नेति कौटिल्य - सुमहताऽपि क्षयव्ययेन शत्रुविनाशोऽभ्यु- पगन्तव्यः।
तुल्ये क्षयव्यये यः पुरस्तादृूप्यबलं घातयित्वा निश्शल्यः पश्चाद्वश्यबलो युध्येत, सोतिसंधत्ते । द्वयोरपि पुरस्ताद्दूष्य- बलधातिनोर्यो बहुलतरं शक्तिमत्तरमत्यन्तदूष्यं च घातयेत्,' सोऽतिसंधत्ते ।
तेनामित्राटवीवलघातो व्याख्यातः।
पाणिग्राहोऽभियोक्क्ता वा यातव्यो वा यदा भवेत् ।
विजिगीषुस्तदा तत्र नेत्रमेतत्समाचरेत् ॥
पार्ष्णिग्राहो भवेन्नेता शत्रोर्मित्राभियोगिनः ।
विग्राह्य पूर्वमाक्रन्द पार्ष्णिग्राहाभिसारिणा ॥
आक्रन्देनाभिञ्जानः पार्ष्णिग्राहं निवारयेत् ।
तथाऽऽक्रन्दाभिसारेण पार्ष्णिग्राहाभिसारिणम् ॥
अरिमित्रेण मित्रं च पुरस्तादवघट्टयत् ।
मित्रमित्रमरेश्चापि मित्रमित्रेण वारयेत् ।
मित्रेण ग्राहयेत्पार्ष्णिभियुक्तोऽभियोगिनः ।
मित्रमित्रेण चाक्रन्दं पार्ष्णिग्राहान्निवारयेत् ॥
एवं मण्डलमात्मार्थ विजिगीषुनिवेशयेत् ।
पृष्ठतश्च पुरस्ताच्च मित्रप्रकृतिसम्पदा ॥