सामग्री पर जाएँ

भार्गवतन्त्रम्/अध्यायः ७

विकिस्रोतः तः
← अध्यायः ६ भार्गवतन्त्रम्
अध्यायः ७
[[लेखकः :|]]
अध्यायः ८ →
भार्गवतन्त्रस्य अध्यायाः

।। सप्तमोऽध्यायः ।।
[वास्तुपूजाबिम्बजलाधिवासविवरणाध्यायः]
[वास्तुपूजायाः प्रयोजननिर्देशः]

रामः
अङ्कुराण्यर्पयित्वैवं वास्तुपूजां समाचरेत्।
विमानमण्डपादीनां प्राकाराणाञ्च शुद्धये ।। 7.1 ।।
शान्तये सर्वदोषाणां क्रियमाणस्य कर्मणः।
निर्विघ्नेन समाप्त्यर्थं वास्तुपूजा प्रशस्यते ।। 7.2 ।।

[वास्तुपूजाप्रकारः]

कुशैः काशैस्तृणैश्चापि वास्तुनाथस्य विग्रहम्।
कृत्वा सर्वाङ्गसम्पूर्णं वाससा भूषणेन च ।। 7.3 ।।
कुसुमैरप्यलङ्कृत्य मण्डपे दक्षिणे भुवि।
सप्तदर्भकृतं कूर्चं कृत्वोरसि नियोजयेत् ।। 7.4 ।।
पुण्याहवारिभिः प्रोक्ष्य पूजयेद्वास्तुनायकम्।
वास्त्वीशाष्टाक्षरेणैव कूर्ते आवाह्य देशिकः ।। 7.5 ।।
`असुनीते'ति मन्त्रेण कुर्यात्प्राणं प्रतिष्ठितम्।
अर्ध्यैः पाद्यैस्तथाचामैर्गन्धैः पुष्पैस्तथाक्षतैः ।। 7.6 ।।
धूपैर्दीपैश्च नैवेद्यैस्ताम्बूलैर्वासनायुतैः।
अर्चयित्वा यथाशास्त्रं तोषयित्वा यथावसु ।। 7.7 ।।

[वास्तुपूजाङ्गहोमः वास्तुशेषपरित्यागादिकञ्च]

पश्चिमे वास्तुनाथस्य जुहुयाज्जातवेदसि।
`पञ्चोपनिषदै'र्मन्त्रैः सर्पिषा जुहुयाच्छतम् ।। 7.8 ।।
शम्यपामार्गखदिरसमिद्भिश्च यथाक्रमम्।
`वास्त्वीश'मूलमन्त्रेण ह्यष्टावष्टौ पृथक् पृथक् ।। 7.9 ।।
`वास्तोस्पते प्रतीत्यादि' ऋग्भिश्चापि चतसृभिः।
चरुणा जुहुयादग्नौ ततो `वास्त्वीश'मूलतः ।। 7.10 ।।
अष्टोत्तरशतं वारान् सर्पिषा जुहुयात्पुनः।
`इदं विष्णु'रिति श्रुत्या हुत्वा पूर्णाहुतिं ततः ।। 7.11 ।।
दग्ध्वा वास्तुप्रतिकृतिं `परिवाजे'ति वै ऋचा।
पर्यग्निकरणं कृत्वा धाम तन्मण्डपादिकम् ।। 7.12 ।।
ईशानभागे ग्रामस्य वास्तुशेषं परित्यजेत्।
ततः स्नात्वा विधानेन पुण्याहप्रोक्षणं चरेत् ।। 7.13 ।।

[मानादिप्रयुक्तदोषशान्तिप्रकारः]

मानोन्मानमाणादेर्हानिवृद्ध्यघशान्तये।
प्रतिमालयपीठानां शान्तिहोमं समाचरेत् ।। 7.14 ।।
पीठे बिम्बानि विन्यस्य क्षालयित्वा शुभोदकैः।
पीठानि च तथा धामाद्यलिंपेद्‌गोमयादिभिः ।। 7.15 ।।
  (c: A. यामात् for धामाद्;)
  (d: A. आलिपेत् for oद्यालिंपेत्;)
बिम्बानां पुरतो वह्निं प्रतिष्ठाप्य समीदलैः।
साक्षतैर्व्याहृतीभिश्च होमश्चाष्टोत्तरं शतम् ।। 7.16 ।।
  (a: A. परतो for पुरतो;)
पूर्णाहुत्यवसाने तु वह्न्युपस्थानमाचरेत्।
`नमस्तुभ्यं भगवते जातवेदःस्वरूपिणे ।। 7.17 ।।
नारायणाय हव्यस्य कव्यस्य च यथाक्रमम्।
होत्रे यष्टव्यदेवानामात्मने परमात्मने ।। 7.18 ।।
  (b: A. यथातथम् for यथाक्रमम्;)
सन्निधत्स्व चिरं देव प्रतिमायां हिताय नः।'
इत्युपस्थाय मेधावी शुद्धस्नपनमाचरेत् ।। 7.19 ।।
  (c: T. उपस्थाप्य for उपस्थाय;)

[बिम्बाधिवासक्रमे घृतस्नानप्रकारः]

बिम्बानां पुरतः कुंभं दान्यपीठे निवेशयेत्।
सूत्रवेष्टितसर्वाङ्गं गन्धवस्त्राद्यलङ्कृतम् ।। 7.20 ।।
आढकद्वयमात्रेण गोधृतेन प्रपूरितम्।
सकूर्चं पल्लवयुतं शरावेणावकुण्ठितम् ।। 7.21 ।।
संस्थाप्य कृत्वा पुण्याहं प्रोक्षयित्वा यथाविधि।
वासुदेवं समावाह्य `द्वादशाक्षर'विद्यया ।। 7.22 ।।
अभ्यर्च्य गन्धपुष्पाद्यैर्नैवेद्यान्तं यथाक्रमम्।
`घृतं मिमिक्षि' मन्त्रेण घृतेन स्नपनं चरेत् ।। 7.23 ।।
`मानस्तोके'ति मन्त्रेण स्नापयेदुष्णवारिभिः।
ततो बिम्बानि सर्वाणि भूषियित्वा नवाम्बरैः ।। 7.24 ।।
भूषणैर्गन्धमाल्यैश्च यथाविधि यथावसु।

[जलाधिवासप्रकारः]

जलाधिवासं कुर्वीत नद्यादौ मङ्गलोदके ।। 7.25 ।।
जलाधिवासायोग्यानां त्रिवस्तुकमृदात्मनाम्।
चित्राणां पटजानां वा गुरूणां च शिलादिषु ।। 7.26 ।।
छायाधिवासं कुर्वीत प्रतिष्ठतन्त्रसारवित्।
जलद्रोण्यां कटाहे वा समुद्धृत्य महज्जलम् ।। 7.27 ।।
धान्यराशौ विनिक्षिप्य गन्धैस्तदधिवास्य च।
गङ्गाद्यास्सरितस्तत्र समावाह्य समर्चयेत् ।। 7.28 ।।
अष्टाविंशतिभिर्दर्भैः कृतं कूर्चं विनिक्षिपेत्।
तत्र देवं समावाह्य पूजयित्वा यथाविधि ।। 7.29 ।।
संहारक्रममाचार्यः संस्मरेत्तत्र तन्त्रवित्।
चक्रमुद्रां दर्शयित्वा रक्षाकुम्भार्चनं चरेत् ।। 7.30 ।।
  (b: A. देशिकः for तन्त्रवित्;)
धान्यपीठेऽथ तत्पार्श्वे तोयपूर्णान् घटान् नव।
सालङ्कारान् सकरकान् सरत्नान् लोहसंयुतान् ।। 7.31 ।।
संस्थाप्य मध्ये ब्रह्माणं करके चायुधेश्वरम्।
इन्द्रादिदिक्पतीनन्यकलशेष्वर्चयेद् बुधः ।। 7.32 ।।
सर्वाण्यङ्गानि बिम्बस्य वेष्टयेन्नववाससा।
`रक्षोहणे'ति मन्त्रेण सिद्धार्थान् विकिरेद्बुधः ।। 7.33 ।।
  (d: A. वलिः for बुधः)
देवीनां तु श्रियादीनां त्रयोविंशतिभिः कुशैः।
पञ्चविंशतिभिर्दर्भैः रुद्रस्य परमेष्ठिनः ।। 7.34 ।।
द्वाविंशद्भिः कुशैः कूर्चं कुर्यादन्यामृतासिनाम्।
आरोप्य याने बिम्बानि वेदवाद्यसमन्वितम् ।। 7.35 ।।
  (b: T. अन्यावृताशिo for अन्यामृताशिo;)
सर्वमङ्गलसंयुक्तं प्रापयेच्च नदीतटम्।
तीरे निवेश्य नद्यादेः प्रोक्ष्य पुण्याहवारिणा ।। 7.36 ।।
शोषयेद्वायुबीजेन `वह्निमन्त्रेण' दाहयेत्।
सुधाक्षरेण संप्लाप्य गङ्गामावाह्य पूजयेत् ।। 7.37 ।।
एवं शुद्धे नदीतोये पीठं तत्र विनिक्षिपेत्।
कल्पयित्वा योगपीठं बिम्बं प्राक्‌शिरसं न्यसेत् ।। 7.38 ।।
शाययेच्च सम्भ्यर्च्य संहारं चिन्तयेत्ततः।
चक्रमुद्रां प्रदर्श्याथ नदीतीरे यथापुरम् ।। 7.39 ।।
  (c: A. प्रदृश्य for प्रदर्श्य;)
रक्षाकुम्भार्चनं कुर्यात् सिद्धार्थान् दिक्षुपातयेत्।
आरोपयेदनिर्वाणान् दीपान् अपि सुवर्चसः ।। 7.40 ।।
त्रयी प्रवर्तनं कुर्यात् ब्राह्मणैः वेदपारगैः।
तस्मिन् जले न कुर्वीरन् स्नानपानादिकाः क्रियाः ।। 7.41 ।।
वाद्यानि च विचित्राणि घोषयेषुः समन्ततः।
त्रिरात्रमेकरात्रं वा यद्वा यामं मुहूर्तकम् ।। 7.42 ।।
जलाधिवासं कुर्वीत तत्र नद्याद्यसंभवे।
कटाहे वा जलद्रोण्यां बिम्बानामधिवासनम् ।। 7.43 ।।
  (b: A. तत्तु for तत्र;)

।। इति भार्गवतन्त्रे सप्तमोऽध्यायः ।।