([१] कौर्मे तु--
"अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु । |
इति सव्यपाण्यन्वारब्धदक्षिणपाणिना तर्पणमुक्तम् । तेन विकल्पः ।
तथा च वसिष्ठः--
"एकेन वाऽथ हस्तेन देवर्षिपितृतर्पणम् । |
न क्रुद्धो नैकपाणिना' इति गोभिलोक्तनिषेधस्त्वनन्वारब्धपाणिविषयः । एकहस्तेन तर्पणमाश्वलायनविषयम् । 'अनादेशे दक्षिणं प्रतीयात्' इति परिभाषासूत्रात् । अञ्जलिस्त्वन्यविषय इति केचित् । अन्ये तु--अनादेशे दक्षिणं प्रतीयादिति सूत्रोक्तकर्मसु हस्तकरणेषु हस्तानादेशे दक्षिणहस्तः करणत्वेन ज्ञेयः । तेन तर्पणे फलार्थविहितसुवर्णखड्गपात्रादिकरणत्वे हस्तस्याकरणा(णत्वा)न्न दक्षिणहस्तनियम इति तद्विषयकोऽप्यञ्जलिविधिः । एवं स्नानाङ्गश्राद्धाङ्गतर्पणविषयोऽपि । हस्तकरणकः(क) ब्रह्मयज्ञोत्तरतर्पणं तु सव्यान्वारब्धदक्षिणहस्तेनैवेत्याहुः ।) एतच्च तर्पणं स्थलस्थो न जले कुर्यात् ।
तथा च गोभिलः--
"नोदकेषु न पात्रेषु न क्रुद्धो नैकपाणिना । |
अतः स्थलस्थो भूमावेव तर्पणं कुर्यान्न जलादौ ।
तथा च विष्णुः--
"स्थले स्थितो जले यस्तु प्रयच्छेदुदकं नरः । |
स्मृत्यन्तरे--
"आर्द्रवासा देवर्षिपितृतर्पणमम्भस्येव |
अत्र विशेषमाह हारीतः--
"वसित्वा वसनं शुष्कं स्थले विस्तीर्णबर्हिषि । |
यत्तु कार्ष्णाजिनिनोक्तम् 'देवतानां पितॄणां च जले दद्याज्जलाञ्जलिम्' इति, तदशुचिस्थलविषयम् ।