पाञ्चालकः--उत्थाय च तस्मात्सलिलाशयात्करयुगलोत्तम्भिततोरणीकृतभीमगदः कथयति स्म-- 'अरे रे मारुते ! किं भयेन प्रलीनं दुर्योधनं मन्यते भवान् ? मूढ! अनिहतपाण्डुपुत्रः प्रकाशं लज्जमानो विश्रमितुमध्यासितवानस्मि पातालम् ।' एवं चोक्ते, वासुदेवकिरीटिभ्यां द्वावप्यन्तःसलिलं निषिद्धसमरारम्भौ स्थलमुत्तारितौ । आसीनश्च कौरवराजः क्षितितले गदां निक्षिप्य विशीर्णरथसहस्रं निहतकुरुशतगजवाजिनरसहस्रकलेवरसंमर्दसंपतद्गृध्रकङ्कजम्बूकमस्मद्वीरमुक्तसिंहनादमपमित्रबान्धवमकौरवं रणस्थानमवलोक्यायतमुष्णं च निश्वसितवान् । ततश्च वृकोदरेणाभिहितम्-- 'अयि भोः कौरवराज! कृतं बन्धुनाशदर्शनमन्युना । मैमं विषादं कृथाः 'पर्याप्ताः पाण्डवाः समरायाहमसहाय' इति ।
पञ्चानां मन्यसेऽस्माकं यं सुयोधं सुयोधन !। |
इत्थं च श्रुत्वाऽसूयान्वितां दृष्टिं कुमारयोर्निक्षिप्योक्तवान्धार्तराष्ट्रः
कर्णदुःशासनवधात्तुल्यावेव युवां मम । |
इत्युत्थाय च परस्परक्रोधाधिक्षेपपरुषवाक्कलहप्रस्तावितघोरसङ्ग्रामौ विचित्रविभ्रमितगदापरिभासुरभुजदण्डौ मण्डलैर्विचरितुमारब्धौ भीमदुर्योधनौ । अहं च देवेन चक्रपाणिना देवसकाशमनुप्रेषितः । आह च देवो देवकीनन्दनः । अपर्युषितप्रतिज्ञे मारुतौ प्रनष्टे च कौरवराजे महानासीन्नो विषादः । संप्रति पुनर्भीमसेनेनासादिते सुयोधने निष्कण्टकीभूतं भुवनतलं परिकलयतु भवान् । अभ्युदयोचिताश्चानवरतं प्रवर्त्यन्तां समारम्भाः । कृतं संदेहेन ।
पूर्यतां सलिलेन रत्नकलशा राज्याभिषेकाय ते |
दौपदी-- ( सबाष्पम् ) जं देवो त्तिहुअणणाहो भणादि तं कहं अण्णहा हविस्सदि । ( यद्देवस्त्रिभुवननाथो भणति तत्कथमन्यथा भविष्यति ।)