प्रतीक्षा येषां तैः शक्रमुखैरिन्द्रादिभिः सुरैरभ्यर्थितोऽहं त्वामन्वेष्टुं मृगयितुं समयोचितेन विहंगरूपेण पारावतरूपेण । 'जिह्वेति यन्नैव कुतोऽपि तिर्यक्कश्चित्तिरश्व- स्वपते न तेन' इति (नैषधीय० ३।४३) श्रीहर्षोक्तेरिति भावः। उपागतोऽस्मि ॥९॥
इति प्रभो! चेतसि संप्रधार्य १तन्नोऽपराधं भगवन्क्षमस्व ।
पराभिभूता वद किं क्षमन्ते कालातिपातं शरणार्थिनोऽमी॥१०॥
इतीति ॥ हे प्रभो हे भगवन् ! तत्तस्मात्कारणात् । इति चेतसि संप्रधार्य संविचार्य नोऽस्माकमपराधं क्षमस्व । असमय इन्द्रप्रेरितस्य तवापराधः कथं सोढव्य इति चेत्तत्राह-परेति । परैरभिभूता पराभिभूता अत एव शरणार्थिनो रक्षितारं याचमानाः । 'शरणं गृहरक्षित्रोः' इत्यमरः । अमी इन्द्रादयः कालातिपातं काल- विलम्बं किं कथं क्षमन्ते ? आर्तैः कालविलम्बो न सह्यत इति भावः। 'प्रतीक्षते जातु न कालमार्तः' इति न्यायात् । वद, कथयेत्यर्थः ॥ १० ॥
प्रभो! प्रसीदाशु२ ३सृजात्मपुत्रं यं प्राप्य सेनान्यमसौ सुरेन्द्रः।
४स्वर्लोकलक्ष्मीप्रभुतामवाप्य५ जगत्त्रयं पाति तव प्रसादात् ॥११॥
प्रभो इति ॥ हे प्रभो ! प्रसीद प्रसन्नो भव । आत्मपुत्रमाशु सृज । यमात्म- पुत्रं सेनान्यं प्राप्यासौ सुरेन्द्रस्तव प्रसादात्स्वर्लोकलक्ष्म्याः प्रभुतामवाप्य जगत्त्रयं पाति रक्षिष्यति। 'वर्तमानसामीप्ये वर्तमानवद्वा' (पा. ३।३।१३१) इति लट् ॥११॥
स शंकरस्तामिति जातवेदोविज्ञापनामर्थवतीं निशम्य ।
अभूत्प्रसन्नः परितोषयन्ति गीर्भिगिरीशा रुचिराभिरीशम् १२
स इति ॥ स शंकर इतीत्येवंभूतामर्थवतीं सार्थकाम् , योग्यामिति यावत् । तां जातवेदसोऽग्नेर्विज्ञापनां प्रार्थनां निशम्य श्रुत्वा प्रसन्नोऽभूत् । तथा हि-गिरीशा वाग्मिनः पुरुषा रुचिराभिर्गीर्भिरीशं स्वामिनं परितोषयन्ति, प्रसादयन्तीत्यर्थः १२
प्रसन्नचेता मदनान्तकारः स तारकारेर्जयिनो भवाय ।
शक्रस्य सेनाधिपतेर्जयाय व्यचिन्तयच्चेतसि भावि किंचित १३
प्रसन्नेति ॥ प्रसन्नचेताः स मदनान्तकारो हरो जयिनो जयशीलस्य तथा
पाठा०-१ मम. २ अथ. ३ सृजाशु पुत्रम् ; सृजस्व पुत्रम्. ४ स्वर्गैक-
लक्ष्मी. ५ उपेत्य. ६ मदनान्तकारी...