दुर्योधनः--
एकोऽहं भवतीसुतक्षयकरो मातः कियन्तोऽरयः ? |
( नेपथ्ये । कलकलानन्तरम् ।)
भो भो योधाः! निवेदयन्तु भवन्तः कौरवेश्वराय! इदं महत्कदनं प्रवृत्तम् । अलमप्रियश्रवणपराङ्मुखतया । यतः कालानुरूपं प्रतिविधातव्यमिदानीम् । तथा हि ।
त्यक्तप्राजनरश्मिराङ्किततनुः पार्थाङ्कितैर्मार्गणै- |
दुर्योधनः-- ( श्रुत्वा । साशंकम् । ) आः! केनेदमविस्पष्टमशनिपातदारुणमुद्घोषितम् ? कः कोऽत्र भोः ?
( प्रविश्य संभ्रान्तः । )
सूतः-- हा! हताः स्मः । ( इत्यात्मानं पातयति ।)
दुर्योधनः-- अयि! कथय ।
धृतराष्ट्रसंजयौः-- कथ्यतां कथ्यताम् ।
सूतः-- आयुष्मन्! किमन्यत् ? ।
शल्येन यथा शल्येन मूर्छितः प्रविशता जनौघोऽयम् । |
दुर्योधनः-- हा वयस्य कर्ण !। ( इति मोहमुपगतः )
गान्धारी--जाद ! समस्सस समस्सस । ( जात! समाश्वसिहि समाश्वसिहि ।
संजयः-- समाश्वसितु समाश्वसितु देवः ।
धृतराष्ट्रः-- भोः! कष्टं कष्टम् ।
भीष्मे द्रोणे च निहते य आसीदवलम्बनम् । |
वत्स ! समाश्वसिहि समाश्वसिहि । ननु भो हतविधे!