अथ सामान्यतः श्राद्धतिथिनिर्णयः ।
"एकमुद्दिश्य यच्छ्राद्धमेकोद्दिष्टं प्रकीर्तितम् । |
इतिवचनात्त्रिपुरुषोद्देश्यकं श्राद्धं यस्यां तिथौ विहितं सा चेद्दिनद्वयसंबन्धिनी तदा याऽपराह्णसंबन्धिनी सा ग्राह्या ।
तथा च हेमाद्रौ निगमः--
"पूर्वाह्णिकास्तु तिथयो देवकार्ये फलप्रदाः । |
यदा तु दिनद्वयेऽप्यपराह्णसंबन्धिनी तदा पूर्वा ।
तदाह तत्रैव मनुः--
"यस्यामस्तं विनिर्याति पितरस्तामुपासते । |
यस्यामपराह्णसंबन्धे सत्यस्तमयानुवृत्तिः सा पितृकार्ये प्रशस्ता न त्वनस्तमयसंबन्धिनीत्यर्थः ।
अत एवाऽऽह हारीतः--
"अपराह्णः पितॄणां तु याऽपराह्णानुयायिनी । |
यदा दिनद्वयेऽप्यपराह्णसंबन्धो नास्ति तदा पूर्वैव ।
तदुक्तं तत्रैव नारदीये--
"तिथेः प्रान्तं सुराख्यं हि उपोष्यं कवयो विदुः । |
गोभिलोऽपि--"सायाह्नव्यापिनी या तु पार्वणे सा उदात्दृता" इति ।
ननु 'सायाह्नस्त्रिमुहूर्तः स्यात्सर्वकर्मसु गर्हितः' इति सायाह्नस्य निषेधादपराह्णे तु निमित्तभूततिथ्यभावेऽपि तत्रानुष्ठाने 'कर्मणो यस्य यः कालः' इति वचनविरोध इति चेन्न । 'विधिः पूज्यतिथौ तत्र निषेधः कालमात्रकः' इति वचनाद्वचनान्तरबोधितपूज्याया एव तिथेः कर्मकाले ज्योतिःशास्त्रप्रसिद्धत्वाभावेऽपि साकल्यवचनबोधिततिथिसत्त्वमादायैव कर्मकालव्याप्तिशास्त्रप्रवृत्तेः । अत एव 'पित्र्येऽस्तमयवेलायां स्पृष्टा पूर्णा निगद्यते' इत्यादिवचनानां सार्थक्यम् ।