पुटमेतत् सुपुष्टितम्
62
श्रीसरस्वतीविलासे
यस्मिन्मते प्रमाणोपन्यासानन्तरं प्रमाणाभासशङ्कापनोदकं जयपराजयफलकं विमर्शनं प्रत्याकलितं तन्मते संख्यैव विवक्षिता, न तु क्रमः । प्रत्याकलितस्य तुरीयपादत्वात् । यथोक्तं--
"भाषापादस्तु तत्राद्यो द्वितीयो मर्शनं तथा ।
क्रियापादस्तथाचान्यः चतुर्थो निर्णयस्स्मृतः" ॥ इति ॥
इति श्रीवीरगजपति गौडेश्वर नवकोटिकर्णाटकलुबुरिगेश्वर
जमुनापुराधीश्वर हुशनसाहि सुरत्राण शरणरक्षक श्री-
दुर्गावरपुत्र परमपवित्र चरित्र राजाधिराजराज-
परमेश्वर श्रीप्रतापरुद्र महादेव महाराज
विरचिते स्मृतिसंग्रहे सरस्वती-
विलासे व्यवहारकाण्डे शास्त्र-
मुखस्वरूपनिरूपणं नाम
द्वितीयोल्लासः.