न्तरं स्नानम् । संनिधौ मूलाद्यजातस्य मुखदर्शनानन्तरं स्नानमिति व्यवस्था बोध्या । उत्तराभिमुख इति विशेषणं प्रवाहाभिमुखत्वादिबाधनार्थम् ।
संवर्तः--
"पुत्रे जाते पिता सद्यः सचैलं स्नानमाचरेत् । |
एतेषु वसिष्ठादिवचनेषु पुत्रपदगतं पुंस्त्वमविवक्षितम् । अनुवाद्यगतत्वात् । तेनात्र स्त्र्यपत्येऽपि पितुः स्नानमावश्यकम् । सूतिकावर्जं पित्रादीनां सर्वेषां सपिण्डानामस्पृश्यत्वं नास्त्येव । अतो न तेषां स्नानमपि ।
यदाहाङ्गिराः--
"सूतके सूतिकावर्जं संस्पर्शो न निषिध्यते" इति । |
नद्यादिषु गमनाशक्तौ सांख्यायनः--
"दिवा यदाहृतं तोयं कृत्वा स्वर्णयुतं तु तत् । |
एतच्च रात्रावपि कार्यम् । तथा च वसिष्ठः--
"पुत्रजन्मनि यज्ञे च तथा संक्रमणे रवेः । |
अत्र संक्रमणनिमित्तस्नानस्य रात्रौ विधानं दिवास्नानासंभवे रात्रेर्गौणकालत्वबोधनार्थम् । बहुभिर्वचनैः सर्वसंक्रमेषु दिवैव पुण्यकालत्वोक्तेः ।
अथवा--
"रात्रौ संक्रमिते भानौ दिवा कुर्यात्तु तत्क्रियाम् । |
इत्यादिवचनैरत्यन्तबाध आनर्थक्यप्रसङ्गात् 'आनर्थक्यप्रतिहतानां विपरीतं बलाबलम्' इति विकल्पे सत्याचारतो व्यवस्थेति द्रष्टव्यम् । एतच्च जातकर्माऽऽशौचान्तरमध्येऽपि कार्यम् ।
यथाऽऽह प्रजापतिः--
"सूतके तु समुत्पन्ने पुत्रजन्म यदा भवेत् । |
एतच्च जाताशौचपरम् ।
"मृताशौचस्य मध्ये तु पुत्रजन्म यदा भवेत् । |
इति वसिष्ठेन मृताशौचविषय एवोत्कर्षोक्तेः । एतेन स्मृत्यर्थसारोक्तो विकल्पोऽपि व्यवस्थितो ज्ञेयः ।
पुत्रजन्मनिमित्ताशौचस्य पूर्वावधिमाह जैमिनिः--
"यावन्न च्छिद्यते नालं तावन्नाऽऽप्नोति सूतकम् । |