सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१७
विंशः सर्गः ।

विंशः सर्गः। ५१७ षुरुत्पेतुः । उत्पूर्वान्नमते ङि 'यमरमनमातां सक्च' (७।२।७३) इति सगिडागमौ 'नेटि' (७।२।४) इति वृद्धिप्रतिषेधः । स्वभावोक्तिः ॥ ६७ ॥ तपनीयनिकर्षराजिगौरस्फुरदुत्तालतडिच्छटाट्टहासम् । अनुबद्धसमुद्धताम्बुवाहध्वनिताडम्बरमम्बरं बभूव ॥ ६८॥ तपनीयेति ॥ तपनीयस्य हेम्नो निकर्षराजयः कर्षणलेखा इव गौर्यः पीताः । 'गौरोऽरुणे सिते पीते' इत्यमरः । स्फुरन्त्य उत्ताला उद्धतास्तडिच्छटा विद्युल्लता एवाट्टहासा यस्य तत्तथोक्तं अनुबद्धोऽनुस्यूतः समुद्धतस्तारोऽम्बुवाहानां ध्वनिताडम्बरो गर्जिताडम्बरो यस्य तदम्बरं बभूव । तदाम्बुवाहैर्विद्युत्प्रभाभिर्गर्जिताड- म्बरैश्चाट्टहासं कुर्वद्भिरिवाम्बरं बभावित्यर्थः । व्यञ्जकाप्रयोगाद्गम्योत्प्रेक्षा ॥ ६८॥ सवितुः परिभावुकैर्मरीचीनचिराभ्यक्तमतङ्गजाङ्गभाभिः । जलदैरभितः स्फुरद्भिरुचैर्विदधे केतनतेव धूमकेतोः ॥ ६९ ॥ सवितुरिति ॥ सवितुमरीचीन्मयूखान् परिभावुकैस्तिरस्कुर्वद्भिः । 'लषपत-' (३।२।१५४) इत्यादिना उकञ्प्रत्यये 'न लोका-' (२।३।६९) इत्यादिना षष्ठीप्रतिषेधः । अचिराभ्यक्तस्य सद्यःकृताभ्यङ्गस्य मतङ्गजाङ्गस्य नागदेहस्येव भासो येषां तैस्तथोक्तैः । 'भोभगो-' (८।३।१७) इत्यादिना रोर्यकारस्य 'हलि सर्वेषाम्’ (८।३।२२) इति लोपः । अभितः स्फुरद्भिर्जुम्भमाणैरुच्चैरुन्नतैर्जलदेधूम- केतोरग्नेः केतनता केतुत्वं विदधे इव विहितेव । धूमकेतोः केतुत्वं प्राप्तमित्यर्थः । उत्प्रेक्षालंकारः ॥ ६९ ॥ ज्वलतः शमनाय चित्रभानोः प्रलयाप्लावमिवाभिदर्शयन्तः । ववृषनादिनो नदीनां प्रतटारोपितवारि वारिवाहाः ॥ ७० ॥ ज्वलत इति ॥ ज्वलतश्चित्रभानोरग्नेः शमनाय' प्रलये कल्पान्ते य आप्लावो महापूरस्तमभिदर्शयन्त इवेत्युत्प्रेक्षा । वृषवद्वृषभवन्नदन्ति गर्जन्तीति वृषनादिनः । 'कर्तर्युपमाने' (३।२।७९) इति णिनिः । अत एवोपमा । वारि वहन्तीति वारिवाहा मेघाः । 'कर्मण्यण' (३।२।१)। नदीनां प्रतटेषु प्रतीरेषु आरोपितानि भावितानि वारीणि यस्मिन्कर्मणि तद्यथा तथा ववृषुः । प्रलयकालमेघवदवर्षन्नित्यर्थः ॥ ७० ॥ मधुरैरपि भूयसा स मेध्यैः प्रथमं प्रत्युत पारिभिर्दिदीपे । पवमानसखस्ततः क्रमेण प्रणयक्रोध इवाशमद्विवादैः ॥ ७१ ॥ मधुरैरिति ॥ इतीत्थं पवत इति पवमानो वायुः । 'पूङ्यजोः शानन्' (३।२।१२८)। तस्य सखा पवमानसखः अग्निः । 'राजाहःसखिभ्यष्टच्' (५।४। ९१)। मैत्रीमात्रविवक्षायामयं निर्देशः । स्वसहकारिणी मैत्रीति नियमात्सहकारि- स्वाविवक्षायां वैपरीत्याबहुव्रीहौ तु न समासान्तः । स्वामी तु 'रोहिताश्वो वायुसखः' इत्यसमासान्तपाठेन बहुव्रीहिमाह । अत्रापि तथा पाठे न कश्चिदुपद्रवः । सोऽग्निः मधुरैः प्रियैरपि विवादैर्विविधवाक्यैः प्रणयक्रोधः प्रणयप्रयुक्तकोप इव

शिशु० ४४