पारिपार्श्विकः-—न खलु न जाने । किंत्वमङ्गलाशंसयास्य वो वचनस्य यत्सत्यं कम्पितमिव मे हृदयम् ।
सूत्रधारः–-मारिष, ननु सर्वमेवेदानीं प्रतिहतममङ्गलं स्वयं प्रतिपन्नदौत्येन संधिकारिणा कंसारिणा । तथा हि ।
निर्वाणवैरदहनाः प्रशमादरीणां । |
( नेपथ्ये । साधिक्षेपम् । )
आः दुरात्मन्वृथामङ्गलपाठक शैलूषापसद,
लाक्षागृहानलविषान्नसभाप्रवेशैः |
( सूत्रधारपारिपार्श्विकावाकर्णयतः। )
पारिपार्श्विकः—-भाव ! कुत एतत् ।
सूत्रधारः--( पृष्ठतो विलोक्य । ) अये, कथमयं वासुदेवगमनात्कुरुसंधानममृष्यमाणः पृथुललाटतटघटितविकटभ्रुकुटिना दृष्टिपातेनापिबन्निव नः सर्वान्सहदेवेनानुगम्यमानः क्रुद्धो भीमसेन इत एवाभिवर्तते । तन्न युक्तमस्य पुरतः स्थातुम् ।
( इति निष्क्रान्तौ )
प्रस्तावना ।
( ततः प्रविशति सहदेवेनानुगम्यमानः क्रुद्धो भीमसेनः ।)
भीमसेनः--आः दुरात्मन्वृथामङ्गलपाठक शैलूषापसद । ('लाक्षागृहानल-'( १।८ ) इत्यादि पुनः पठति । )
सहदेवः—-( सानुनयम् । ) आर्य, मर्षय मर्षय । अनुमतमेव नो भरतपुत्रस्यास्य वचनम् । पश्य । ('निर्वाणवैरदहनाः' ( १।७ )इति पठित्वान्यथाभिनयति ।)