बौधायनः--
"श्वचाण्डालादिभिः स्पृष्टः पिण्डो याद्युपहन्यते । |
अथ वैश्वदेवकालः ।
तत्राऽऽहिताग्नेर्विशेषः--
"पक्षान्तं कर्म निर्वर्त्य वैश्वदेवं च साग्निकः ॥ |
अत्र साग्निकपदेनाऽऽहिताग्निर्गृह्यत इति हेमाद्रिः । नवीनास्तु साग्निकपदेन श्रौताग्निमान्गृह्याग्निमांश्च गृह्यत इत्याहुः । अनाहिताग्नेस्तु--अग्नौकरणानन्तरं बलिदानोत्तरं वा वैश्वदेव इति । अत्र मूलं वैश्वदेवप्रकरणे प्रदर्शितम् । अत्र पृथक्पाकेनैव वैश्वदेवहोममात्रं कृत्वा श्राद्धसमाप्त्यनन्तरं वैश्वदेवान्नेनैव बलिहरणादि कर्तव्यम् । यदा त्वन्ते तदा श्राद्धशेषेणैव । आहिताग्नेः सर्वेषु श्राद्धेष्वैकादशाहिकं मुक्त्वा श्राद्धारम्भात्प्रागेव वैश्वदेवः ।
"श्राद्धात्प्रागेव कुर्वीत वैश्वदेवं तु साग्निकः । |
इति सालङ्कायनिवचनात् ।
समवदाय शेषं प्राश्नीयादित्यनेन शेषस्याशनं विहितं तच्च दिवैव कार्यं न रात्रौ ।
'न रात्रौ शेषमश्नीयात्' इति स्मृतौ निषेधात् । |
तस्मिन्दिन आवश्यकोपवासप्राप्तौ शेषाघ्राणं कार्यम् । तत्रापि प्राशनव्यवहारस्य शास्त्राभ्युपगतत्वात् । तन्नेव प्राशितं नेवाप्राशितमित्यर्थवादेनाप्युभयविधित्वबोधनात् । तावताऽपि शास्त्रार्थसंभवाच्च । चतुर्थ्यादिरात्रिव्रतेषु दिवा शेषाघ्राणं कृत्वा रात्रौ पूजां विधाय मूलफलादिकं भक्षयेत् । रात्रौ भोजनस्य तस्मिन्दिन उपवासस्य च निषेधात् ।
"उपवासनिषेधे तु किंचिद्भक्ष्यं प्रकल्पयेत्" |
इतिवचनेन फलमूलादिभक्षणस्य विहितत्वात् । केचित्तु रात्रावपि शेषा घ्राणमाहुः । शेषनाशे भोजनलोप इति केचित् । प्रतिनिधिभूतेनान्नेन भोजनं कार्यमित्यन्ये ।
"दन्तधावनताम्बूलतैलाभ्यङ्गमभोजनम् । |