आच्छादन आर्द्रवस्त्रनिषेधः स्मृत्यन्तरे--
"आच्छाद्याऽऽर्द्रेण वस्त्रेण करं यस्तु जपेद्यदि । |
व्यासः--
"मनःसंतोषणं शौचं मौनं मन्त्रार्थचिन्तनम् । |
मन्त्रार्थ उक्तो बृहत्पराशरेण--
"तच्छुद्धं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः । |
तत्सवितुर्जगत्कारणस्य श्रीसूर्यस्य वरेण्यं वरणीयम् । वृञ एण्यः । भर्गस्तेजः । अन्धकारभर्जनात् । "अव्यञ्जियुजिभृजिभ्यः कुश्च" इति भृजेरसुन् । धीमहि ध्यायेम । यो नो धियोऽस्माकं बुद्धीः प्रचोदयात्स्वरूपे प्रेरयेत्, प्रेरयतीत्यर्थः । इत्येवं गायत्रीमन्त्रार्थस्य चिन्तनं मनसाऽनुसंधानं कार्यम् । शब्दस्याप्येवम् । उत्तमं मानसं जाप्यमित्यनन्तरोदाहृतविश्वामित्रोक्तेः ।
[१]बौधायनः--
"[२]नाभेरधस्तात्संस्पर्शं कर्मयुक्तो विवर्जयेत्" इति । |
अत्रिः--
"न च[३] कामन्न च हसन्न पार्श्वमवलोकयन् । |
व्यासः--
"जपकाले न भाषेत व्रतहोमादिकेषु च । |
यथा गमनवेलायां तन्मनस्कः सन्नेव गच्छति तद्वज्जपादिष्वपि तन्मनस्क एव भवेदित्यर्थः । विप्रमभिवाद्य तेन विप्रेण योगं क्षेमं च कीर्तयेदित्यर्थः । अलब्धलाभो योगः । लब्धस्य रक्षणं क्षेमः ।