तथाद्वितीयया वृष्ट्या वर्षेण विश्वेन समस्तजगता कृत्वोदरं भरतीति तथोक्तोऽपि समस्तलोकव्याप्यमानोऽपि वह्निरग्निः प्रशशाम । कुमारकृतवारुणास्त्रप्रयोगेणाम्यत्रमप्यनशदिति भावः ॥ ४५ ॥
{bold|
दत्योऽपि रोषकलुषो निशितैः क्षुरप्रै-
{राकर्णकृष्टधनुरुत्पतितैः स भीमैः ।
तद्भीतिविद्रुतसमस्तसुरेन्द्रसैन्यो
गाढं जघान मकरध्वजशत्रुसूनुम् ॥ ४६॥
}}
दैत्य इति ॥ रोषेण क्रोधेन कलुष आविलः । 'कलुषं त्वाविले पापे' इति मेदिनी । स दैत्योऽपि निशितः खरः । अत एव भीमैर्भ्यदैः|तथाकर्ण्माश्रवणं कृष्टाद्वनुषः सकाशादुत्पतितर्निःसृतैः क्षुरप्रैः शरविशेषैः कृत्वा । तेभ्यः क्षुरप्रेभ्यो भीत्या निमित्तेन विद्रुतं विद्रावितं समस्तं सुरेन्द्रसैन्यं पुरंदरबलं येन । 'सैन्यं क्लीब बले सेनासमवेते तु वाच्यवत्' इति मेदिनी । तथाभूतः सन् । गाढं दृढं यथा स्यात्तथा मकरध्वजस्य कामस्य शत्रोः शंभोः सूनुं पुत्रं जघान । प्राणापहरणकरणाभिप्रायेण हिनस्ति स्मेत्यर्थः । 'पुनस्तत्रैवावलम्बितो वेतालः' इति न्यायेन मायया सुखेन जेय एवेति मन्यमानेन तारकेण बाणसमरं हित्वा मायासमरं कुर्वाणेन तत्र सत्यपि दुर्जेयताबुद्ध्या पुनर्बाणयुद्धमकार्षीदित्यर्थः । अनेन वाच्यार्थेन 'अप्रतिहतप्रचारा मदीया मायाप्यनेन वीरेण प्रतिहता' इति शोकनस्तेन दैत्येन यथा पराजितेनापि विदुषा युक्त्या विवाद्यते तथा युध्यते, न तु वीररसानुगतत्वेनेति ध्वन्यत्ं ॥ ४६ ॥
देवोऽपि दैत्यविशिखप्रकरं सचाप्ं
बाणैश्वकर्त कणशो रणकेलिकारी ।
योगीव योगविधिशुष्कमना यमाधैः
सांसारिकं विषयसंघममोघवीर्यम् ॥ ४७॥
देवोऽपीति ॥ रण एव केलिः क्रीडा तो करोति । सङ्ग्रामरूपक्रीडा-
पाठा-१ कोपकलुषः. २ सैन्यः. ३ प्रवरम्. ४ रणकेलिकारः. ५ विनिषक्तमनः.
६ विषयवर्गम्. ७ अयोधवीर्यः.