शकारः---तेण हि पडंतोवालिदं कदुअ मालेहि । [ तेन हि पटान्तापवारितां कृत्वा मारय ।]
विटः---मूर्ख ! अपध्वस्तोऽसि ।।
शकारः–अधम्मभीलू एशे बुड्ढकोले । भोदु, थावलअं चेडं अणुणेमि । पुत्तका थावलका चेडा ! शोवण्णखंडुआइं दइश्शं । [ अधर्मभीरुरेष वृद्धकोलः । भवतु, स्थावरकं चेटमनुनयामि । पुत्रक स्थावरक चेट ! सुवर्णकटकानि दास्यामि ।
चेटः–अहं पि पहिलिश्शं । [ अहमपि परिधास्यामि ।]
शकारः-शोवण्णं दे पीढके कालइश्शं । [सौवर्ण ते पीठकं कारयिष्यामि ।।
चेटः--अहं पि उवशिश्शं । [ अह्मप्युपवेक्ष्यामि ।]
शकारः-शव्वं दे उच्छिश्टअं दइश्शं । [ सर्व त उच्छिष्टं दास्यामि । ]
चेटः---अहं पि खाइश्शं । [ अहमपि खादिष्यामि ।]
शकारः--शव्वचेडाणं महत्तलकं कलइश्शं । [ सर्वचेटानां महत्तरकं कारयिष्यामि ।]
चेटः–भट्टके ! हुविश्शं । [ भट्टक ! भविष्यामि ।।
शकारः-—ता मण्णेहि मम वअणं । [ तन्मन्यस्व मम वचनम् ।।
चेटः--भट्टके ! शव्वं कलेमि वजिअ अकज्जं । [भट्टक ! सर्व करोमि वर्जयित्वाऽकार्यम् ।]
शकारः---अकज्जाह गंधे वि णन्थि । [ अकार्यस्य गन्धोऽपि नास्ति ।]
धिकृतः ॥ खंडुआइं बाहुवलय विशेषान् । पहिलिस्सं परिधास्ये ॥ पीढके पीठम् ॥ उवधिसिस्सं उपवेक्ष्यामि ॥ तंवहिहिसिधोष्टासि (१) उच्छिश्टअं भोजनाव- --