अथवा शोकं प्रति मया न किञ्चित्संदेष्टव्यम् ।
वृषसेनो न ते पुत्रो न मे दुःशासनोऽनुजः । |
सुन्दरकः--जं देवो आणवेदि । ( इति निष्क्रान्तः । यद्देव आज्ञापयति )
दुर्योधनः--तूर्णमेव रथमुपस्थापय ।
सूतः--( कर्णं दत्वा । ) देव! ह्रेषासंवलितो नेमिध्वनिः श्रूयते । तथा तर्कयामि नूनं परिजनोपनीतो रथः ।
दुर्योधनः--सूत! गच्छ त्वं सज्जीकुरु ।
सूतः--यदाज्ञापयति देवः । ( इति निष्क्रम्य पुनः प्रविशति । )
दुर्योधनः--( विलोक्य ।) किमिति नारूढोसि ? ।
सूतः--एष खलु तातोऽम्बा च संजयाधिष्ठितं रथामारुह्य देवस्य समीपमुपगतौ ।
दुर्योधनः--किं नाम ? तातोऽम्बा च संप्राप्तौ । कष्टमतिबीभत्समाचरितं दैवेन । सूत ! गच्छ त्वं स्यन्दनं तूर्णमुपहर । अहमपि तातदर्शनं परिहरन्नेकान्ते तिष्ठामि ।
सूतः--देव! त्वदेकशेषबान्धवावेतौ कथमिव न समाश्वासयसि ?
दुर्योधनः--सूत! कथमिव समाश्वासयामि विमुखभागधेयः ? पश्य
अद्यैवावां रणमुपगतौ तातमम्बां च दृष्ट्वा । |
तथाऽप्यवश्यं वन्दनीयौ गुरू ।
( इति निष्क्रान्तौ ।)
इति चतुर्थोऽङ्कः ।