निरुद्धो देशकालाभ्यां अत्ययस्यादुपग्रहः ।।
विषह्य दानादायत्वां क्षम. स्त्रीबधनादपि।
सुवर्णसन्धिर्विश्वासादकी भावगतो भवेत् ॥
विपरीतः कपालख्यादयादानाभिभापितः ।
पूर्वयोः प्रणयेत्कुप्यं हस्त्यश्व वागुरान्वितम् ।।
तृतीये प्रणयेदर्थं कथयन् कर्मणां क्षयम् ।
तिष्ठेच्चतुर्थ इत्येते कोशोपनतसन्धयः ॥
भूम्येकदेशत्यागेन देश[१] प्रकृतिरक्षणम् ।
आदिष्टसन्धिस्तत्रेष्टो गूढस्तेनोपघातिनः ।।
भूमीनामात्तसारागां मूलवर्जं प्रणामनम् ।
उच्छिन्नसन्धिस्तत्रैष[२] परव्यसनकाक्षिणः ॥
फलदानेनभुक्तो भूमीनां मोक्षणं स्यादपक्रयः ।
फलातिभुक्तो भूमिभ्यः सन्धिस्स परिभूषणः ।।
कुर्यादपेक्षणं पूर्व[३] पश्चिमौ त्वाबलीयसम् ।
आदाय फलमियेते देशोपनतसन्धयः ॥
स्वकार्याणां वशेनैते देशे काले च भाषिताः ।
आबलीयसिकाः कार्यात्रिविधा हीनसन्धयः ।।
इति पाडूगुण्ये समहीनज्यायसां गुणाभिनिवेशो
हीनसन्धय तृतीयोऽध्याय
आदित एकशतः