(२६२)
व्याख्या
अथ पुरीदर्शनानन्तरमग्रे पुरः समागतेन सभाजनार्थं समपस्थितेनाऽग्रजन्मना ज्येष्ठभ्रात्रा सोमदेवेन मानितस्समादृतस्स विक्रमाङ्कदेवस्तेनैव सोमदेवेनैव सह नृपमन्दिरं राजसदनं क्लेशेन दुःखेन सहितं सबलेशं सदुःखं शोकमनुभवन्नित्यर्थः। विवेश प्रविष्ट ।
भाषा
कल्याण नगरी में पहुँचने पर बडे भाई सोमदेव से अगवानी द्वारा सम्मानित विक्रमाङ्कदेव, उसी के साथ राजमन्दिर में दुख से गया ।
|
अन्वयः
तत्र तयोः अन्योन्यकण्ठाश्लेषेण पीडितस्य इव बाष्पाम्भसः अति मांसलाः धाराः चिरं निर्ययुः ।
व्याख्या
तत्र राजमन्दिरे तयोस्सोमदेवविक्रमाङ्कदेवयोरन्योन्यस्य परस्परस्य कण्ठा श्लेषेण कण्ठपरिरम्भणेन पोडितस्येव निष्ठ्यूतस्येव बाष्पमेवाम्भो बाष्पाम्भोऽ श्रुजलं तस्योऽतिमांसला अतिबलवत्य अतिविशाला इत्यर्थः । बलवान्मां सलोंऽसलः' इत्यमरः । धारा प्रवाहाश्चिर बहुकालपर्यन्त निर्ययुनिस्सृताः । सौ चिरकालपर्यन्तमश्रूणि मुञ्चन्सौ रुरुदतुरिति भावः । अत्रोत्प्रेक्षालङ्कारः ।
भाषा
राजमन्दिर में एक दूसरे को कस कर गले लगाने से मानो दबने से आसुओं की विशाल घाराएँ चिरकाल तक निकलती रही ।
|
अन्वयः
क्रमात् अदुःखाभ्यां ताभ्यां कैतव्याह्याभिः अन्योन्यस्नेहवृत्तिभिः के अपि वासराः अत्यवाह्यन्त ।