इति तत्र मूलं चिन्त्यम् । स्मृतिरत्नावल्यां स्मृत्यन्तरे--
"भानौ भौमे त्रयोदश्यां नन्दाभृगुमघासु च । |
वसिष्ठः--
"नन्दायां भार्गवदिने चतुर्दश्यां त्रिजन्मसु । |
नारदः--
"त्रिजन्मसु त्रिपादेषु नन्दासु भृगुवासरे । |
कृत्तिकापुनर्वसूत्तरा(र)फल्गुनीविशाखोत्तराषाढापूर्वा (र्व)भाद्रपदास्त्रिपादनक्षत्राणि । धातृनक्षत्रं रोहिणी । पौष्णं रेवती ।
वृद्धगार्ग्यः--
"प्राजापत्ये च पौष्णे च पित्रर्क्षे भार्गवे तथा । |
प्राजापत्यं रोहिणी । पौष्णं रेवती । पित्रर्क्षं मघाः । अत्र सर्वेऽपि श्राद्धशब्दाः पिण्डदानपराः । अन्यथा विधिवैयर्थ्यापत्तेः । योऽयं च तिथिवारनक्षत्रनिषेधः स तत्तत्प्रयुक्तश्राद्धेष्वेव बोध्यः । न तु तत्र पतितेषु नित्येषु ।
अत एवोक्तं विश्वरूपनिबन्धे--
"तिथिवारप्रयुक्तो यो निषेधः समुदाहृतः । |
अत्र तिथिवारग्रहणं नक्षत्रोपलक्षणम् ।
अत्रापवादः प्रयोगपारिजाते हेमाद्रौ च--
"अमापाते भरण्यां च द्वादश्यां पक्षमध्यगे । |
इदं निषेधतत्प्रतिप्रसवपर्यालोचनं महालयपक्षान्तर्गततिथौ सकृन्महालयासंभवेन यदा तिथ्यन्तरेऽनुष्ठानं तदैव । महालयान्तर्गतमृततिथौ सकृन्महालयानुष्ठानं मुख्यं तत्र न निषेधः ।
"अशक्तः पक्षमध्ये तु करोत्येकदिने यदि । |
अत एव निषेधप्रयोजकनक्षत्रादियुक्तायामपि तिथौ सकलदेशीयशिष्टानामनुष्ठानम् ।
अत्रिः--
"महालये क्षयाहे च दर्शे पुत्रस्य जन्मनि । |