कदाचिद्रूप्यपीठेशो नमतेऽच्युतबुद्धये । |
अथ स तदधिपाज्ञया गतायां सुरसरितौ(?) सरसीं समस्तलोकैः । |
ततः सोऽयमिष्टसिद्ध्याख्यग्रन्थं ससंप्रदायं व्याख्याय प्रकारान्तरेण भागवतवाचकान्द्विजान् 'नेयं व्यासकृतिः' इत्यभिधाय, ततः 'त्वमेव ब्रूहि' इति तेनाच्युतप्रेक्षेण साक्षेपमुक्तस्तत्सर्वमाख्यायात्मानं जेतुं प्रवृत्तानामच्युतप्रेक्षसपक्षशिष्याणामनुमानानां प्रत्यनुमानैरुत्सादनादनुमानतीर्थाभिधामासाद्य विद्याब्धिवादिसिंहौ विजित्य पूर्वभाष्यमपनुद्य प्रार्थयते सतीर्थ्याय सूत्रार्थमभिधायाथ दक्षिणां दिशं गत्वा विष्णुमङ्गलक्षेत्रे भिक्षान्ते परीक्षायै भक्षणार्थं दत्तं कदलीफलचयं कन्याकुमार्याख्यतीर्थं रामसेतौ रङ्गनाथं विष्णुसहस्रनाम्नामपि शतार्थं पुनश्च रूप्यपीठं भुक्त्वा गत्वा स्नात्वा दृष्ट्वोक्त्वा समागत्य गीताभाष्यं कृत्वा गुरवे दत्त्वा बदरिकाश्रमगमनायानुज्ञामादाय कौबेरीं दिशमवतस्थे ।
तीर्त्वा जह्नुसुतां ततोऽणुबदरीमासाद्य नारायणं |
तं काष्ठमौनव्रतमाचरन्तं व्यासो निशि स्वप्रभया दिगन्तान् । |
अच्युतप्रेक्षाय ॥ ११ ॥ अथेति । अमितमति पूर्णप्रज्ञः सँस्तदधिपस्य रूप्यपीठेशस्याज्ञया सरसीं कासारमागतायां सुरसरितौ(?) भागीरथ्यां समस्तैर्लोकैः जनैः समं साकं विगाहते स्म । अगाहत । स्मयोगाद्भूते लट् । तस्य विडम्बनमिह लोके विचित्रमिति स्फुटम् ॥ १२ ॥ सपक्षः सखा । अनुमानानां कृद्येागात्कर्मणि षष्ठी । वादिग्रामसिंहौ श्वसदृशवादिनावित्यर्थः । सतीर्थ्याय सहाध्यायिने । कदलीफलचयादीनां पदानां भुक्त्वेत्यादिषु क्रमेणान्वयः । कौबेरीं दिशमुत्तरा दिशम् । उपायनतया उपग्राह्यत्वेन । 'उपायनमुपग्राह्यमुपहारस्तथोपदा' इत्यमरः ॥ १३ ॥ १४ ॥ महीध्रः पर्वतः । करटः गण्डः ।