प्राकृताः । दुर्गाः गिरिदुर्गाणि सप्त । कोशस्सुवर्णादिद्रव्यराशिः । दण्डः चतुरङ्गसैन्यम् । जना ब्राह्मणादिवर्णाः । तथा च याज्ञवल्क्यः--
"स्वाम्यमात्यजना दुर्गं कोशो दण्डस्तथैव च ।
मित्राण्येताः प्रकृतयः राज्यं सप्ताङ्गमुच्यते ।" इति
प्रकृतयः मूलकारणानि । अतस्सप्ताङ्गानि सर्वथा संरक्ष्याणीत्याह-- सुमन्तुः-- स्वाम्यमात्मना संरक्षेत् । अमात्यान् सन्मानेन । वर्णान् रञ्जनेन, जनान् वर्णधर्मरञ्जनेन । दुर्गं धनधान्यादिसमृद्ध्या, कोशमुचितव्ययेन । दण्डं स्वधर्मेण । मित्रं सत्यभाषणेन" इति । अत्र दण्डः चतुरङ्गसैन्यं न भवति । अपराधानुसारेण शारीरोऽर्थदण्डः परिकल्पनीयः । अयमभिसन्धिः-- सुमन्तुमते चतुरङ्गसैन्यस्य कोश एवान्तर्भावः" इति । कोशस्तु सर्वथा अभिसंरक्ष्यः इत्याह गौतमः--'तन्मूलत्वान् प्रकृतीनाम्' इति । प्रकृतीनां षडङ्गानामित्यर्थः । सर्वथा सर्वप्रकारेण असद्व्ययं विहाय चोरादिभ्यः कायस्थादिभ्यश्चापि संरक्षणीयः इति ।
अत एव गौतमसूत्रम्--
"प्रभु मन्त्रोत्साहशक्तयस्तन्मूलाः" इति ।
तन्मूलाः कोशमूला इत्यर्थः । तथाच याज्ञवल्क्यः--
"तदवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् ।
दण्डो हि धर्मरूपेण ब्रह्मणा निर्मितः पुरा" । इति ॥