एह्यस्मदर्थहततात ! परिष्वजस्व |
( इत्यालिङ्ग्य पार्श्व उपवेशयति ।)
( अश्वत्थामा बाष्पमुत्सृजति ।)
कर्णः-- द्रौणायन ! अलमत्यर्थमात्मानं शोकानले प्रक्षिप्य ।
दुर्योधनः-- आचार्यपुत्र ! को विशेष आवयोरस्मिन्व्यसनमहार्णवे ? । पश्य ।
तातस्तव प्रणयवान्स पितुः सखा मे |
कृपः-- वत्स ! यथाह कुरुपतिस्तथैवैतत् ।
अश्वत्थामा-- राजन् ! एवं पक्षपातिनि त्वयि युक्तमेव शोकभारं लघूकर्तुम् । किं तु
मयि जीवति मत्तातः केशग्रहमवाप्तवान् । |
कर्णः-- द्रौणायन ! किमत्र क्रियते ? यदा तेनैव सर्वपरिभवपरित्राणहेतुना शस्त्रमुत्सृजता तादृशीमवस्थामात्मा नीतः ।
अश्वत्थामा-- अङ्गराज ! किमाह भवान्किमत्र क्रियत इति । श्रूयतां यत्क्रियते ।
यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां |
अपि च । भो जामदग्न्यशिष्य कर्ण!