सामग्री पर जाएँ

लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०३३

विकिस्रोतः तः
← अध्यायः ०३२ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ३३
[[लेखकः :|]]
अध्यायः ०३४ →

श्रीकृष्ण उवाच-
चतुर्थे वत्सरे भाद्रपदेऽष्टम्या दिने कृतम् ।
राधिके श्रीहरिकृष्णचरित्रं कथयामि ते ।। १ ।।
कुंकुमवापिकानार्यः कन्यकाश्चापि कोटिशः ।
व्रतं च ऋषिपञ्चम्याश्चक्रुर्वै ऋषिपूजनम् ।। २ ।।
राजस्वल्यस्थितौ स्पर्शदोषसंसर्गहानये ।
व्रतांगं पूजनं दानं चक्रुः सर्वास्ततः परम् ।। ३ ।।
षष्ठ्यां गौरीव्रतं चक्रुरावाह्य पुपुजुश्च ताम् ।
सप्तम्यां भोजयामासुः पायसादिनिवेदनैः ।। ४ ।।
अष्टम्यां दूर्वया गौरीं पूजयामासुरेव च ।
अष्टवर्षीयकन्यानां गौरीरूपेण पूजनम् ।। ५ ।।
चन्दनाद्यैः कुंकुमाद्यैरक्षताद्यैः सुगन्धिभिः ।
शृंगारैर्विविधैर्वस्त्रैरलंकारैर्विभूषणैः ।। ६ ।।
फलैः पुष्पैश्च मिष्टान्नैः पानैस्ताम्बूलकैस्तथा ।
इष्टवस्तुप्रदानैश्च चक्रुर्नीराजनादिकम् ।। ७ ।।
गीतं नृत्यं तथा चक्रुरथ गौरीविसर्जनम् ।
कर्तुं सर्वाः स्त्रियः कन्या ययुश्चाश्वसरोवरम् ।। ८ ।।
गौर्याः प्रतिमा सर्वाभिर्वृता स्कन्धेषु पार्थिवी ।
सर्वशृंगारशोभाढ्या दिव्यकेसरिपृष्ठगा ।। ९ ।।
दिव्यायां शिबिकायां च धृता चामरच्छत्रिणी ।
एवं नीत्वा प्रतिमां श्रीगौरीं गायन्ति योषितः ।। १ ०।।
वादित्राणां निनादाश्च भवन्त्युत्सवबोधकाः ।
दर्शकाश्च नरा नार्यो ययुः सहस्रशश्च ताम् ।। १ १।।
गौरीं चान्ते वीक्षितुं वै त्वश्वपट्टोत्तरे तटे ।
ययौ साकं गोपिकाभिः कम्भराश्रीर्हरेः प्रसूः ।। १२।।
हरिं बालं सह नीत्वा गौरीविसर्जनोत्सवे ।
तीरे गत्वा स्त्रियो गौरीं स्थापयामासुरुत्सुकाः ।। १३।।
नाव्यारोप्य तदा पूजां प्रचक्रुः प्रार्थनां तथा ।
अनादिश्रीकृष्णनारायणः शंकरवत्तु नः ।। १४।।
तवेव कान्तिमान् कान्तो भूयादिति प्रसीद नः ।
एवं सम्प्रार्थ्य च पुष्पाञ्जलिं ददुस्ततः परम् ।। १५।।
वादित्राणां निनादेषु चक्रुर्जले विसर्जनम् ।
जयशब्दास्तदा स्वर्गद्वारमासाद्य योषिताम् ।। १६।।
देवान् संहर्षयामासुः पितॄँश्चर्षिवराँस्तथा ।
कृते विसर्जने गौर्याश्चमत्कारोऽभवत्तदा ।। १७।।
व्याघ्रः कश्चिन्महापुष्टो वटवृक्षोच्छ्रयायतः ।
अकस्मादागतस्तत्र यत्र श्रीबालकृष्णकः ।। १८।।
नेत्रे प्रस्फार्य च मुखं व्यादाय वासनां सृजन् ।
कर्णावुत्थाप्य पुच्छं च धुन्वन् रोमाणि चर्म च ।। १९।।
क्रोधं प्रदर्शयन् पूर्वपादाग्रेण महीं लिखन् ।
कूर्दनं कृतवान् शीघ्रं धर्तुं श्रीबालकृष्णकम् ।। २०।।
स्तब्धाः सर्वा नरा नार्यो निश्चेष्टा भीतितोऽभवन् ।
गर्जनयाऽन्तरीक्षं च कम्पमानं तदाऽभवत् ।। २१ ।
वृक्षाश्चकम्पिरे वायुः क्षणं निर्गतिकोऽभवत् ।
क्षितिः कम्पमयी जाता हृदयानि चकम्पिरे ।। २२।
हाहाकारो महान् जातो व्याघ्रे चोत्पतिते तदा ।
दुद्रुवुः परितो लोका मृप्युरूपविलोकनाः ।। २३।
माता तु कम्भरालक्ष्मीः प्राह गौरी प्ररक्षतु ।
अन्याश्च कन्यकास्तत्र चक्रुर्वै नियमं तदा ।। २४।
रक्षिते कृष्णकान्तेऽत्र पूजां कुर्मो निशामुखे ।
गौर्याश्चापि च दुर्गायाः पुनः सर्वोपचारकैः ।। २५।
इत्येवं नियमं चक्रुर्जेपुर्वै श्रीनरायणम् ।
तस्थुर्नेत्रे कराभ्यां च प्रावृत्य द्रष्टुमक्षमाः ।। २६ ।
श्रीराधिकोवाच-
क आसीत् स महाव्याघ्रः सायं कस्मात् समागतः ।
अन्यान् त्यक्त्वा हि तं बालं धर्तुमेव समुद्यतः ।। २७।।
श्रीकृष्ण उवाच-
.रक्तदेशजश्चासीत् शावदीनस्य चानुजः ।
म्लेच्छो वै राक्षसो भ्रातुर्वैरनिर्यातनेच्छुकः ।। २८ ।।
कामरूपधरो व्योम्नि जले प्रगतिमानपि ।
अरण्येऽपि कृतावासो व्याघ्रायते क्वचित् क्वचित् ।। २९ ।।
जनायते मनुष्येषु पक्षिषु विहगायते ।
एवंविधो हि मलिनो मलिनाशय एव सः ।। ३० । ।
यदा श्रीहरिणा तस्य भ्राता चारक्तदेशके ।
हतस्तदा समुद्रेऽयं गत आसीत् प्रवासकृत् ।। ३१ ।।
अब्रिक्तदेशे सरितो नाविलायास्तटादति ।
विप्रकृष्टे स्थले क्रेतुं सुवर्णादिखनिमृदः ।। ३ २।।
स्वर्णमृदः समादाय स्वगृहं स समागतः ।
श्रुतवान् स्वाग्रजमृत्युं कन्यानां हरणादिकम् ।। ३३ ।।
गुरोर्मृत्युं विप्लवं च राज्यं जल्लावशं तथा ।
बालोत्सवाद् वैपरीत्यं बल्युत्सवेऽप्यनर्थदम् । । ३४।।
विलोक्य वैशसं सर्वं चुक्रोधातिशुशोच ह ।
राज्यं सैन्यं व्योमगतिर्गुरुर्देवी यतिप्रथाः ।। ३५ ।।
समर्थेषु सत्सु नाशो बलीयो भाललेखनम् ।
समर्थे भ्रातरि द्रव्ये विपुलेऽब्धिप्ररक्षिते । । ३६ ।।
देशे भटैर्युते नाशो गृहे एवेति शोचनम् ।
असैन्योऽपि समागत्य हत्वा विदेशजो जनः ।। ३७।।
पक्षिणा नाशयित्वा चाक्षतस्य तस्य सर्वथा ।
कन्यकामातृहरणं यत्कार्यं तद्धि शोचनम् ।। ३८ । ।
अहो श्रुत्वा न मे मृत्युर्न वा शौर्यं प्रवर्धते ।
किं वृथा जीवनेनैवं पराभूतस्य देहिनः ।। ३९।।
घातयिष्यामि तं शत्रुमानयिष्यामि पुत्रिकाः ।
यद्वा प्राणान् प्रदास्यामि धिग्बलं यद् वृथाबलम् ।।४० ।।
विचिन्त्यैवं स्वर्णनावं परित्यज्य गृहादिकम् ।
सह नीत्वा जनान् नैजान् बहुरूपधरान् यतीन् । । ४१ ।।
सौराष्ट्रे चाययौ हन्तुं कृष्णनारायणं प्रभुम् ।
कुंकुमवापिकाक्षेत्रं चाश्वपट्टसरोवरम् । । ४२ ।।
विशालं च ददर्शाऽसौ लोमशस्याऽऽश्रमं शुभम् ।
सर्वं ददर्श च मुहुश्छिद्रं हन्तुं समीक्षते ।। ४३ ।।
नित्यं चरति द्रुगुल्मे वसत्यपि द्रुमेषु च ।
सगणो भ्रमति क्षेत्रे नैकरूपधरः खलु । ।४४ । ।
तत्र केचन वृक्षेषु काकायन्ते क्वचित् क्वचित्। ।
गृध्रायन्ते तथा चान्ये वृकायन्ते सरोऽन्तिके ।।४५।।
शुकायन्ते चापरे तु गवायन्ते तथेतरे ।
केचित्तु वृषभायन्ते मार्जारायन्त इत्यपि ।।४६ ।।
मशकायन्ते केचिच्च छिद्रं द्रष्टुं पुनः पुनः ।
लब्धुं चाऽवसरं हन्तुं कृष्णनारायणप्रभुम् ।।४७।।
मीनायन्ते जले त्वन्ये बालायन्ते च केचन ।
कन्यारूपधराश्चान्ये भवन्ते तत्सहायिनः ।।४८ ।।
एवं कृतेऽपि कृष्णं तं हन्तुं छिद्रं न चाऽऽप्नुवन् ।
तदा निराशाः सततं भूत्वा राजानुजं क्रुधा ।।४९ ।।
प्राहुर्नैव हि लभ्येत छिद्रं वर्षशतैरपि ।
तस्मात् प्रसह्य हन्तव्यो यद्भवेत् तद्भवेदिति । ।।५० ।।
एवं तु संविदं कृत्वा त्वाययुः सरसस्तटे ।
शतं वीरा मिलित्वैव हन्मस्तं राजघातिनम् ।। ५१ १ ।।
एकैकेन क्रमाद् भाव्यं व्याघ्ररूपेण वै शनैः ।
प्रथमं कन्यकारूपैर्विशन्तु स्त्रीजनेषु हि ।। ५२ ।।
इत्येवं तु शतं कन्याः कन्यासु विविशुस्तदा ।
हन्तुं श्रीबालकृष्णं तं सन्ध्यायां क्रूरवृत्तयः । । ५३ ।।
दृष्ट्वा हन्तुं सुसारल्यं स्त्रीषु मध्ये नरायणम् ।
एकलं चाऽरक्षकं च मत्वा राजाऽनुजः स्वयम् ।। ५४।।
वैरनिर्यातनार्थाय व्याघ्रः स प्रथमोऽभवत् ।
उत्प्लुत्य बालकं कृष्णं यावद्धर्तुं गतोऽसुरः ।।।६ ५ । ।
तावत् कृष्णः स्वयं तत्र शरभोऽभूज्जनार्दनः ।
जग्राह व्याघ्ररूपं तं वल्लीदीनं नृपानुजम् । । ६६ । ।
गले धृत्वा हरिर्व्यापादयामासाऽसुरं द्रुतम् ।
जयशब्दा हरेस्तत्राऽभवन् पुष्पप्रवर्षणम् ।।५७।।
देवैः कृतं दुःखहानं स्त्रीभिः शिरोऽवतारितम् ।
शावदीना महाकाली कन्या गौरीस्वरूपिणी ।।५८।।
स्वयं शरभचरणे समागत्य ननाम तम् ।
भगवाँस्तु तदा बालोऽभवत् स्त्रीषु यथा पुरा ।।१९।।
व्याघ्रो व्याघ्रान् समुत्पाद्य ततो ममार तत्र ह ।
तत्तीर्थं शारभं तत्र जातमश्वसरोवरे ।।2.33.६ ०।।
यत्र स्नातं च कृष्णेन हत्वा तं त्वसुरं तदा ।
अथ देवी महाकाली कृष्णं तुष्टाव किंकरी ।।६ १ ।।
मया ज्ञातं न भगवन् विघ्नं ते यदुपस्थितम् ।
क्षेत्रपालेन न ज्ञातं कथं कस्मादिदं न्विति ।।६२।।
श्रीहरिः प्राह सुभगे मदिच्छाऽऽसीत्तथाविधा ।
हन्तव्योऽयं मया दुष्टो जानीयान्न यथा सती ।।६३।।
क्षेत्रपालो न जानीयात्तथा कार्यं मया यतः ।
त्वया च क्षेत्रपालेन न ज्ञातं तत्प्रवेशनम् ।।६४।।
इदानीं पश्यतं कन्याश्चैताः शतं सुनूतनाः ।
तत्सहाया असुरास्ते छन्नरूपा भवन्ति वै ।।६५।।
हन्तुं मां त्वागतास्तेऽत्र क्रमाद् व्याघ्रभवेच्छवः ।
हतोऽयमग्रणीस्तेन त्रस्ताश्छन्ना भवन्ति ते ।।६६।।
देव्या च क्षेत्रपालेन यावद् दृष्टाश्च कन्यकाः ।
अभवन् व्याघ्ररूपास्ते मिलिता व्याघ्रजेषु च ।।६७।।
देवीं कन्या हरिं हन्तुमुत्पेतुर्युगपत्तदा ।
मर्तव्यं वा मारणीयाश्चेति कृत्वा विनिश्चयम् ।।६८।।
तावत् कृष्णो युद्धशंखं दध्मौ शीघ्रं भयंकरम् ।
सिंहो देवीवाहनश्च द्रागेव प्रसमागतः ।।६९।।
व्याघ्राणां निनदास्तत्र बभूवुर्विश्वभञ्जकाः ।
व्याघ्रारण्यं समग्रं तु निनादैश्चाभिपूरितम् ।।2.33.७०।।
ग्रहाः प्रकम्पिरे वृक्षा भूश्चचाल सरस्तथा ।
सिंहोऽपि गर्जनां चक्रे फेनानि न्यपतद् भुवि ।। ७१ ।।
उड्डीयन्ते स्म च व्योम्नि फेनजालानि गर्जनात् ।
तेभ्य सिंहा व्यजायन्त क्षणात् पञ्चशतानि हि ।।७२। ।
सिंहान् दृष्ट्वा बलिव्याघ्राः केचित् सिंहास्तदाऽभवन् ।
सिंहानां वै तदा तत्र संग्रामोऽभूद् भयंकरः ।।७३ ।।
सिंहसैन्योभययोश्च घातनं मुखपन्नखैः ।
आन्त्राणां कर्षणं कण्ठचोषणं बह्वजायत ।।७४।।
नारी नैव हि हन्तव्या चेत्यभूद् धर्मसंगरः ।
सिंहाः पतन्ति संग्रामे हन्यन्ते कृत्रिमाश्च ते ।।७५।।
मूलभूतास्तु हन्यन्ते शात्रवाः केशराश्रयाः ।
न्यूना भवन्ति संख्यायां मृतास्ते सर्वथा मृताः ।।७६ ।।
वर्धन्ते च तदा देवीसिंहा मृतोद्भवाः पुनः ।
वीक्षितुं सिंहसंग्रामं नृसिंहो भगवानपि ।।७७।।
त्वाययौ धामतस्तत्र गर्जयन् स्वर्गमण्डलम् ।
क्रोशात् क्रोशं समुत्पत्य व्योम्नि युद्ध्यन्ति सिंहजाः ।। ७८ ।।
ददर्श भगवाँश्चापि जगर्जाऽम्बरसंस्थितः ।
देवीसिंहो ययौ चाभि चक्रे स्वागतमम्बरे ।।७९।।
सिंहजास्तु तदा सिंहा निजघ्नुः शेषतोऽसुरान् ।
निपेतुर्व्यसवः सर्वे मृताः शतं पुरो हरेः ।।2.33.८ ० ।।
तदात्मानो हरेश्चानुग्रहाच्छ्रीनृसिंहात्मनि ।
प्रययुर्विलयं तत्र निष्पापा क्षेत्रयोगतः ।।८ १ ।।
कृत्रिमाश्चाऽकृत्रिमाश्च मृतास्ते नरसिंहके ।
लयं याता ययुर्धाम्नि नृसिंहेन समं तदा ।। ८ २।।
ये देवीसिंहजाश्चान्ये शिष्टाः फेनोद्भवा अपि ।
श्रीहरिस्तन्निवासार्थं ददौ दक्षिणगं वनम् ।।८ ३ ।।
सिंहारण्यं तु तज्जातं सिंहवासमयं सदा ।
वंशस्त्वविचलस्तेषां भवेदिति हरिर्ददौ ।। ८४।।
वरदानं तथा भोज्यं वन्यं पशुकुलं ददौ ।
अथ व्याघ्रो मृतो यश्च वल्लीदीनस्तदा ततः ।।८५।।
जाता व्याघ्रा ह्यभवन् ये सिंहरूपाऽविधारकाः ।
हता अपि मृता नैव तेभ्यो नारायणः प्रभुः ।।८६ ।।
स्तुवद्भ्यः प्रददौ जीवदानं स्वास्थ्यं निरामयम् ।
वासारण्यं ददौ नित्यं व्याघ्रारण्यं तु तद्ध्यभूत् ।।८७।।
व्याघ्राणां वनयोग्यानां वंशाः सिंहैर्हि मिश्रिताः ।
व्याघ्रारण्ये तथा सिंहारण्ये स्युस्तद्धरिर्ददौ ।।८८ ।।
वरदानं च सौराष्ट्रेऽरण्ये वसन्ति तेऽनिशम् ।
व्याघ्रास्ते चाऽसुरा म्लेच्छाः सिंहास्तु दैविका हि ते ।।८ ९ । ।
एवं वसन्ति सौराष्ट्रे दक्षिणारण्यकेषु वै ।
अश्वपट्टसरस्तीरे सिंहव्याघ्रमहामृधम् ।। 2.33.९० । ।
यत्राऽभून्नरसिंहश्च व्योम्नो यत्राऽऽययौ तदा ।
सिंहव्याघ्रमहातीर्थं पावनं तत्प्रकथ्यते । । ९१ । ।
युद्धोत्तरं निशारम्भे बभूव वृष्टिरुत्तमा ।
भूतलं स्वच्छतां प्राप्तं सर्वे स्वं स्वं गृहं ययुः । । ९२ ।।
कन्यकास्तास्ततश्चक्रुर्व्रतं पूजां च जागरम् ।
दुर्गायाश्च तथा गौर्या कृष्णरक्षानिमित्तकम् । । ९३ । ।
रात्र्यन्ते पूजितां दुर्गां गौरीं क्षमाप्य वै जले ।
चक्रुर्विसर्जनं दुर्गागौर्योस्ततो हरिं प्रति ।। ९४।।
ययुः सर्वा दर्शनार्थं मेनिरे कृतकृत्यताम् ।
अथ दानानि दत्त्वैव सम्पूज्य लोमशं गुरुम् । ।९५ ।।
पितरौ पूजयित्वा च चक्रुर्वै पारणां ततः ।
ययौ काली स्वनिलयं सिंहोऽप्यदृश्यतां गतः ।।९६।।
स्वस्थं चाभूत्तु सौराष्ट्रं निर्भयं राधिके ततः ।
अनादिश्रीकृष्णनारायणस्यैषा चमत्कृतिः ।। ९७।।
श्रूयते पठ्यते येन तस्य श्रेयः परं भवेत् ।
ऐहिकं चापि सौभाग्यं भवेत् सन्तानतन्तुजम् ।। ९८।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने गौरीपूजनविसर्जने, वल्लीदीनाख्यव्याघ्रासुरस्य शतेन व्याघ्रसिंहरूपधारिणाऽसुरव्रजेन सह विनाशनमित्यादिनिरूपणनामा त्रयस्त्रिंशत्तमोऽध्यायः ।। ३३ ।।