रत्नसारफल्गुकुप्यानां साहसे मूल्यसमो दण्डः" इति
मानवा।
" मूल्यद्विगुणः" इत्यौशनसाः।
" यथापराधः" इति कौटि[१]ल्य' ।
"पुष्पफलशाकमूलकन्दपकान्नचर्मवेणुमृद्भाण्डादीनां क्षुद्र-कद्रव्याणां हादशपणावरश्चतुर्विंशतिपणपरो[२] दण्ड ।
कालायसकाष्ठरज्जुद्रव्यक्षुद्रपशुवाटादीनां स्थूलकद्रव्याणां
चतुर्विशतिपणावरोऽष्टचत्वारिंशत्पणपरो दण्डः ।
ताम्रवृत्तकंसकाचदन्तभाण्डादीनां स्थूलद्रव्याणां अष्टच-
त्वारिंशत्पणावर षण्णवतिपरं पूर्वस्साहसदण्डः ।
महापशुमनुष्यक्षेत्रगृहहिरण्यसुवर्णसूक्ष्मवस्त्रादीनां स्थूलकद्र
व्याणां द्विशतावरः पञ्चशतपरः मध्यमस्साहसदण्डः ।
स्त्रियं पुरुषं वाऽभिषह्य बध्नतो बन्धयतो वन्धं वा मोक्षयतः
पञ्चशतावरः सहस्रपर उत्तमः साहस दण्डः" इत्यचार्याः।
यस्साहसं प्रतिपत्तेति कारयति स गुणं[३] दद्यात् । 'याव
द्धिरण्यमुपयोक्ष्यते तावदास्यामि' इति स चतुर्गुणं दण्डं दद्यात् ।
‘य एतावद्धिरण्यं दास्यामि' इति प्रमाणमुद्दिश्य कारयति
यथोक्तं हिरण्यं दण्डं च दद्यात्" इति बार्हस्पत्याः ।
स चेत्कोपं मदं मोहं वाऽपदिशेत्, यथोक्तवद्दण्डमेनं कुर्या-
दिति कौटि[४]ल्यः ।