हस्ता येषां तैरभीष्टैः प्रियतमैः सुभ्रुवां मध्यं मुष्टिमेयमिति मुष्ट्या मातुं शक्यमित्यनुभवात्प्रत्यक्षेण मुष्ट्या मानं कृत्वैव प्रतिपेदे प्रतिबुद्धं न तु प्रसिद्धिमात्रादिति भावः । अमुष्टिमेयस्य मुष्टिमेयत्वोक्तेरतिशयोक्तिभेदोऽलंकारः ॥ ५९॥

 प्राप्य नाभिनदमज्जनमाशु प्रस्थितं निवसनग्रहणाय ।
 औपनीविकमरुन्ध किल स्त्री वल्लभस्य करमात्मकराभ्याम्॥६०॥

 प्राप्येति ॥ नाभिरेव नदो ह्रद इति रूपकं तत्र मज्जनं प्राप्याशु निवसनग्रहणाय । वस्त्राकर्षणायेत्यर्थः । स्नातस्य वस्त्रग्रहणं युक्तमिति भावः । प्रस्थितं प्रवृत्तम् । उपनीवि नीविसमीपे प्रायेण तत्र भवमोपनीविकम् । तत्र व्यापृतमित्यर्थः । 'उपजानूपकर्णोपनीवेष्ठक्' (४।३।४०) इति ठक् । वल्लभस्य करं स्त्री आत्मकराभ्यामरुन्ध किल । रोधं नाटितवतीत्यर्थः ॥ ६० ॥

 कामिनः कृतरतोत्सवकालक्षेपमाकुलवधूकरसङ्गि ।
 मेखलागुणविलग्नमसूयां दीर्घसूत्रमकरोत्परिधानम् ॥ ६१ ॥

 कामिन इति ॥ आकुले प्रियकरनिवारणव्यग्रे वधूकरे सङ्गि सक्तं मेखलैव गुणस्तत्र विलग्नं दीर्घसूत्रं आतततन्तुकम् । अत्यायतत्वाद्बहुधा वेष्टितमित्यर्थः । चिरक्रियं च । 'दीर्घसूत्रश्चिरक्रियः' इत्यमरः । एवं कृतो रतस्यैवोत्सवस्य काल- क्षेपः कालविलम्बो येन तत्परिधानमधोंशुकं कामिनोऽसूयामकरोत् । इच्छाविघातादीर्ष्यां जनयामासेत्यर्थः । अत्र करसङ्गादिपदार्थानां विशेषणगत्याऽसूयाहैतुत्वादनेकपदार्थहेतुकं काव्यलिङ्गमलंकारः ॥ ६१ ॥

 अम्बरं विनयतः प्रियपाणेर्योषितश्च करयोः कलहस्य ।
 वारणामिव विधातुमभीक्ष्णं कक्ष्यया च वलयैश्च शिशिञ्जे।।६२॥

 अम्बरमिति ॥ अम्बरं विनयतोऽपसारयतः प्रियपाणेर्योषितः करयोश्च तस्मिन् रोधकयोरिति भावः । कलहस्य वारणां विधातुं निरावरणं कर्तुमिवेति फलोत्प्रेक्षा । कक्ष्यया काञ्च्या । 'कक्ष्या कक्षे वरत्रायां काञ्च्यां गेहप्रकोष्ठयोः' इति वैजयन्ती । 'कक्षया' इति क्षान्तपाठे तु 'कक्षा ग्रहणिकाकाञ्चीप्रकोष्ठगजरज्जुषु' इति क्षान्तेषु विश्वः । वलयैः कङ्कणैश्चाभीक्ष्णं शिशिजे चुक्रुशे । भावे लिट् । 'भूषणानां तु शिक्षितम्' इत्यमरः । द्वयोः कलहायमानयोः पार्श्वस्थाः साक्रोशं निवारयन्तीति भावः । शिञ्जतिरयं तालव्यादिर्न दन्त्यादिः । 'योषेव शिञ्जे इति श्रुतेः ॥ ६२॥

अत्र 'नाभिह्रदमज्जनम्' इति पाठः सर्वत्र दरीदृश्यते, तथा च "-'प्राप्य नाभिह्रद-' इति माघप्रयोगे ह्रदशव्दमपनीय नदशब्दः पठनीय" इति दुर्घटवृत्तिकारवचनं च सुस्फुट प्रत्याययतीमं पाठम् । वृत्तरत्नाकरनारायणभट्टी-व्याख्या छन्दोमञ्जर्यादिछन्दोग्रन्थेषु 'ह्रद'पाठमादृत्योद्धृतोऽयं श्लोकोऽगुरुत्वनिदर्शनार्थ, मल्लिनाथेन च कथं नादृत इत्यपरमाश्चर्यम् । वस्तुतस्तु छन्दोविदां परिभाषया 'ह्रद' पाठादरेऽपि न

गुरुत्वम्, इति संयोगे गुरु' (१।४।११ ) सूत्रे सिद्धान्तकौमुदीविलासः।]

 ग्रन्थिमुद्ग्रथयितुं हृदयेशे वाससः स्पृशति मानधनायाः।
 भ्रूयुगेण सपदि प्रतिपेदे रोमभिश्च सममेव विभेदः ॥६३॥

 ग्रन्थिमिति ॥ हृदयेशे प्रिये वाससो ग्रन्थिमुद्ग्रथयितुं विस्रंसयितुम् । ग्रथयतेश्चौरादिकात्तुमुन् । स्पृशति सति मानधनाया मानवत्याः । कामिन्या इति शेषः । भ्रूयुगेण रोमभिश्च । 'कर्तरि तृतीया' इति तृतीया । सपदि समं युगपदेव विभेदो भङ्गो हर्षश्च प्रतिपेदे प्राप्तः । अत्र मानवत्त्वात्कामिनीत्वाच्च नीविस्पर्शे युगपदमर्षहर्षयोरुदयात्तदनुभावयोरपि युगपदाविर्भाव इति भावः । अत्र भ्रूभङ्गरोमाञ्चक्रिययोः समुच्चयात् समुच्चयभेदः । स च विभेद इति श्लेषप्रतिभोत्थापिताभेदाध्यवसायमूलातिशयोक्त्यनुप्राणित इति संकरः ॥ १३ ॥

 आशु लङ्घितवतीष्टकराग्रे नीविमर्धमुकुलीकृतदृष्ट्या ।
 रक्तवैणिकहताधरतन्त्रीमण्डलक्वणितचारु चुकूजे ॥ ६४ ॥

 आश्विति ॥ इष्टस्य प्रियस्य कराग्रे नीविं वस्त्रग्रन्थिमाशु हठाल्लङ्घितवत्यतिक्रान्तवति । ऊरुमूलं गते सतीत्यर्थः । अर्धमुकुलीकृतदृष्ट्या सुखपारवश्यादर्धनिमीलिताक्ष्या स्त्रिया रक्तो रक्तकण्ठः स्वयं गानकुशलः । वीणा शिल्पमस्य वैणिको वीणावाद्यनिपुणः । 'शिल्पम्' (४।४।५५) इति ठक् । रक्तेन वैणिकेन यन्त्रगानकुशलेन हतं वादितं यदधरं तन्त्रीणां मण्डलं समूहः बहुतन्त्रीकस्वरमण्डलादिभेदस्तस्य क्वणितमिव चारु यथा तथा चुकूजे कूजितम् । भावे लिट् । अधरग्रहणतन्त्रीमाधुर्यातिशयात् । स्पर्शसुखातिरेकार्थं तन्त्रीकण्ठस्वरव्यतिकरमनोहरः कोऽपि रससर्वस्वभूतः कण्ठकूजितविशेषः कृत इत्यर्थः । अत एव रक्तवैणिकहतेति विशेषणम् । क्वणितचार्वित्युपमालंकारः ॥ ६४ ॥

 आयताङ्गुलिरभूदतिरिक्तः सुभ्रुवां क्रशिमशालिनि मध्ये ।
 श्रोणिषु प्रियकरः पृथुलासु स्पर्शमाप सकलेन तलेन ॥६५॥

 आयतेति ॥ आयता अङ्गुलयो यस्य स प्रियकरः । कृशस्य भावः क्रशिमा कार्श्यम् । 'पृथ्वादिभ्य इमनिच्' (५।१।१२२) र ऋतो हलादेर्लघोः' (६।४।१६१) इति रेफादेशः । तेन शालते शोभते तस्मिन् सुभ्रुवां मध्येऽतिरिक्तोऽधिकोऽभूत् । मध्यस्यातिकार्यादस्पृष्टैकदेशोऽभूदित्यर्थः । पृथुलासु श्रोणिषु कटिषु । 'वहिश्रिश्रुयुद्रुग्ला-' इति सूत्रेण श्रुधातोर्निप्रत्ययः । सकलेन कृत्स्नेण तलेन स्पर्शमाप । अन्तर्भागेन क्रमेण श्रोणिमस्पृशदित्यर्थः । अत एव मध्यातिरेकोक्तेरतिशयोक्तिः ॥ ६५ ॥

 चक्रुरेव ललनोरुषु राजीः स्पर्शलोभवशलोलकराणाम् ।
 कामिनामनिभृतान्यपि रम्भास्तम्भकोमलतलेषु नखानि ॥६६॥

 चक्रुरेवेति ॥ स्पर्शलोभवशेनोरुस्पर्शतृष्णापारतत्र्येण लोलकराणां चपलपाणीनां कामिनामनिभृतान्यनर्पितान्यपि नखानि कररुहाः । 'पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम्' इत्यमरः । रम्भास्तम्भकोमलतलेषु कदलीप्रकाण्डपेलवस्वरूपेषु ललनानामूरुषु राजीः रेखाश्चक्रुरेव । ऊरुपरामर्शानान्तरीयकनखस्पर्शमात्रादेव रेखा जाता इत्यर्थः । अत्र कोमलतायाः विशेषणगत्या राजीकरणहेतुत्वाकाव्यलिङ्गभेदः ॥ ६६ ॥

 ऊरुमूलचपलेक्षणमघ्नन् यैर्वतंसकुसुमैः प्रियमेताः ।
 चक्रिरे सपदि तानि यथार्थं मन्मथस्य कुसुमायुधनाम ॥६७॥

 ऊर्विति ॥ एताः स्त्रिय ऊरूमूले चपलेक्षणं लोलचक्षुषं प्रियं यैः वतंसकुसुमैः कर्णावतंसपुष्पैः । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यकारलोपः । अघ्नन् अताडयन् । हन्तेर्लङ् । 'गमहन-' (६।४।९८) इत्यादिना उपधालोपः । 'हो हन्तेः-' (७।३।५४) इति कुत्वम् । तानि वतंसकुसुमानि सपदि मनो मथ्नातीति मन्मथः । पृषोदरादित्वात्साधुः । तस्य मन्मथस्य कुसुममायुधं यस्येति कुसुमायुध इति यन्नाम तद्यथार्थं चक्रिरे चक्रुः । तदा तेषां तत्कार्यकारित्वादिति भावः । अत्र वतंसेष्वारोप्यमाणस्य मन्मथायुधत्वस्य प्रकृतोपयोगात् परिणामालंकारः ॥ ६७ ॥

 धैर्यमुल्बणमनोभवभावा वामतां च वपुरर्पितवत्यः ।
 व्रीडितं ललितसौरतधार्ष्ट्यास्तेनिरेऽभिरुचितेषु तरुण्यः ॥६॥

 धैर्यमिति ॥ तरुण्यो रमण्यः उल्बण उद्विक्तो मनोभवभावा रतिरागो यासां ता अपि अभिरुचितेषु प्रियेषु धैर्यमौदासीन्यं तेनिरे । वपुः स्वाङ्गमर्पितवत्यो यथेष्टकरणाय दत्तवत्योऽपि वामतां वक्रतां च तेनिरे । ललितं मनोहरं सौरतं सुरतसंबन्धि धार्ष्ट्यं प्रागल्भ्यं यासां तास्तथापि व्रीडितं व्रीडां तेनिरे । इह स्त्रीणां रहसि रागाङ्गार्पणधार्ष्ट्यादिगुणा अध्यागन्तुकतया सहजधैर्यवक्रताव्रीडितैः पुनःपुनः प्रतिबध्यन्त एवेति भावः । अत्र रागादीनां धैर्यादिभिः सह समावेशविरोधस्य सहजागन्तुकाभ्यामाभासीकरणाद्विरोधाभासोऽलंकारः, धैर्यादिगुणसमुच्चयात् समुच्चयालंकारश्चेति संकरः ॥ ६८ ॥

 पाणिरोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः ।
 कामिनः स्म कुरुते करभोरुर्हारि शुष्करुदितं च सुखेऽपि ॥१९॥

 पाणीति ॥ 'मणिबन्धादाकनिष्ठं करस्य करभो बहिः' इत्यमरः । करभ इव ऊरुर्यस्याः सा करभोरूः स्त्री । 'ऊरूत्तरपदादौपम्ये' (४।१।६९) इत्यूप्रत्ययः । अविरोधितवाञ्छमनिवारितप्रियमनोरथं यथा तथा कामिनः पाणिरोधं नीविमोक्षणे व्यापृतस्य प्रियपाणेर्निवारणं कुरुते स्म । तथा मधुरं मनोहरं स्मितं गर्भेऽन्तर्वर्ति यासु ता मन्दहासमिश्राः भर्त्सनास्तर्जनाश्च कुरुते स्म । तथा सुखेऽपि अधरपीडनादौ सुखातिरेके सत्यपि हारि मनोहारि शुष्करुदितमनश्रुत्वादनार्द्रं कृत्रिमरोदनं च कुरुते स्म । स्त्रीणामेष स्वभावो यदिष्टमप्यनिष्टतया निवारयन्त्य एव, सुरतसुखमुपभुञ्जत इत्यर्थः । अत्र सुखेऽपि दुःखवदुपचारात्कुट्टमिताख्योऽनुभावो द्रष्टव्यः । 'केशाधरादिग्रहणे मोदमानेऽपि मानसे । दुःखितेव बहिः कुप्येद्यत्र कुट्टमितं हि तत् ॥' इति लक्षणात् ॥ ६९ ॥

 वारणार्थपदगद्गदवाचामीर्ष्यया मुहुरपत्रपया च ।
 कुर्वते स्म सुदृशामनुकूलं प्रातिकूलिकतयैव युवानः ॥ ७० ॥

 वारणार्थेति ॥ ईर्ष्य॑या अतिपीडनासहिष्णुतया, अपत्रपया च रहस्यप्रकाशनवैलक्ष्येण च मुहुर्वारणार्थपदेषु मा मेत्यादिनिषेधवाचकशब्दप्रयोगेषु गद्गदवाचा स्खलद्गिरां सुदृशां प्रतिकूलं वर्तन्त इति प्रातिकूलिकाः प्रतिकूलचारिणः । 'तत्प्रत्यनुपूर्वमीपलोमकूलम्' (४।४।२८) इति ठक् । तत्तया प्रातिकूलिकतयैव प्रतिकूलाचरणेनैव युवानोऽनुकूलमिष्टं कुर्वते स्म । कृत्रिमनिवारणाद्यत्प्रतिकूलमिवाचरितमधरपीडनादिकं तत्तासामिष्टत्वादनुकूलसेवेति । प्रतिकूलाचरणमेवानुकूलं भवतीत्यर्थः । अत एव प्रतिकूलमप्यनुकूलमिति विरोधाभासोऽलंकारः ॥ ७० ॥

 अन्यकालपरिहार्यमजस्रं तद्द्वयेन विदधे द्वयमेव ।
 धृष्टता रहसि भर्तृषु ताभिर्निर्दयत्वमितरैरबलासु ॥ ७१ ॥

 अन्येति ॥ अजस्रं नित्यमन्यकालपरिहार्यं सुरतेतरकाले तु त्याज्यं तद्द्वयं कर्म द्वयेन कर्त्रा विदधे विहितमेव । धाञः कर्मणि लिट् । एतदेव व्यनक्ति । रहसि ताभिरबलाभिर्भर्तृषु विषये धृष्टता विदधे । इतरैर्भर्तृभिरबलासु स्त्रीषु निर्दयत्वं च विदधे । अन्यदा यथा पुंसां स्त्रीषु दया तासां तेष्वप्रागल्भ्यमलंकारस्तद्वत् सुरतेषु तद्विरुद्धमेवालंकार इति भावः । अत्र स्त्रीपुंसधार्ष्ट्यनिर्दयत्वयोः प्रकृतयोर्विधानक्रियायोगपद्यं गम्यत इति तुल्ययोगिताभेदः ॥ ७१ ॥

 बाहुपीडनकचग्रहणाभ्यामाहतेन नखदन्तनिपातैः ।
 बोधितस्तनुशयस्तरुणीनामुन्मिमील विशदं विषमेषुः ॥७२॥

 बाह्विति ॥ तरुणीनां तनौ शेते इति तनुशयस्तनुषु सुप्तः । 'अधिकरणे शेतेः' (३।२।१५) इत्यच् प्रत्ययः । विषमेषुः कामः बाहुपीडनं निर्दयाश्लेषः, कचग्रहणं केशाकर्षणं ताभ्यामाहतेन मुष्टिघातेन । नपुंसके भावे क्तः । नखानां दन्तानां च निपातैः क्षतैश्च बोधितः सन् विशदं निर्जाड्यं यथा तथा उन्मिमीलोद्बुद्धः । सर्वमेतत्कामस्योद्दीपकमासीदित्यर्थः । अत्र प्रकृतविषमेषुविशेषणसामर्थ्यादप्रस्तुतसुप्तप्रबुद्धपुरुषप्रतीतेः समासोक्तिरलंकारः । एवमेव प्रबोध्यते खलु निद्रालुरित्यलौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः ॥ ७२ ॥

 कान्तया सपदि कोऽप्युपगूढः प्रौढपाणिरपनेतुमियेष ।
 संहतस्तनतिरस्कृतदृष्टिभ्रष्टमेव न दुकूलमपश्यत् ॥ ७३ ॥

 कान्तयेति ॥ कान्तया सपदि वस्त्राकर्षणक्षण एवोपगूढ आश्लिष्टः कोऽपि युवा कामी प्रौढपाणिर्व्यग्रहस्तः सन् अपनेतुं दुकूलमाक्रष्टुमियेष । संहताभ्यां निरन्तरश्लिष्टाभ्यां स्तनाभ्यां तिरस्कृतदृष्टिस्तिरोहिताक्षः सन् भ्रष्टमेव प्रागेव स्त्रस्तं दुकूलं नापश्यत् । अत्र दृष्टितिरस्कारस्य विशेषणगत्या अदर्शनहेतुकत्वात्पदार्थहेतुकं काव्यलिङ्गम् । तच्च दृष्टेः स्तनतिरस्कारासंबन्धेऽपि संबन्धरूपातिशयोक्त्युत्थापितमिति संकरः । तेन च कुचयोर्लोकोत्तरसौन्दर्यं व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥ ७३ ॥

 आहतं कुचतटेन तरुण्याः साधु सोढममुनेति पपात ।
 त्रुट्यतः प्रियतमोरसि हारात्पुष्पवृष्टिरिव मौक्तिकवृष्टिः ॥७॥

 आहतमिति ॥ तरुण्याः संबन्धिना कुचतटेनाहतमाहतिरमुना उरसा साधु सोढमिति हेतोस्त्रुट्यतः शीर्यमाणाद्धारान्मौक्तिकवृष्टिः पुष्पवृष्टिरिव प्रियतमोरसि पपातेत्युत्प्रेक्षा । विक्रान्तः पूज्यते पुष्पवृष्ट्येति प्रसिद्धिः ॥ ७ ॥

 सीत्कृतानि मणितं करुणोक्तिः स्निग्धमुक्तमलमर्थवचांसि ।
 हासभूषणरवाश्च रमण्याः कामसूत्रपदतामुपजग्मुः ॥ ७ ॥

 सीत्कृतानीति ॥ तरुण्याः सीत्कृतानि सीत्काराः । दन्तनिष्पीडनायां सीरिति शब्दप्रयोगः । मणितं रतिकाले स्त्रीणां कण्ठकूजितविशेषः । 'मणितं रतिकूजितम्' इत्यभिधानात् । करुणोक्तिः त्रायस्वेत्यादिदीनोक्तिः । स्निग्धं स्नेहार्द्रमुक्तमुक्तिः । त्वं मे प्राणा इति प्रियवाद इत्यर्थः । अलमर्थानि निषेधार्थानि वचांसि मा मेत्यादिनिवारणवचनानि । हासानां भूषणानां च रवाः स्वनाश्च कामसूत्रस्य वात्स्यायनादिकामतन्त्रप्रतिपादकशास्त्रस्य पदतां पद्यत इति पदमर्थः । प्रमेयलक्षणमिति यावत् । तत्तामुपजग्मुरिति गम्योत्प्रेक्षा । यद्वा कामेनैव कृतं सूत्रं तस्य पदानि सुप्तिङन्तशब्दरूपाणि तस्य शास्त्रस्यैतान्येव पदानि तत्ता- मुपजग्मुरित्युत्प्रेक्षैव ॥ ७५ ॥

 उद्धतैर्निभृतमेकमनेकैश्छेदवन्मृगदृशामविरामैः ।
 श्रूयते स मणितं कलकाञ्चीनूपुरध्वनिभिरक्षतमेव ॥ ७६ ॥

 उद्धतैरिति ॥ निभृतमनुद्धतम् । सूक्ष्ममित्यर्थः । एकमेकाकि छेदवद्विच्छेदयुक्तम् । मृगदृशां मणितं रतिकूजितं उद्धतैः स्थूलैरनेकैर्बहुभिरविरामैरविच्छेदैः कलैरव्यक्तमधुरैः काञ्चीनां नूपुराणां च धनिभिरक्षतमतिरस्कृतमेव श्रूयते स्म श्रुतम् । मणितस्य तिरोधायकशब्दान्तरसद्भावेऽपि ताद्रूप्यानापत्तेरतद्गुणालंकारः । 'सति हेतावतद्रूपस्वीकारः स्यादतद्गुणः' इति लक्षणात् ॥ ७६ ॥

 ईदृशस्य भवतः कथमेतल्लाघवं मुहुरतीव रतेषु ।
 क्षिप्तमायतमदर्शयदुर्व्यां काञ्चिदाम जघनस्य महत्त्वम् ॥७७॥

 ईदृशस्येति ॥ रतेषु उर्व्यां क्षिप्तं रतिसंभ्रमात्पतितम् आयतं दीर्घभूतं काञ्चिदाम रसनागुणः कर्तृ ईदृशस्येति काञ्चिदाम्नः स्वायामदृष्टान्तेन जघनपरिमाणप्रदेशेनेत्थं महत्तरस्यातिमहतस्तव जघनस्य रतेषूपरिसुरतेषु मुहुः कथमेतल्लाघवं मुहुरुत्पतनपाटवं यस्येत्थमायतमहमपि एकवेष्टनपर्याप्तमिति भावः । इति जघनस्य महत्त्वदर्शनादिव । इत्थं विस्मितस्येति शेषः । गम्यमानार्थत्वादप्रयोगः । अत्रोर्व्यामायतत्वनिमित्तकाञ्चीदामकर्तृकं विस्मयपूर्वकजघनमहत्त्वदर्शनमुत्प्रेक्ष्यते ॥ ७७ ॥

 प्राप्यते स गतचित्रकचित्रश्चित्रमार्द्रनखलक्ष्म कपोलैः ।
 दध्रिरेऽथ रभसच्युतपुष्पाः स्वेदबिन्दुकुसुमान्यलकान्ताः॥७८॥

 प्राप्यत इति ॥ गतानि विमर्दात्प्रमृष्टानि चित्रकचित्राणि तमालपत्ररचनानि येषां तैः कपोलैरार्द्रं यन्नखलक्ष्म तदेव चित्रमिति रूपकम् । प्राप्यते स्म प्राप्तम् । किं च रभसेन रतिसंभ्रमेण च्युतपुष्पा अलकान्ताश्चूर्णकुन्तलाग्राणि स्वेदबिन्दुनेव कुसुमानीति रूपकम् । दधिरे दधुः । धरतेर्भौवादिकाल्लिटि जित्त्वादात्मनेपदम् । स्वेदोऽत्र श्रमानुभवः । 'श्रमः खेदोऽध्वरत्यादेः श्वासस्वेदातिभूमिकृत् ॥ ७८ ॥

 यद्यदेव रुरुचे रुचिरेभ्यः सुभ्रुवो रहसि तत्तदकुर्वन् ।
 आनुकूलिकतया हि नराणामाक्षिपन्ति हृदयानि तरुण्यः ॥७९॥

 यद्यदेवेति ॥ रुचिरेभ्यो रमणेभ्यो यद्यदेव चेष्टितं रुरुचे रोचते स्म । प्रियमभूदित्यर्थः । 'रुच दीप्तावभिप्रीतौ च' इति धातोर्लिट् । 'रुच्यर्थानां प्रीयमाणः' (१॥४॥३३) इति संप्रदानत्वम् । सुभ्रुवो रहसि तत्तदकुर्वन् । तथा हि-तरुण्यः अनुकूलं वर्तन्त इत्यानुकूलिकाः । 'तत्प्रत्यनुपूर्वमीपलोमकूलम्' (४।४।२८) इति ठक् । तासां भावस्तत्ता तया आनुकूलिकतया अनुकूलवर्तितयैव नराणां पुंसां हृदयान्याक्षिपन्त्यावर्जयन्तीत्यर्थान्तरन्यासः ॥ ७९ ॥

 प्राप्य मन्मथरसादतिभूमि दुर्वहस्तनभराः सुरतस्य ।
 शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेशमसितायतकेश्यः॥८॥

 प्राप्येति ॥ दुर्वहः स्तनभरो यासां ताः । एतेनोपरि सुरतं व्यज्यते । अन्यथा विशेषणवैयर्थ्यात् । असिता आयताश्च केशा यासां ता असितायतकेश्यः स्त्रियः । 'स्वाङ्गाच्च - (४।१।५४) इत्यादिना ङीष् । मन्मथरसात् स्मररागात् सुरतस्यातिभूमिं परां काष्ठां प्राप्य । महान्तं सुरतं प्राप्येत्यर्थः । श्रमजलेन स्वेदाम्बुना आर्द्रे ललाटे श्लिष्टाः केशा यस्मिन्कर्मणि तद्यथा तथा शश्रमुरिति सानुभावस्य श्रमभावोक्तिः । भावनिबन्धनात् प्रेयोऽलंकारः ॥ ८॥

 अथ सुरतावसानं वर्णयति-

 संगताभिरुचितैश्चलितापि प्रागमुच्यत चिरेण सखीव ।
भूय एव समगंस्त रतान्ते ह्रीर्वधूभिरसहा विरहस्य ॥८१॥

 संगताभिरिति ॥ उचितैः परिचितैः प्रियतमैः सह संगताभिर्वधूभिः प्राक् सुरतादौ चलिता गन्तुं प्रचालितापि ह्रीः सखीव चिरेणामुच्यत मुक्ता । न सहत इत्यसहा । पचाद्यजन्तेन नञ्समासः । विरहस्यासहा। विरहमसहमाना सतीत्यर्थः। कर्तृकर्मणोः कृति' (२।३।६५) इति कर्मणि षष्ठी । रतान्ते भूय एव वधूभिः समगंस्त संगता सखीवेत्येव । संपूर्वाद्गमेर्लुङ् ‘समो गम्यृच्छिभ्याम्-' (१॥३।२९) इत्यात्मनेपदम् । 'वा गमः' (१।२।१३) इति सिचः पक्षे कित्त्वाभावात् "अनुदात्तोपदेश-' (६।४।३७) इत्यादिनानुनासिकलोपो न । सुरतेतरकाले स्त्रीणां लज्जैव भूषणमिति भावः । उपमालंकारः ॥ ८१ ॥

 प्रेक्षणीयकमिव क्षणमासन् ह्रीविभङ्गुरविलोचनपाताः ।
 संभ्रमद्रुतगृहीतदुकूलच्छाद्यमानवपुषः सुरतान्ताः ॥ ८२ ॥

 प्रेक्षणीयकमिति ॥ ह्रिया विभङ्गुराः स्खलिता विलोचनपाता दृष्टिपाता येषु ते संभ्रमेण द्रुतं गृहीतेन दुकूलेन छाद्यमानानि वपूंषि अन्तरङ्गाणि येषु ते सुरतान्ताः सुरतावसानानि क्षणं प्रेक्षणीयकं दृश्यमिवासन्नित्युपमा । नाटकादिरूपकेष्वाहार्यकं वस्तु तदृश्यं प्रेक्षणीयकमिति चोच्यते । इहाविर्भावतिरोधानादिना तत्तुल्यत्वम् ॥ ८२ ॥

 अप्रभूतमतनीयसि तन्वी काञ्चिधाम्नि पिहितैकतरोरु ।
 क्षौममाकुलकरा विचकर्ष क्रान्तपल्लवमभीष्टतमेन ॥ ८३ ॥

 अप्रभूतमिति ॥ तन्वी कृशाङ्गी अभीष्टतमेन प्रेयसा क्रान्तपल्लवं गृहीताच्चलम् अत एवातनीयसि महीयसि काञ्चिधाम्नि जघने अप्रभूतं छादयितुमपर्याप्तम् । अत एव पिहितश्छादित एकतर एवोरुर्येन तत् क्षौमं दुकूलं आकुलकरा व्यग्रपाणिः सती विचकर्ष कृत्स्नापिधानार्थमाचकर्ष । लज्जानुभावोऽयम् । अत्र क्षौमविशेषाणामाकर्षणहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः ॥ ८३ ॥

 मृष्टचन्दनविशेषकभक्तिभ्रष्टभूषणकदर्थितमाल्यः ।
 सापराध इव मण्डनमासीदात्मनैव सुदृशामुपभोगः ॥ ८४ ॥

 मृष्टेति ॥ मृष्टा प्रमृष्टा चन्दनानां विशेषकाणां तमालपत्राणां च भक्ती रचना येन सः । 'तमालपत्रतिलकचित्रकाणि विशेषकम्' इत्यमरः । भ्रष्टानि भूषणानि यस्मिन् स भ्रष्टभूषणः कुत्सितोऽर्थः कदर्थः। लोकतो विशेष्यलिङ्गत्वम् । 'कोः कत्तत्पुरुषेऽचि' (६|३।१०१) इति कुशब्दस्य कदादेशः । कदर्थानि कृतानि कदर्थितानि दूषितानि माल्यानि येन सः । ततस्तयोर्वैवक्षिकविशेष्यविशेषणभावाद्विशेषणसमासः । एवंभूत उपभोगः सापराध इव पूर्वमण्डनापहारात् कृतापराध इव सुदृशामात्मनैव स्वयमेव । प्रकृत्यादित्वात्तृतीया । मण्डनमासीत् । प्रतिनिधिकरणेन स्वापराधनिरासार्थमिवेत्युप्रेक्षा । स्त्रीणां संभोग एव मण्डनं तदभावे मण्डनान्तरस्याप्यमण्डनत्वादिति भावः ॥ ८४ ॥

 योषितः पतितकाचनकाञ्चौ मोहनातिरभसेन नितम्बे ।
 मेखलेव परितः स विचित्रा राजते नवनखक्षतलक्ष्मीः ॥८५।।

 योषित इति ॥ मोहनातिरभसेन सुरतसंभ्रमेण पतिता काञ्चनी काञ्चनस्य विकारा काञ्चिर्यस्मात्तस्मिन्निर्मेखले योषितो नितम्बे परितः सर्वतो विचित्रा

विविधरचना नवनखक्षतलक्ष्मीर्मेखलेव राजते स्म । उत्प्रेक्षालंकारः ॥ ८५ ॥

 भातु नाम सुदृशां दशनाङ्कः पाटलो धवलगण्डतलेषु ।
 दन्तवाससि समानगुणश्रीः संमुखोऽपि परभागमवाप ॥८६॥

 भात्विति ॥ सुदृशां संबन्धी पाटलोऽरुणो दशनाङ्को दन्तक्षतं धवलगण्डतलेषु कपोलेषु भातु नाम वैवर्ण्याद्भेदेन प्रकाशताम् । नामेत्यङ्गीकारे । दन्तवाससि अधरे तु समानगुणश्रीस्तुल्यवर्णोऽपि तथा संमुखोऽपि सन् परभागं गुणोत्कर्षं तथा पश्चाद्भागं चावाप इति सावर्ण्यवैवर्ण्ययोः संमुखपराङ्मुखत्वयोश्च विरोधः । उपरिभागमवापेत्युभयत्र परिहाराद्विरोधाभासद्वयसंसृष्टिः । तत्राद्यः श्लेषभित्तिकाभेदाध्यवसायमूलस्तद्गुणोत्थापित इति संकरः ॥ ८६ ॥

 सुभ्रुवामधिपयोधरपीठं पीडनैस्त्रुटितवत्यपि पत्युः ।
 मुक्तमौक्तिकलघुर्गुणशेषा हारयष्टिरभवद्गुरुरेव ॥ ८७ ।।

 सुभ्रुवामिति ॥ सुभ्रुवां पयोधरपीठके कुचतटे अधिपयोधरपीठम् । विभक्त्यर्थेऽव्ययीभावः । पत्युः पीडनैः परिरम्भादिविमर्दैस्त्रुटितवती छेदं गतापि । अत एव मुक्तमौक्तिका सा च सा लघुश्च अत एव गुणशेषा सूत्रमात्रशेषापि हारयष्टिर्गुरुः श्लाघ्यैवाभवत् । लघुरिति गुरुरिति विरोधाभासोऽलंकारः ॥ ८७ ॥

 विश्रमार्थमुपगूढमजस्रं यत्प्रियैः प्रथमरत्यवसाने ।
 योषितामुदितमन्मथमादौ तद्द्वितीयसुरतस्य बभूव ॥ ८८॥

 विश्रमेति ॥ योषितां प्रथमरत्यवसाने विश्रमार्थं श्रमापनोदार्थम् । श्राम्यतेर्घञ्प्रत्ययः । 'नोदात्तोपदेशस्य मान्तस्यानाचमेः' (७।३।३४) इति वृद्ध्यभावः । अजस्रं प्रियैरुपगूढमुपगूहनम् । नपुंसके भावे क्तः । 'न लोका-' (२।३।६९) इत्यादिना षष्ठीप्रतिषेधः । उदितमन्मथमुत्पादितकामम् । अत एव तदुपगूहनं द्वितीयसुरतस्यादौ बभूव । श्रमापनोदमन्मथोद्बोधाभ्यामुभयोपयोगादुभयार्थमभूत् । संयोगपृथक्त्वन्यायादित्यर्थः । अत्र मध्यवर्तिन उपगूढस्यैकस्य पूर्वोत्तरसुरतशेषत्वेन विशेषणगत्या विश्रमार्थोदितमन्मथपदार्थयोर्हेतुत्वात्काव्यलिङ्गद्वयं तदङ्गाङ्गिभावेन संकीर्यते ॥ ८८ ॥

 आस्तृतेऽभिनवपल्लवपुष्पैरप्यनारतरताभिरताभ्यः ।
 दीयते स्म शयितुं शयनीये न क्षणः क्षणदयापि वधूभ्यः॥८९॥

 आस्तृत इति ॥ अनारतमश्रान्तं रते सुरते अभिरताभ्य आसक्ताभ्यो वधूभ्यः क्षणमुत्सवसुखं ददातीति क्षणदा रात्रिस्तयाप्यभिनवैः पल्लवैः पुष्पैश्चास्तृत आच्छादितेऽपि । सुखशयनार्हेऽपीत्यर्थः । शेतेऽस्मिन्निति शयनीये तल्पे । 'कृत्यल्युटो बहुलम्' ( ३।३।११३) इत्यधिकरणेऽनीयर् । शयितं शयनं कर्तुं क्षणोऽल्पकालोऽपि न दीयते स्म न दत्तः किं त्वाप्रभातमरमयत् । क्षणदात्वादेवेति भावः।

क्षणदयापि क्षणो न दत्त इति विरोधस्योत्सवार्थत्वेन परिहाराद्विरोधाभासोऽलंकारः । 'निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः' इत्यमरः ॥ ८९ ॥

 योषितामतितरां नखलूनं गात्रमुज्ज्वलतया न खलूनम् ।
 क्षोभमाशु हृदयं नयदूनां रागवृद्धिमकरोन्न यदूनाम् ॥ ९० ॥

 योषितामिति ॥ नखलूनं न खलु ऊनम् । नयत् ऊनां न यदूनां इति पदच्छेदः । अतितरामतिमात्रम् । अव्ययादामुप्रत्ययः । नखैर्लूनं क्षतं नखलूनम् । 'ल्वादिभ्यः' ( ८।२।४४) इति निष्ठानत्वम् । तथाप्युज्ज्वलतया औज्ज्वल्येन न ऊनं न न्यूनम् । किं तु समग्रमेवेत्यर्थः । नखक्षतानां कामिनीगात्रमण्डनत्वादिति भावः । अत एवाशु हृदयं प्रियचित्तं क्षोभं विकारं नयत् प्रापयत् । नयतेर्लटः शत्रादेशः । योषितां गात्रं यदूनां यादवानां रागवृद्धिमूनां न्यूनां नाकरोत् खलु । किं तु भूयोऽपि समग्रमेवाकरोदित्यर्थः । अत्र यमकं शब्दालंकारः। औज्ज्वल्यस्य विशेषणगत्या रागवृद्धिहेतुत्वात्काव्यलिङ्गमर्थालंकारः ॥ ९० ॥

  इति मदमदनाभ्यां रागिणः स्पष्टरागा-
   ननवरतरतश्रीसङ्गिनस्तानवेक्ष्य ।
  अभजत परिवृत्तिं साथ पर्यस्तहस्ता
   रजनिरवनतेन्दुर्लज्जयाधोमुखीव ॥९१॥

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के सुरत-
वर्णनो नाम दशमः सर्गः ॥ १० ॥

 इतीति ॥ इतीत्थं मदमदनाभ्यां स्पष्टरागान् सर्वदा रागित्वेऽपि तदा । ताभ्यामपि व्यञ्जितरागानित्यर्थः । अनवरतरतश्रीसङ्गिनः अविच्छिन्नसुरतसंपल्लम्पटांस्तान् रागिणो रागिण्यश्च रागिणश्च तान् रागिणः । 'पुमान्स्त्रिया' (१।२।६७) इत्येकशेषः । अवेक्ष्य अथावेक्षणानन्तरं पर्यस्तः परिवृत्तो हस्तो नक्षत्रविशेषः, करश्च यस्याः सा । 'हस्तो नक्षत्रभेदे स्यात्करेभकरयोरपि' इत्युभयत्रापि विश्वः । अवनतेन्दुः स्रस्तचन्द्रा अत एव सा रजनिर्लज्जया । ग्राम्यचेष्टादर्शनजनितयेति भावः । अधोमुखी नम्रमुखीवेत्युत्प्रेक्षा । परिवृत्तिं निवृत्त्युन्मुखतामभजत । प्रभातप्रायाऽभूदित्यर्थः । स्त्रियो हि परकीयग्राम्यचेष्टादर्शने त्रपावनतमुख्यो हस्तेन दृष्टिमन्तर्धाय द्रागपसरन्तीति भावः । अत एवानन्तरसर्गे प्रभातवर्णनाय प्रस्तावः । मालिनीवृत्तमेतत् । लक्षणं तूक्तं वक्ष्यते चोत्तरसर्गादौ ॥ ९१ ।।

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध-
काव्यव्याख्याने सर्वंकषाख्ये दशमः सर्गः ॥ १० ॥

समाप्तमिदं पूर्वार्धम्।