तद्भीरुत्वं तव मम पुरः साहसानीदृशानि । |
सखी--तदो तदो । ( ततस्ततः ।)
भानुमती--तदो सोवि मं अणुसरन्तो एव्व लदामण्डवं पविट्ठो ।
( ततः सोऽपि मामनुसरन्नेव लतामण्डपं प्रविष्टः । )
राजा--अहो ! कुलटोचितमस्याः पापाया अशालीनत्वम् ।
यस्मिंश्चिरप्रणयनिर्भरबद्धभाव- |
उभे--तदो तदो । ( ततस्ततः ।)
भानुमती--तदो तेण सगव्वं पसारिअकरेण अवहरिदं मे त्थणंसुअम् । ( ततस्तेन सगर्वं प्रसारितकरेणापहृतं मे स्तनांशुकम् ।)
राजा--( सक्रोधम् । )अलमिदानीमतःपरमाकर्णनेन । भवतु तावत्तस्य परवनितावस्कन्दनप्रगल्भस्य माद्रीसुतहतकस्य जीवितमपहरामि । ( किंचिद्गत्वा । विचिंन्त्य । ) अथवा इयमेव तावत्पापशीला प्रथममनुशासनीया । ( इति निवर्तते ।)
उभे--तदो तदो । ( ततस्ततः । )
भानुमती--तदो अज्जउत्तस्स प्पभादमङ्गलतूररवमिस्सेण वारविलासिणीजणसंगीदरवेण पडिबोधिदह्मि । ( तत आर्यपुत्रस्य प्रभातमङ्गलतूर्यरवमिश्रेण वारविलासिनीजनसंगीतरवेण प्रतिबोधितास्मि । )
राजा--( सवितर्कम् । ) किं नाम ? प्रतिबोधितास्मीति । स्वप्नदर्शनमनया वर्णितं भवेत् ? । अथवा सखीवचनादेव व्यक्तिर्भविष्यति ।
( उभे सविषादमन्योन्यं पश्यतः ।)