सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५०
शिशुपालवधे

 रक्षितारमिति तत्र कर्मणि न्यस्य दुष्टदमनक्षमं हरिम् ।
 अक्षतानि निरवर्तयत्तदा दानहोमयजनानि भूपतिः ॥५१॥

 रक्षितारमिति ॥ इतीत्थं भूपतियुधिष्ठिरः तत्र कर्मणि राजसूयाध्वरे दुष्टानां दमने मर्दने क्षमं समर्थ हरिं रक्षितारं विघ्नेभ्यस्त्रातारं न्यस्य निधाय अक्षतान्यविहतानि दानहोमयजनानि निरवर्तयदन्वतिष्ठत् । स्वकीयस्य द्रव्यस्य स्वत्वनिवृत्त्या परस्वत्वोत्पादनं दानम् । देवतोद्देशेनाग्नौ हविषः प्रक्षेपो होमः । हुतस्य देवतोद्देशेन वाङ्मनसाभ्यां न ममेति त्यागो यागः । अत्र दुष्टदमनक्षमत्वस्य विशेषणगत्या हरे रक्षाधिकारहेतुन्यासहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥५१॥

 एक एव सुसखैष सुन्वतां शौरिरित्यभिनयादिवोच्चकैः ।
 यूपरूपकमनीनमद्भुजं भूश्चषालतुलिताङ्गुलीयकम् ॥५२॥

 एक इति ॥ सुन्वतां सोमाभिषवं कुर्वताम् । सोमयाजिनामित्यर्थः । सुनोतेर्लटः शत्रादेशः । सुसखा सत्सहायः । 'न पूजनात्' (५।४।६९) इति समासान्तप्रतिषेधः । एषः शौरिरेक एवेत्यभिनयादिव तद्व्यञ्जकचेष्टां कृत्वेवेत्युत्प्रेक्षा । 'व्यञ्जकाभिनयौ समौ' इत्यमरः । भूर्देवयजनभूमिः । चषालो यूपकटकः । 'चषालो यूपकटकः' इत्यमरः । तेन तुलितं । समीकृतमित्यर्थः । तुलयतेः 'तत्करोति' (ग०) इति ण्यन्तात्कर्मणि क्तः । तदङ्गुलीयकमूर्मिका यस्य तम् । अङ्गुलीयकोपमानचषालमित्यर्थः । 'अङ्गुलीयकमूर्मिका' इत्यमरः । 'जिह्वामूलाङ्गुलेश्छः' (४।३।६२) इति भावे छप्रत्ययः । उच्चकैरुन्नतं यूपं पशुबन्धनदारुविशेषं रूपकं स्वरूपं यस्य तं भुजमनीनमदुन्नमितवती । नमेर्णौ चङि सन्वत्कार्थम् । अत्र सापेक्षत्वादुपमोत्प्रेक्षयोः संकरः ॥ ५२ ॥

 इत्थमत्र विततक्रमे क्रतौ वीक्ष्य धर्ममथ धर्मजन्मना ।
 अर्घदानमनु चोदितो वचः सभ्यमभ्यधित शन्तनोः सुतः॥५३॥

 इत्थमिति ॥ इत्थमत्र क्रतौ विततक्रमे विस्तृतानुष्ठाने सति अथानन्तरं धर्माज्जन्म यस्य तेन धर्मजन्मना धर्मात्मजेन ।जन्माद्युत्तरपदो बहुव्रीहिर्व्यधिकरण' इति वामनः । धर्मं वीक्ष्य । धर्मशास्त्रमनुस्मृत्येत्यर्थः । अर्घदानं पूजादानमनु । सदस्यपूजामुद्दिश्येत्यर्थः । 'सदस्यं सप्तदशं कौषीतकिनः समामनन्ति' इति शास्त्रात् । 'मूल्ये पूजाविधावर्घः' इत्यमरः । चोदितः कस्मै देयमिदमिति पृष्टः शन्तनोः सुतो भीष्मः । सभ्यं सभायां साधु । 'सभाया यः' (१।४।१०५) इति यप्रत्ययः । वचो वाक्यमभ्यधिताभिहितवान् । दधातेर्लुङि तङि 'स्थाध्वोरिच्च' (१।२।१७) इति सिचः कित्वे 'ह्रस्वादङ्गात्' (८।२।२७) इति सकारलोपः । वृत्त्यनुप्रासोऽलङ्कारः ॥ ५३ ॥ अथासर्गसमाप्तेर्भीष्मवचः सप्रपञ्चमेव सफलं दर्शयति-

 आत्मनैव गुणदोषकोविदः किं न वेत्सि करणीयवस्तुषु ।
 यत्तथापि न गुरून्न पृच्छसि त्वं क्रमोऽयमिति तत्र कारणम् ॥५४॥

 आत्मनेति ॥ तत्रात्मनो बहुमानकरणात्प्रीतस्तत्रभवान्भीष्मो राजानं ताव-

पाठा०-१ 'यूपमङ्गुलिमिवोदनीनमत्'. २ 'दारुविशेषं अङ्गुलिमिवेत्युत्प्रेक्षा । उदनीनमत्=उन्नमितवती'.