नारदः--
"जन्मतो मासि षष्ठे स्यात्सौरेणोत्तममन्नदम् । |
सौरेण षष्ठेनेत्यन्वयः । न चाप्ययमेव नियमः ।
"बालान्नभोजनविधौ गुरुशुक्रमौढ्यबाल्यप्रयुक्तमशुभं त्वधिमासदोषः । |
इति विधिरत्ने सावनमानेनापि षष्ठमासस्य विधानात् । शुभ इति चन्द्रविशेषणं चन्द्रानुकूल्यापेक्षणार्थम् । चन्द्रस्य पक्षः शुक्लपक्षः । तत्रापि परतः परस्मिन्पञ्चम्याः परभाग इत्यर्थः । नवममासस्तु स्त्रीविषयः ।
"नरस्यान्नाशने युग्मं स्त्रीणामन्नाशनेऽयुजम्" इति गर्गोक्तेः । |
अयुजमिति पदच्छेदः ।
शङ्खलौगाक्षी--
"संवत्सरेऽन्नप्राशनं दन्तेषु जातेषु वा" इति । |
देवलः--
"षष्ठे मास्यष्टमे वाऽथ पुंसां स्त्रीणां च पञ्चमे । |
तिथीराह नारदः--
"पक्षयोरुभयोरुक्तं कृष्णे चान्त्यत्रिकं विना । |
अयुजो विषमाः । वारानाह कश्यपोऽन्नप्राशनं प्रकृत्य--
"सूर्यार्किभौमवारांश्च त्यक्त्वाऽन्यस्मिंस्तु वासरे" इति । |
आर्किः शनिः । नक्षत्राण्याह बृहस्पतिः--
"पौष्णादितीन्दुहस्ताश्वित्वाष्ट्रवासववैष्णवाः । |
श्रीधरीयेऽन्या अप्युक्ताः--
"आदित्यतिष्यवसुसौम्यकरानिलाश्विचित्राजविष्णुवरुणोत्तरपौष्णमित्राः । |
आदित्यं पुनर्वसू । वसवः श्रविष्ठाः । सौम्यं मृगशिरः । करो हस्तः । अनिलः स्वाती । अजो ब्रह्मा तन्नक्षत्रं रोहिणी । विष्णुः श्रवणः । वरुणः