"यदि स्याद्भिन्नपाकाशी ग्रामे ग्रामान्तरेऽपि च । |
तत्र पित्र्यबलिर्वर्ज्य इत्येके ।
केचित्तु--"येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः" ।
इति वचनात्पितृयज्ञोऽपि कर्तव्यः[१] पितामहादीनुद्दिश्येत्येके(त्याहुः) । अन्ये तु--अग्निष्वात्तादीनुद्दिश्यैव पित्र्यबलिः कर्तव्य इति वदन्ति ।
आश्वलायनः--
"पृथगप्येकपाकानां ब्रह्मयज्ञो द्विजन्मनाम् । |
यतु हरदत्त:--
- "सूतकमध्येऽपि ब्रह्मयज्ञभिन्नाश्चत्वारो न त्याज्याः । 'तानेतान्यज्ञानहरहः कुर्वीत' इति । 'सूतके कर्मणां त्यागः संध्यादीनां विधीयते' इत्यादिना बाधितानां प्रतिप्रसवेनैव सार्थक्यम् । ब्रह्मयज्ञस्तु न भवति । 'तस्य द्वावनध्यायौ यदात्माऽशुचिर्यद्देशः' इति श्रुतेः" इत्याह,
तन्न । "पञ्चयज्ञविधानं तु न कुर्यान्मृतिजन्मनोः" इति देव[२]ले तन्निषेधात् । "अहरहः कुर्वीत" इति तु संध्यावन्दनादिवन्नित्यतामात्रबोधकमिति ।
मुख्यस्य करणाशक्तावाहात्रिः--
"पुत्रो भ्राताऽथवा ऋत्विक्शिष्यश्वशुरमातुलाः । |
([३]दृ[४]ष्टा इत्यत्र प्रतिनिधित्वेनेति शेषः । बलिकर्मणीतिवचनाद्बलावेव प्रतिनिधिरिति मदनरत्ने । बलिपदं वैश्वदेवोपलक्षणमिति पृथ्वीचन्द्रः । "न स्त्री जुहुयात्" इति निषेधाद्बलिमात्रं पत्नीकर्तृकं न होम इति सत्याषाढादिसूत्रानुसारिणाम्(णः) । आश्वलायनानां तु पत्नीकर्तृको होमोऽप्यस्ति । औपासनहोमस्याऽऽश्वलायनेन विहितत्वात् । ऋत्विक्साहचर्यात्साग्निकपरमित्याचारादर्शः । एते प्रतिनिधयः प्रवासादिविषय इति चन्द्रिका ।
वस्तुतस्तु सदा गृहेऽपि स्वयंकर्तृत्वविकल्पः । "स्वयं त्वेवैतान्यावगृहे वस