सामग्री पर जाएँ

पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०१ पञ्चमः अध्यायः (१०)


द्वितीयम् । औहौहोइ । प्रधन्वासो (ग्राम. १७.१०. ५६७.३) इति द्वितीयक्रुष्टादिकं तृतीयम् । हुहाइ इत्यादि प्रधन्वासो (ग्राम. १७.१०. ५६७. ४) इति क्रुष्टद्वितीयादिकं चतुर्थम् । प्रधन्वासोमजागृवीः (ग्राम. १७. १०. ५६७.५) इति द्वितीयक्रुष्टादिकं पञ्चमम् । एतानि पञ्च सामान्यै- षिराणि ॥ २॥

शौक्तानि पञ्च ॥ ५.१०.३॥

सखाय आ नि षीदत (सा. ५६८) इत्यत्र पञ्च सामान्युत्पन्नानि । सखाया आ (ग्राम. १७. १०.५६८.१) इति द्वितीयतृतीयादिकमाद्यम् । सखायाआ (ग्राम. १७.१०. ५६८. २) इति चतुर्थमन्द्रादिकं द्वितीयम् । सखायआनि (ग्राम. १७.१०.५६८.३) इति चतुर्थमन्द्रादिकं तृतीयम् । ओ(और) होइ । सखायआनि (ग्राम. १७.१०. ५६८. ४) इति चतुर्थ- मन्द्रादिक चतुर्थम् । सखायआओया (ग्राम. १७.१०. ५६८. ५) इति मन्द्रतृतीयादिकं पञ्चमम् । एतानि पञ्च सामानि शौक्तानि । शुक्तेर्नाम ऋषेः संबन्धीनि । तथा च ब्राह्मणम् -- सखाय आ नि षीदत (ता. ब्रा. १२. ५. ५) इत्युपक्रम्य शौक्तं भवति । शुक्तिर्वा एतेनाङ्गिरसोऽजसा स्वर्ग लोकमपश्यत् (तां ब्रा. १२. ५.१५-१६) इति ॥ ३ ॥

कार्णश्रवसानि त्रीणि ॥ ५.१०.४॥

तं वः सखायो मदाय (सा. ५६९) इत्यत्र सामनयमुत्पन्नम् । तां वः (ग्राम. १७.१०.५६९.१) इति तृतीयद्वितीयादिकम् । ओइनं वः