रोहसेनः--किं मर गदेण कादव्वं ।। { किं मया गतेन कर्त- व्यम् ? ।]
चारुदत्तः--
आश्रमं वत्स ! गन्तव्यं गृहीत्वाद्यैव मातरम् । |
तद्वयस्य ! गृहीत्वैनं व्रज ।
विदूषकः---भो वअस्स ! एवं तुए जाणिदं, तुए विणा अहं पाणाइं धारेमि त्ति ? । [ भो वयस्य ! एवं त्वया ज्ञातम् , त्वया विनाह प्राणान्धारयामीति ? ।]
चारुदत्तः–वयस्य ! स्वाधीनजीवितस्य न युज्यते तव प्राणपरि- त्यागः ।।
विदूषकः—( स्वगतम्) जुत्तं ण्णेदं, तधा वि ण सक्कुणोमि पिअवअस्सविरहिदो पाणाइं धारेदुं त्ति । ता बम्हणीए दारअं समप्पिअ पाणपरिच्चाएण अत्तणो पिअवअस्सं अणुगमिस्सं । ( प्रकाशम् ) भो वअस्स ! पराणेमि एदं लहुं। [युक्तं न्विदम् । तथापि न शक्नोमि प्रियवयस्यविरहितः प्राणान्धर्तुमिति । तद्ब्राह्मण्यै दारकं समर्प्य प्राणपरित्यागेनात्मनः प्रियवयस्यमनुगमिष्यामि । भो वयस्य ! परानयाम्येतं लधु । ] ( इति सकण्ठग्रहं पादयोः पतति )
( दारकोऽपि रुदन्पतति )
शकारः-अले! णं भणामि शपुत्ताकं चालदत्ताकं वावादेध त्ति । [ अरे ! ननु भणामि सपुत्रकं चारुदत्तं व्यापादयतेति ।]
( चारुदत्तो भयं नाटयति )
तुयलशि त्वरसे ॥ आश्रममिति ॥ ३२ ॥ किं ओहशशीत्यादि । गाथा । टिप्प..1 तव पित्रा वसन्तसेना मारितेत्यपवादरूपपित्रपराधेन त्वमपि मैवंविधां
दशां गमिष्यसीति भावः ।