विटः—वसन्तसेने! तिष्ठ तिष्ठ,
किं यासि बालकदलीव विकम्पमाना |
शकारः—च्यिश्ट वशंतशेणिए! च्यिश्ट,
मम मअणमणंगं मम्मथं वड्ढअंती |
[तिष्ठ वसन्तसेने! तिष्ठ,—
मम मदनमनङ्गं मन्मथं वर्धयन्ती |
{{‘गतमृतकृतानां डः' इति डः॥१९॥ किं यासीति। ‘टङ्कः पाषाणदारणः इत्यमरः। विदारणक्षणे हि निर्मला दीप्तिः प्रसरतीति। कुड्मलं कलिका। मनःशिलगुहेति । महाभारते ‘मनःशिल'शब्दोऽपि दृश्यत इति तथा प्रयुक्तः। 'मनःशिला तु कुनदी' इत्यमरः॥२०॥ मम मअणेत्यादि। मालिनीच्छन्दसा श्लोकः। मम मदनमनङ्गं मन्मथं वर्धयन्ती निशि च शयनके मम निद्रामाक्षिपन्ती। प्रसरसि प्रगच्छसि। “प्रखरसि दात्यूहवद्विरौषि' इति केचित्। भयभीता प्रस्खलन्ती स्खलन्ती मम वशमनुयाता रावणस्येव कुन्ती। भयभीतेति। 'भय'शब्दोऽयमपार्थकः। ‘मदनमनङ्गम्' इत्यादि पुनरुक्तम्। 'रावणस्येव कुन्ती” इति हृतोपमम्। तथा चोकम्-‘आगमलिङ्गविहीनं देशकलान्यायविपरीतम्।}}