"अन्तर्दधे पर्वतैरन्तर्मह्या पृथिव्या । दिवा दिग्भिरनन्तादिरूतिभिरन्तरन्यं |
प्रपितामहायेदं० । इति पञ्चाऽऽहुतीर्हुत्वाऽमुकशर्मणे स्वधा नम इति पितृनाम्ना जुहोति । अमुकशर्मण इदं० । अमुशर्मणे स्वधा नम इति पितामहनाम्ना । अमुकशर्मण इदं० । अमुक० प्रपितामहनाम्ना । अमुकशर्मण इदं० इत्याहुतित्रयं नामधेयैर्हुत्वा--
"यन्मे माता प्रलुलोभ चरत्यननुव्रता । तन्मे रेतः पिता वृङ्क्तामा भुरन्योपपद्यता स्वधा नमः" पित्र इदं० 'यन्मे पितामही प्र० रेतः पितामहो वृ० स्वधा नमः' पितामहायेदं० । 'यन्मे प्रपितामही प्र० रेतः प्रपितामहो वृ० स्वधा नमः' । प्रपितामहायेदं[१]० । आभूरन्योपपद्यतामिति वा पाठः ।
"ये चेह पितरो ये च नेह या श्च विद्मा उ च न प्रविद्म । |
"वहाऽऽज्यं जातवेदः प्रपितामहेभ्यो यत्रैतान्वेत्थ० कामैः स्वधा नमः" प्रपितामहेभ्य इदं० । अथ षोडशाहुतीरवदानधर्मेणाऽऽसादितेन पितृवर्गार्थान्नेन तैरेव मन्त्रैर्जुहुयात् । वहाऽऽज्यमित्यत्र वहान्नमित्यूहः । अन्त्यास्तिस्र एव वाऽन्नाहुतयः । सोमाय पितृमते० । यमायाङ्गि० । "याः प्राचीः सं० मातामहाद्दधे स्वधा नमः" मातामहायेदं० । "अन्तर्दधे पर्वतै० रन्यं मातुःपितामहाद्दधे स्वधा नमः" मातुःपितामहायेदं० । 'अन्तर्दध ऋ० रन्यं मातुःप्रपितामहाद्दधे स्वधा नमः' मातुःप्रपितामहायेदं० इति जुहोति । अथ तत्तन्नाममन्त्रैः पूर्ववदाहुतित्रयं हुत्वा 'यन्मे मातामही प्र० रेतो मातामहो वृ०' मातामहायेदं ।
- ↑ ङ. दं । ये ।